________________
० १४ पं० १६. ]
टिप्पणानि ।
विधमाहुः । एकादशकमिति विन्ध्यवासी । तथान्येषां महति सर्वार्थोपलब्धिः, मनसि विन्ध्यवासिनः । संकल्पाभिमानाध्यवसायनानात्वमन्येषाम् एकत्वं विन्ध्यवासिनः । तथा करणं निर्लिखितस्वरूपं शून्यग्रामनदीकल्पम्, प्राकृतवैकृतिकानि तु ज्ञानानि प्रेरकाङ्गसंगृहीतानि प्रधानादगच्छन्ति चेति पञ्चाधिकरणः, न तु तथेत्यन्ये । करणानां महती स्वभावातिवृत्तिः प्रधानात् स्वल्पा च स्वत इति वार्षगण्यः, सर्वा स्वतः इति पतञ्जलिः सर्वा परत इति पञ्चाधिकरणः, बुद्धिः क्षणिकेति च, कालान्तरावस्थायिनी इत्यपरे । एवमनेकनिश्चयेषु आचार्येषु ये तावत् प्रधानमहतोरन्तराले तत्त्वान्तरमिच्छन्ति तत्प्रतिक्षेपाया-5 चार्यः स्वमतमुपन्यस्यति —- प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥२२॥ 'प्रकृतेर्महान्' । प्रकृतेर्महानुत्पद्यते । महान् बुद्धिर्धृतिर्ब्रह्मा पूर्तिः ख्यातिरीश्वरो विखर इति पर्यायाः । स तु देशमहत्त्वात् कालमहत्त्वाच्च महान् । सर्वोत्पाद्येभ्यो महापरिणामयुक्तत्वाद् महान् । अन्यस्य तु पक्षे नैवाहङ्कारो विद्यत इति तव्प्रतिषेधविवक्षयेदमाह - ' ततोऽहंकारः' । तस्माद् महतोऽहंकार उत्पद्यते । यः पुनराह - महतः षडविशेषाः सृज्यन्ते 'पञ्च तन्मात्राणि अहंकारश्च' इति, तन्निरासार्थमाह- तस्माद् गणश्च षोडशकः । तस्मादहंकारात् षोडशको गण उत्पद्यते पञ्च तन्मात्राणि एकादशेन्द्रियाणि 10 श्वेति । अनेनैव च भौतिकेन्द्रियवादी प्रतिक्षिप्तो बोद्धव्यः । ' तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि' । तस्मादपि षोडशकाद् गणाद्यः पञ्चको गणः ततः पञ्च महाभूतान्युत्पद्यन्ते । पूर्वपदलोपेनात्र महाभूतानीति वक्तव्ये भूतानीत्युच्यते । भूतसंज्ञा हि तन्मात्राणाम्, न पृथिव्यादीनाम् अत्र तु सांख्याचार्याणामविप्रतिपत्तिः । भूतकौटस्थ्यवादिनस्तु मीमांसका आईताश्च तव्यतिक्षेपेणेदमुच्यते इति ।" इति सांख्यकारिकाया वृत्तौ युक्तिदीपिकायाम् ।
1
पृ० १३ पं० १९-२२. आचार्यपवनपाषाणवत्
'त्तमांसि । दृश्यतां पृ० २७३-५, २८४ ॥
पृ० १४ पं० ४-५. सामान्य ..... ... नियमपक्षापत्तिरपि । दृश्यतां पृ० २० पं० ५ ।
पृ० १४ पं० ६–७. पर''''''अनवधृतैकतरकारणत्वाद् । दृश्यतां पृ० १९ पं० १५, पृ० २७ पं० ६-७ । पृ० १४ पं० ११. शब्दतन्मात्रादिषु .. .....। "तन्मात्राण्यविशेषाः । यानि तन्मात्राणि पञ्च अहंकारादुत्पद्यन्ते इति प्रागपदिष्टं ते खल्वविशेषाः । कानि पुनस्तन्मात्राणीति उच्यते - शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रे रसतन्मात्रं गन्धतन्मात्रमिति । कथं पुनस्तन्मात्राणीत्युच्यते — तुल्यजातीयविशेषानुपपत्तेः । अन्ये शब्दजात्यभेदेऽपि सति विशेषा उदात्तानुदात्त - 20 'स्वरितानुनासिकादयः तत्र न सन्ति तस्माच्छब्दतन्मात्रम् । एवं स्पर्शतन्मात्रे मृदुकठिनतादयः । एवं रूपतन्मात्रे शुरूकृष्णादयः । एवं रसतन्मात्रे मधुराम्लादयः । एवं गन्धतन्मात्रे सुरभ्यादयः । तस्मात् तस्य तस्य गुणस्य सामान्यमेवात्र, न विशेषः ।” -सांख्यका० युक्तिदीपिका [का० १८ ] । भूतेषु एकगुणादिवृद्धेषु । दृश्यतां पृ० २६८ टि० १ ।
1
१५
पृ० १४ पं० १२. श्रोत्रादिष्वेकादशस्त्रिन्द्रियेषु । दृश्यतां पृ० १२ पं० २० । “बुद्धीन्द्रियाणि कर्ण त्वक्-चक्षू रसननासिकाख्यानि । ...... एतानि बुद्धीन्द्रियाणि प्रत्यवगन्तव्यानि । बुद्धेरिन्द्रियाणि बुद्धीन्द्रियाणि । किं पुनरेतानि बुद्धेरिति ? 25 उच्यते - शब्दादिविषयप्रतिपत्तौ द्वारम् । कस्मात् ? अबहिर्वृत्तित्वादन्तःकरणस्य नास्ति बहिर्वृत्तिरित्यतो नालमेतत् साक्षात् शब्दादीनर्थान् प्रतिपत्तुम् । तस्मात् श्रोत्रादिलक्षणं साक्षाद् बाह्यविषयप्रकाशनसमर्थं कारणान्तरमपेक्षते । तव्यणालिकया तस्य विषयग्रहणम् । तस्माद् युक्तमुक्तं बुद्धेर्बाह्यविषयद्वारभूतत्वाद् बुद्धीन्द्रियाणीति । आह कर्मेन्द्रियाणि पुनः कानीति ? वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः ॥ २६ ॥ वाक् च पाणी च पादौ च पायुश्चोपस्थश्च वाक्पाणिपादपायूपस्थाः । एतानि कर्मेन्द्रियाण्याहुराचक्षते । अधिष्ठानादिन्द्रियपृथक्त्वं शक्तिविशेषोपलम्भात् । आह - एकादशेन्द्रियाणि 30 अहंकारादुत्पद्यन्त इति प्रागपदिष्टम् । इदानीं बुद्धीन्द्रियकर्मेन्द्रियाणि दशापदिश्यन्ते तदिदं पदार्थन्यूनमिति । उच्यते— स्यादेतदेवं यद्येतावदिन्द्रियपर्व स्यात् । किं तर्हि ? संकल्पकमत्र मनः, अत्र इन्द्रियपर्वणि मनो भवद्भिः प्रत्यवगन्तव्यम्, तत्र संकल्पकमिति लक्षणमाचक्ष्महे । संकल्पोऽभिलाष इच्छा...इत्याद्यनर्थान्तरम् । संकल्पयतीति संकल्पकम् एतद् मनसो लक्षणम् ।.................. तच्चेन्द्रियमुभयथा समाख्यातम् । ...... तडि इन्द्रियमुभयथेत्यर्थः । मनो न केवलं बुद्धीन्द्रियम् अपि तु कर्मेन्द्रियमपि ।" - सांख्यका० युक्तिदीपिका का ० २६-२७ ।
......
Jain Education International
15
पृ० १४ पं० १६. शब्दाद्युपलब्धि" । " शब्दाद्युपलब्धिरादिः गुणपुरुषान्तरोपलब्धिरन्तः । यावदस्याविभक्तः प्रत्ययः श्रोत्रादीन्द्रियवृत्तिषु श्रवणादिषु 'अहं श्रोता' इत्येवमादिः पाञ्चभौतिके च शिरःपाण्यादिसमूहे शरीरे 'अहं पुरुषः' इति प्रत्ययो भवति तावदप्रतिबुद्धत्वात् संसारः । गुणपुरुषान्तरोपलब्धिरन्तः, यदा पुरुषवर्जे सर्व प्रकृतिकृतं त्रिगुणमचेतनं
For Private & Personal Use Only
35
www.jainelibrary.org