________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य
[१० १०५०२४
पृ० १० पं० २४. द्रव्यस्या । “नय इति किमुच्यते कतिभेदश्चायमित्याह -- एगेण वत्थुणोऽणेगधम्मुणो जमव धारणेणेव । नयणं धम्मेण तभो होइ नभो सत्तहा सो य ॥ २१८० ॥ अनेकधर्मणोऽनन्तधर्मात्मकस्य वस्तुनो यदेकेन धर्मेण नित्यत्वादिना अनित्यत्वादिना वा धर्मेणावधारणेनैव सावधारणं नयनं प्ररूपणं तकोऽसौ नयो भवति । ...... स च नयः सप्तविधः सप्तप्रकारः ।” – विशेषाव० भा० मलधारिवृ० । “स्वार्थैकदेश निर्णेतिलक्षणो हि नयः स्मृतः । [ पृ० ११८ ] ... 5 नीयते गम्यते येन श्रुतार्थांशो नयो हि सः । " - तत्त्वार्थ श्लोकवा० पृ० २६८ । दृश्यतां तत्त्वार्थसू० सिद्धसेनवृ० हारिभद्रीवृ० १|६| पृ० १० पं० २६. पूर्ववत् स्थिता । दृश्यतां पृ० ९ पं० ११।
पृ० ११ पं० ३. यथालोक । "व्यवहारस्त्वेवमाह —— यथालोक ग्राहमेव वस्तु अस्तु, किमनया अदृष्टाव्यवह्रियमाणधस्तुपरिकल्पनाकष्टपिष्टिकया ? यदेव च लोकव्यवहारपथमवतरति तस्यैवानुग्राहकं प्रमाणमुपलभ्यते, नेतरस्य । न हि सामान्यमनादिनिधनमेकं संग्रहाभिमतं प्रमाणभूमिः, तथानुभवाभावात् सर्वस्य सर्वदर्शित्वप्रसंगाच्च । नापि विशेषाः परमाणु10 लक्षणाः क्षणक्षयिणः प्रमाणगोचराः, तथाप्रवृत्तेरभावात् । तस्मादिदमेव निखिललोकाबाधितं प्रमाणप्रसिद्धं कियत्कालभावि स्थूलतामाबिभ्राणमुदकाद्याहरणाद्यर्थक्रियानिर्वर्तनक्षमं वस्तुरूपं पारमार्थिकम् । ” – स्याद्वादमं० का ० २८|
१४
पृ० ११ पं० ४, १७. विवेकयतः शास्त्रेषु । दृश्यतां पृ० ११७ पं० १३, पृ० ११८ पं० ७
पू० ११ पं०५, २१. सामान्यविशेषौ हि । दृश्यतां पृ० ११८ पं० १५
पृ० ११ पं० ६. यदि स्वविषयम् इत्यत आरभ्य एवं शेषावपि [पृ० १३ पं० २] इत्येतत्पर्यन्तस्य मूलस्य संवादः 'पृ० १९ पं० २३-२४, पृ० २३ पं ११, पृ० ३२ पं० ९' इत्यादिषु अवलोकनीयः ।
15
पृ० ११ पं०
९. तत्त्वान्वाख्यानवत् । ' अन्वाख्यान' शब्दप्रयोगः पातञ्जलमहाभाष्य [ १/२/३२, २1१1१, ४।१।१६ ] वाक्यपदीय[ २।२३३ ]प्रभृतिषु बहुषु ग्रन्थेषु दृश्यत इति ध्येयम् ।
पृ० ११ पं० २६–३०. सर्व सर्वात्मकम्। दृश्यतां पृ० ३२० टि० ३-४।
पृ० १२ पं० १५. व्यपदेशिवद्भावात् । " ननु चोक्तं ' सूत्रे व्याकरणे षष्ठ्यर्थोऽनुपपन्नः' इति । नैष दोषः, 20 व्यपदेशिवद्भ।वेन भविष्यति । [ पा० म० भा० १|१|१ पस्पशा ० ] । व्यपदेशिवद्भावेनेति, यथा राहोः शिर इत्येकस्मिन्नपि वस्तुति शब्दार्थभेदव्यवहार एवमिहापि भेदव्यवहार उपपद्यते ।" इति पातञ्जलमहाभाष्यप्रदीपे कैयटविरचिते । “तत्र व्यपदेशिवद्भावो वक्तव्यः । व्यपदेशिवदेकस्मिन् कार्यं भवतीति वक्तव्यम् [ पा० म० भा०] । निमित्तसद्भावादमुख्यो व्यपदेशो यस्यास्ति स व्यपदेशी । यस्तु व्यपदेश हेत्वभावादविद्यमानव्यपदेशः स तेन तुल्यं वर्तते कार्यं प्रतीति 'व्यपदेशिवद् भवति' इत्युच्यते ।” इति पातजलमहाभाष्यप्रदीपे १|१|२०| “व्यपदेशिवद्भावेनेति । विशिष्टोऽपदेशो व्यपदेशो 25 मुख्यव्यवहारः, सोऽस्यास्तीति व्यपदेशी, तेन तुल्यं व्यपदेशिवत्; धातावेव धात्ववयवत्वव्यवहारो गौणः 'राहोः शिरः' इत्यादिवदिति भावः । " - पा० बालमनोरमा ८|२|३३|
30
पृ० १२० १७. आध्यात्मिकाः कार्यात्मका । दृश्यतां पृ० २९८ टि०३, पृ० ३१४ पं० ७ पृ० १२ पं० १९. प्रसादलाघवाभिष्वङ्गो"। अत्र प्रसादलाघवप्रसवाभिष्वङ्गो इत्येवं पठनीयम् । प्रतिष्वपि तथैव पाठः ।
...
पृ० १२ पं० १९. 'भेदोपष्टम्भो। अत्र 'भेदापष्टम्भो' इति यथाश्रुतः पाठः समीचीन एव भाति । पृ० १२ पं० २२. कार्य समन्वयदर्शनात् । अत्र कार्य समन्वयदर्शनात् इति य० प्रतिपाठः शोभनो भाति । दृश्यतां पृ० ३१४ पं० ९ । पृ० १२ टि० ५ इत्यत्र च य० प्रतिपाठानुसारी अन्वयोऽवलोकनीयः ।
पृ० १३ पं० १४. प्रकृतेर्महद | "एवं कारणान्तरप्रतिषेधात् प्रकृतेः पुरुषार्थोऽयं व्यक्तभावेन विपरिणाम इति : स्थितम् । तत्रेदानीं विप्रतिपत्तिराचार्याणाम् । केचिदाहुः — प्रधानादनिर्देश्यस्वरूपं तत्त्वान्तरमुत्पद्यते ततो महानिति । पतञ्जलि-पञ्चाधिकरण-वार्षगणानां 'प्रधानात् महानुत्पद्यते ' इति । तदन्येषां पुराणेतिहासप्रणेतॄणां 'महतोऽहङ्कारो [न ? ] विद्यते' 35 इति पक्षः, महतोऽस्मिप्रत्यय कर्तृत्वाभ्युपगमात् । 'अहङ्कारात् पञ्च तन्मात्राणि' इति सर्वे । 'महतः षडविशेषाः सृज्यन्ते - पञ्च : तम्मात्राणि अहङ्कारश्च' इति विन्ध्यवासिमतम् । तथा 'अहङ्कारादिन्द्रियाणि' इति सर्वे । 'भौतिकानीन्द्रियाणि' इति पञ्चाधि करणमतम् | ‘एकरूपाणि तन्मात्राणि' इत्यन्ये । 'एकोत्तराणि' इति वार्षगण्यः । 'इन्द्रियाणि संस्कारविशेषयोगात् परिगृहीतरूपाणि' इति केचित, 'परिच्छिन्नपरिमाणानि ' इत्यपरे, 'विभूनि' इति विन्ध्यवासिमतम् । अधिकरणमपि केचित् त्रयोदश
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org