Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 520
________________ पृ० ४५ पं० ११.] टिप्पणानि । २७ भाति । प्रकृतिः कारणमभिमतमस्यास्तीति प्रकृतिकारणी प्रकृतिकारणवादीत्यर्थः, तद्भावः प्रकृतिकारणित्वम्, तथा च प्रकृतिकारणवादित्वत्यागेनेत्यर्थः । एतस्मिंश्व पाठेऽभिरुचौ मूले [ पृ० ४० पं० ४] "क्रियौदासीन्यवत् । कारणान्तरस्य वा..." इत्येवं रमणीयम् । पृ० ४१ पं० १, ६, १०. आत्मान्तर ज्ञानार्थस्य । दृश्यतां टिपृ० १५ पं० ३६ । पृ० ४१ पं० २. नित्यप्रवृत्तेनैव । दृश्यतां पृ० ४२ पं० २० । " पृ० ४१ पं० १०. धर्मज्ञान । “अध्यवसायो बुद्धिर्धमों ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद् रूपं तामसमस्माद् विपर्यस्तम् ॥ २३ ॥”–सांख्यका० । अस्याः सांख्यकारिका या युक्तिदीपिका- माठरवृत्ति - तत्त्ववैशारद्यादिव्याख्याभ्यो धर्मादीनामष्टानां बुद्धिधर्माणां स्वरूपं विस्तरेणावगन्तव्यम् । पृ० ४१ पं० १३–१४. स्वतन्त्रत्वात् सर्वगतत्वात् । " हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥१०॥ " - सांख्यका० । अस्या व्याख्यानं युक्तिदीपिकादिवृत्तिभ्योऽवसेयम् । 10 पृ० ४१ पं० १६. त्रिगुणस्वभाव | “त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥११॥" - सांख्यका० । अस्य अर्थो माठरवृत्त्यादेर्ज्ञातव्यः । पृ० ४१ पं० १८. चैतन्यस्वरूपमध्यस्थ । “चैतन्यं पुरुषस्य स्वरूपम् " - योगभा० १।९। “ तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥ १९ ॥ सांख्यका० । अस्याः कारिकाया व्याख्यानं युक्तिदीपिकादिवृत्तिभ्योऽवसेयम् । पृ० ४३ पं० ८-९. स्वरूपभेद । दृश्यतां टिपृ० १५ पं० ३६ । श्रोत्रा । दृश्यतां टिपृ० १४ पं० २४ । शब्दबुद्धयादि...'' शैब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥”— सांख्यका० । अस्याः कारिकाया विस्तरार्थो युक्तिदीपिका-तत्त्ववैशारद्यादिवृत्तिभ्योऽवसेयः । पृ० ४२ पं० ८. दहनतपनयो । “तप १८१९ दाहे । तापयति, तपति । " - पा० सिद्धान्तकौ ० । पृ० ४२ पं० ९. चैतन्य । "तेजोऽपि सात्मकम्, आहारोपादानेन वृद्धयादिविकारोपलम्भात्, पुरुषाङ्गवत् ” – स्याद्वादमं० का० २९ । पृ० ४२ पं० १४–१५. अन्नपुलिका । अत्र लिप्यनुसारेण अश्पुलिका इति [ अश्मुलिका इति वा ? ] पाठः शुद्धः सम्भाव्यते, अभ्याश्रयभूतं किमपि पात्रं स्थानं वा अत्राभिप्रेतं भाति, कोषेषु अश्मन्तकशब्दः 'चुल्ली' वाचक 20 उपलभ्यते । “अश्मन्तमुद्दानमधिश्रयणी चुल्लिरन्तिका । ” – अमरको ० २।९।२८ । “अथान्तिका चुल्ल्यश्मन्तकमुद्धानं स्यादधि - श्रयणी च सा । " अभिधानचि० ४१८४| पृ० ४४ पं० १२. पांशुमृत्पिण्ड । “मृत्पिण्ड- शिवक-स्थासक-कोश क-कुशूल-घट- कपाल-शकल-शर्करा- पांशु त्रुटिपरमाणवः क्रमभुवः ।” - तत्त्वार्थभाष्यसिद्धसेनवृ० ५ । ३१ । 5 पृ० ४५ पं० २. अर्थ्यो हि क्रियाया । "आम्नायस्य क्रियार्थत्वादानर्थक्य मतदर्थानाम् ।” -मीमांसाद० १।२।१। पृ० ४५ पं० ३, १६. नैवं वेति । अत्र नैवं चेति इति समीचीनः पाठः । दृश्यतां पृ० १४० पं० ११ । 15 Jain Education International पृ० ४५ पं० ७. पुत्रकामो यजेत । इदं सत्याषाढश्रौत्रसूत्रे [१३।३।४१, ४४ ] ताण्ड्यब्राह्मणे चोपलभ्यते | 30 पशुकामो यजेत । एतत् सत्याषाढश्रौतसूत्रे [ १७।३।१] ताण्ड्यब्राह्मणे च दृश्यते । अन्नाद्यकामो यजेत । “अनमसीत्यन्नादः प्रकृष्टान्न[स्त]स्य अन्नादस्य भावोऽन्नाद्यम्, तत्कामस्य यजमानस्य ।” इति सत्याषाढश्रौतसूत्रव्य | ख्यायाम् पृ० ११४ । For Private & Personal Use Only 25 पृ० ४५ पं० ११. चित्रपुस्तकाष्ठ। “कटुकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लेप्पकम्मे वा ।" - अनुयोगद्वारसू० १० । अस्य मलधारिहेमचन्द्रसूरिकृता व्याख्या - “क्रियते इति कर्म, काष्ठे कर्म काष्ठकर्म, काष्ठनिकुट्टितं रूपकमित्यर्थः । चित्रकर्म चित्रलिखितं रूपकम् । पोत्थकम्मे वत्ति, अत्र पोतं वस्त्रमित्यर्थः, तत्र कर्म, तत्पल्लवनिष्पन्नं घीउल्लिकारूपकमित्यर्थः । अथवा 35 पोत्थं पुस्तकम्, तच्चेह संपुटकरूपं गृह्यते, तत्र कर्म तन्मध्ये वर्तिकालिखितं रूपकमित्यर्थः । अथवा पोत्थं ताडपत्रादि, तत्र कर्म तच्छेदनिष्पन्नं रूपकम् । लेप्यकर्स लेप्यरूपकम्" । - अनुयोगद्वारसू० ० । “यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव १ 'रूपादिषु' इति पाठान्तरम् । www.jainelibrary.org

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662