________________
पृ० ४५ पं० ११.]
टिप्पणानि ।
२७
भाति । प्रकृतिः कारणमभिमतमस्यास्तीति प्रकृतिकारणी प्रकृतिकारणवादीत्यर्थः, तद्भावः प्रकृतिकारणित्वम्, तथा च प्रकृतिकारणवादित्वत्यागेनेत्यर्थः । एतस्मिंश्व पाठेऽभिरुचौ मूले [ पृ० ४० पं० ४] "क्रियौदासीन्यवत् । कारणान्तरस्य वा..." इत्येवं रमणीयम् ।
पृ० ४१ पं० १, ६, १०. आत्मान्तर ज्ञानार्थस्य । दृश्यतां टिपृ० १५ पं० ३६ ।
पृ० ४१ पं० २. नित्यप्रवृत्तेनैव । दृश्यतां पृ० ४२ पं० २० ।
"
पृ० ४१ पं० १०. धर्मज्ञान । “अध्यवसायो बुद्धिर्धमों ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद् रूपं तामसमस्माद् विपर्यस्तम् ॥ २३ ॥”–सांख्यका० । अस्याः सांख्यकारिका या युक्तिदीपिका- माठरवृत्ति - तत्त्ववैशारद्यादिव्याख्याभ्यो धर्मादीनामष्टानां बुद्धिधर्माणां स्वरूपं विस्तरेणावगन्तव्यम् ।
पृ० ४१ पं० १३–१४. स्वतन्त्रत्वात् सर्वगतत्वात् । " हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥१०॥ " - सांख्यका० । अस्या व्याख्यानं युक्तिदीपिकादिवृत्तिभ्योऽवसेयम् ।
10
पृ० ४१ पं० १६. त्रिगुणस्वभाव | “त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥११॥" - सांख्यका० । अस्य अर्थो माठरवृत्त्यादेर्ज्ञातव्यः ।
पृ० ४१ पं० १८. चैतन्यस्वरूपमध्यस्थ । “चैतन्यं पुरुषस्य स्वरूपम् " - योगभा० १।९। “ तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥ १९ ॥ सांख्यका० । अस्याः कारिकाया व्याख्यानं युक्तिदीपिकादिवृत्तिभ्योऽवसेयम् ।
पृ० ४३ पं० ८-९. स्वरूपभेद । दृश्यतां टिपृ० १५ पं० ३६ । श्रोत्रा । दृश्यतां टिपृ० १४ पं० २४ । शब्दबुद्धयादि...'' शैब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥”— सांख्यका० । अस्याः कारिकाया विस्तरार्थो युक्तिदीपिका-तत्त्ववैशारद्यादिवृत्तिभ्योऽवसेयः ।
पृ० ४२ पं० ८. दहनतपनयो । “तप १८१९ दाहे । तापयति, तपति । " - पा० सिद्धान्तकौ ० ।
पृ० ४२ पं० ९. चैतन्य । "तेजोऽपि सात्मकम्, आहारोपादानेन वृद्धयादिविकारोपलम्भात्, पुरुषाङ्गवत् ” – स्याद्वादमं० का० २९ ।
पृ० ४२ पं० १४–१५. अन्नपुलिका । अत्र लिप्यनुसारेण अश्पुलिका इति [ अश्मुलिका इति वा ? ] पाठः शुद्धः सम्भाव्यते, अभ्याश्रयभूतं किमपि पात्रं स्थानं वा अत्राभिप्रेतं भाति, कोषेषु अश्मन्तकशब्दः 'चुल्ली' वाचक 20 उपलभ्यते । “अश्मन्तमुद्दानमधिश्रयणी चुल्लिरन्तिका । ” – अमरको ० २।९।२८ । “अथान्तिका चुल्ल्यश्मन्तकमुद्धानं स्यादधि - श्रयणी च सा । " अभिधानचि० ४१८४|
पृ० ४४ पं० १२. पांशुमृत्पिण्ड । “मृत्पिण्ड- शिवक-स्थासक-कोश क-कुशूल-घट- कपाल-शकल-शर्करा- पांशु त्रुटिपरमाणवः क्रमभुवः ।” - तत्त्वार्थभाष्यसिद्धसेनवृ० ५ । ३१ ।
5
पृ० ४५ पं० २. अर्थ्यो हि क्रियाया । "आम्नायस्य क्रियार्थत्वादानर्थक्य मतदर्थानाम् ।” -मीमांसाद० १।२।१। पृ० ४५ पं० ३, १६. नैवं वेति । अत्र नैवं चेति इति समीचीनः पाठः । दृश्यतां पृ० १४० पं० ११ ।
15
Jain Education International
पृ० ४५ पं० ७. पुत्रकामो यजेत । इदं सत्याषाढश्रौत्रसूत्रे [१३।३।४१, ४४ ] ताण्ड्यब्राह्मणे चोपलभ्यते | 30 पशुकामो यजेत । एतत् सत्याषाढश्रौतसूत्रे [ १७।३।१] ताण्ड्यब्राह्मणे च दृश्यते । अन्नाद्यकामो यजेत । “अनमसीत्यन्नादः प्रकृष्टान्न[स्त]स्य अन्नादस्य भावोऽन्नाद्यम्, तत्कामस्य यजमानस्य ।” इति सत्याषाढश्रौतसूत्रव्य | ख्यायाम् पृ० ११४ ।
For Private & Personal Use Only
25
पृ० ४५ पं० ११. चित्रपुस्तकाष्ठ। “कटुकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लेप्पकम्मे वा ।" - अनुयोगद्वारसू० १० । अस्य मलधारिहेमचन्द्रसूरिकृता व्याख्या - “क्रियते इति कर्म, काष्ठे कर्म काष्ठकर्म, काष्ठनिकुट्टितं रूपकमित्यर्थः । चित्रकर्म चित्रलिखितं रूपकम् । पोत्थकम्मे वत्ति, अत्र पोतं वस्त्रमित्यर्थः, तत्र कर्म, तत्पल्लवनिष्पन्नं घीउल्लिकारूपकमित्यर्थः । अथवा 35 पोत्थं पुस्तकम्, तच्चेह संपुटकरूपं गृह्यते, तत्र कर्म तन्मध्ये वर्तिकालिखितं रूपकमित्यर्थः । अथवा पोत्थं ताडपत्रादि, तत्र कर्म तच्छेदनिष्पन्नं रूपकम् । लेप्यकर्स लेप्यरूपकम्" । - अनुयोगद्वारसू० ० । “यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव
१ 'रूपादिषु' इति पाठान्तरम् ।
www.jainelibrary.org