Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
________________
न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ० ५६ पं० १९पृ०५६ पं० १९. जातिराकारो। दृश्यतां टिपृ० २९ पं० २९, पृ० ४४६ टि० ११। “आकृत्यभिधानाद्वैकं विभक्तौ वाजप्यायनः [पा० वा.] । यत् तर्हि भिन्नेष्वभिन्नं छिन्नेम्वच्छिन्नं सामान्यभूतं स शब्दः । नेत्याह । आकृति म सा।"पा०म० भा० १।२।६४ । “व्यक्त्याकृतिजातयस्तु पदार्थः।"-न्यायसू०२।२।६७। अर्थस्त्वेषां व्याख्याभ्योऽवगन्तव्यः।
पृ० ५७ पं० १, ९. 'तस्याः ' इति पञ्चम्यन्तं पदम् । पञ्चमी हेतौ । 5 पृ० ५७ पं० ६-८. न हि पद"शब्दार्थः । “द्विधा कैश्चित् पदं भिन्नं चतुर्धा पञ्चधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥३।१।१॥ वाक्यस्यैव निरंशस्य वाचकत्वादन्तरा पदप्रतिपत्तिविभ्रम इति किमसत्यपदव्युत्पादनेन? इत्याशङ्कय 'अपोद्धृत्यैव वाक्येभ्यः' इत्याह । अपोद्धृत्य कल्पनाबुद्वया पृथक् पदं निष्कृष्य अखण्डवाक्यव्युत्पत्तावुपायः पदन्युत्पत्तिवाक्यवादिनाम्, अखण्डपदव्युत्पत्ताविव परिकल्पितरूपप्रकृतिप्रत्ययागमादेशादिव्युत्पत्तिः पदवादिनाम् । आनन्त्याद्धि
वाक्यानां स्वालक्ष्ये(क्षण्ये?)न अशक्या व्युत्पत्तिः कर्तुमिति सदृशपदद्वारा तदुपपत्तिरित्यर्थः । उभयोरपि चापोद्भुत त ?] 10 त्वस्यासत्यत्वं समानम् ।.....'तत्र चांशांशिकल्पनया अपोद्धारे कारकात्मा क्रियात्मा च प्रविभागाह इति सिद्धसाध्यलक्षणांश
द्वयविषयः पदापोद्धारो द्विविधो नामाख्यातरूपः ।......तद्गतभेदान्तरविवक्षायां तु निपातोपसर्गयोरपि कैश्चित् पृथक्करणम् । .."कर्मप्रवचनीयास्तु..... क्रियाविशेषप्रकाशना उपसर्गेष्वेव अन्तर्भवन्तीति चतुधैव कैश्चित् पदं भिन्नम् । साक्षात् क्रियाविशेषप्रकाशनाभावात् तदपि पञ्चमं पदमिति कैश्चित् ।"-वाक्यपदीयहेलाराजवृ०३।१।१।
पृ० ५७ पं. २२. लोकेन तुल्यं । "तेन तुल्यं क्रिया चेद् वतिः तत्र तस्येव ।”—पा० ५। १ । ११५-११६ । पृ०५८ पं० २२ त्वा.."अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतो दृष्टं च।"-न्यायसू०१।१॥५॥ पृ० ५८ पं० २३. लोकनाद्धि"। "लोक दर्शने"-पा० धा० ७६ ।
पृ० ५९ पं० २, १५, २६. घटादिकल्पनापोडं...। "प्रत्यक्षं कल्पनापोढम्" इति बौद्धाचार्यदिङ्गागमतं महता विस्तरेण अत्र परीक्षितं मल्लवादिना। दिडागविरचिताश्च प्रमाणसमुच्चयादयो ग्रन्थाः सम्प्रति यद्यपि संस्कृतभाषायां नोपल
भ्यन्ते तथापि भोट Tibetदेशवासिभिः भोटभाषायां विरचिताः तेषां प्राचीना अनुवादा उपलभ्यन्ते । अत एत20 सम्बन्धिनो विचारा अस्माभिर्भोटपरिशिष्टे संगृहीता इति तत्रैव द्रष्टव्यम् । __."अपरे तु मन्यन्ते 'प्रत्यक्षं कल्पनापोढम्[प्र. समु. ११३] इति । अथ केयं कल्पना? नामजातियोजना इति । यत् किल न नाम्ना अभिधीयते न जात्यादिभिर्यपदिश्यते विषयस्वरूपानुविधायि परिच्छेदकमात्मसंवेद्यं तत् प्रत्यक्षमिति ।"न्यायवा० ११।४। अस्य व्याख्या-"सम्प्रति दिङ्गागस्य लक्षणमुपन्यस्यति अपर इति । दूषयितुं कल्पनास्वरूपं पृच्छति
अथ केयमिति । लक्षणवादिन उत्तरं नामेति । यदृच्छाशब्देषु हि नाना विशिष्टोऽर्थ उच्यते 'डित्थः' इति । जातिशब्देषु जात्या 25 'गौः' इति । गुणशब्देषु गुणेन 'शुक्लः' इति । क्रियाशब्देषु क्रियया 'पाचकः' इति । द्रव्यशब्देषु द्रव्येण 'दण्डी, विषाणी' इति ।
सेयं कल्पना येत्र ज्ञाने नास्ति अर्थतः स्वरूपतो वा तत् कल्पनाया अपोढं प्रत्यक्षम् । तदिदमाह-यत् किल न नाम्ना अभिधीयतेऽर्थतः स्वरूपतश्च न च जात्यादिभिर्व्यपदिश्यते । अन्यभिचाराय विषयकारणत्वमाह-विषयस्वरूपानुविधायीति । प्रमाणत्वमाह-परिच्छेदकम् , व्यवस्थापकम्, । ज्ञानतामस्य दर्शयति-आत्मसंवेद्यम्', स्वसंवेदनादेव तस्य कल्पनारहि 'प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति' [प्रमाणवा० ३.१] इति । तत् प्रत्यक्षमिति ।"-न्यायवा० तात्प. J. १११।४। 30 "तत्रायं न्यायमुखग्रन्थ:-'यद् ज्ञानमर्थ रूपादौ विशेषणाभिधायकाभेदोपचारेण अविकल्पकं तदक्षमक्षं प्रति वर्तत
इति प्रत्यक्षम्' [न्यायमु.] । विशेषणं जात्यादि, अभिधायकं नाम, तयोरभेदोपचारो जात्यादिमद्भिः संज्ञिना च ।... तथा चायमर्थो भवति-यद् ज्ञानं नामाद्यभेदोपचारेण अविकल्पकं तत् प्रत्यक्षम् । यत्तु ज्ञान तथा विकल्पकं तत् कल्पनात्मकत्स्वान प्रत्यक्षमिति ।"-तत्त्वसं० पं० पृ० ३७२-३ ।
"As regards one's understanding there are two pramāṇas, I mean: in35 ference and direct preception [प्रत्यक्ष and अनुमान ], since the other pramānas [admitted
by different schools such as tradition [ शब्द ] analogy [ उपमान] etc. are included in these two. Thus there are only two pramāņas, by which we can apprehend the
१°रूपभेदानुविधायि-न्यायवा० । २ दृश्यतां तत्त्वसं० पं० पृ० ३६९ । ३ न यत्र ज्ञानेऽस्ति -न्यायवा० ता०J.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662