Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 509
________________ न्यायागमानुसारिणीवृत्यलङ्कृतस्य नयचक्रस्य [पृ० १४ पं० १८भोग्यमिति जानाति भोक्तारमकर्तारं चेतनं च पुरुषमन्यं प्रधानादवैति अचेतनाश्च गुणान् तदा तस्य गुणपुरुषान्तरोपलब्धिरन्ता संसारस्य इति ज्ञानाद् मोक्षः, विपर्ययाद्बन्धः।"-तत्त्वार्थराजवा० १।१।। पृ० १४ पं० १८. प्रधान-पुरुष-संयोगत्रित्व"। "तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ॥ २०॥ पुरुषस्य दर्शनार्थः कैवल्यार्थस्तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः 5॥२१॥-सांख्यका० । अनयोः कारिकयोर्विस्तरेण त्वों युक्तिदीपिका-माठरवृत्तिप्रभृतिव्याख्याभ्योऽवसेयः।। पृ० १५ पं० ८. अन्यर्कियत्तदो निर्धारणे...... । इदमत्रावधेयम्-अस्मिन् ग्रन्थे नयचक्रवृत्तिकृता सर्वत्र पाणिनीयव्याकरणसूत्राण्येवोल्लिखितानि, सम्प्रति तु 'किंयत्तदो निर्धारणे' इति 'अन्य'शब्दरहितमेव पाणिनीयसूत्रमुपलभ्यते। अतो नयचक्रवृत्तिकृतां सिंहसूरिगणिवादिक्षमाश्रमणानां समये 'अन्यकियत्तदो निर्धारणे' इत्यपि अस्य सूत्रस्य पाठान्तरमासीदित्यनुमीयते । चान्द्रव्याकरणे “यत्तदेकाद् द्वाभ्यां निर्धारणे डतरच् ।४।३।७५। जातौ डतमज्बहुभ्यः ।४।३।७६। तौ किमः । 10४।३।७७॥” इति सूत्राणि शाकटायने “यत्तत्किमन्याद् द्वयोर्निर्धार्ये डतरः ।३।४।१०५॥ वैकात् ।३।४।१०६।बहूनां प्रश्ने डतमश्च । ३।४।१०७॥” इति सूत्राणि । सिद्धहेमशब्दानुशासने "वैकाद् द्वयोर्निर्धार्ये डतरः। ७॥३॥५२॥ यत्तत्किमन्यात् ।।३।५३। बहूनां प्रश्न डतमश्च वा ॥३॥५४॥” इति सूत्राणि । भोजविरचिते सरस्वतीकण्ठाभरणे "किंयत्तदेकान्येभ्यो द्वयोरेकस्य निर्धारणे डतरच् । वा बहूनां जातौ डतमच् । किमो डतरच् । ५।३।१२५-१२॥” इति सूत्राणि । कातन्त्रे “आख्याताच तमादयः । २।६।४०1" इति सूत्रम् । “द्वयोर्बहूनां चैकस्य निर्धारणे किमादिभ्योडतरडतमौ वक्तव्यौ। किमादिभ्य इति किम् ? यत्तद्भयो 15 डितौ अतर-अतमौ प्रत्ययौ भवतः । 'च'कारात् 'एक शब्दात् 'अन्य'शब्दादपि डतरडतमौ वक्तव्यौ । एकतरः । एकतमः । अन्यतरः । अन्यतमः । इति सारस्वतच्याकरणे । अत्र 'सर्वादीनि सर्वनामानि' [पा. ७।१५२ ] इति सूत्रस्य सिद्धान्तकौमुदी व्याख्या विलोकनीया। 'सर्वादेः स्मै स्मातौ' [सिद्धहेम० १४७] इति सूत्रस्य बृहद्वत्तिरपि अवलोकनीया। . पृ० १५५०१०-११. आतिशयिका...... । अत्र आतिशायिका इति भा० प्रतिपाठ एव शुद्धः। अत्र च 'अतिशायने तमबिष्टनौ ।५।३॥५५॥ द्विवचनविभज्योपपदे तरबीयसुनौ ।५।३।५७' इति पाणिनीयसूत्रद्वयस्य पातञ्जलमहाभाष्यमपि विलोकनीयम् । पृ० १४ पं० १६. द्रव्यमपि। "तञ्च द्रव्यं भवनलक्षणम् ' भवनमात्रमेवेदं कृत्स्नम्।" -तत्त्वार्थ सिद्धसेनवृ० ५।२९॥ पृ० १५ पं० १७. सर्वतन्त्रसिद्धान्ते । “सर्वतत्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ।।१।२८॥ यथा घ्राणादीनीन्द्रियाणि, गन्धादय इन्द्रियार्थाः, पृथिव्यादीनि भूतानि, प्रमाणैरर्थस्य ग्रहणमिति ।"-न्यायभा०।। पृ० १५ पं० १७. द्रव्यं च भव्ये । “द्रोर्भव्ये ।।१।११५। द्रुशब्दात् तस्य तुल्ये भव्येऽभिधेये यः प्रत्ययो भवति । विशिष्टेष्टपरिणामेन भवति इति भव्यम्, अभिप्रेतानामर्थानां पात्रम् । द्रुतुल्यः द्रव्यमयं माणवकः । द्रव्य कार्षापणम् । यथा द्र अग्रन्थि अजिब दारु उपकल्प्यमानं विशिष्टेष्टरूपं भवति तथा माणवकोऽपि विनीयमानो विद्या-लक्ष्म्यादिभाजनं भवतीति द्रव्यमुच्यते । कार्षापणमपि विनियुज्यमानं विशिष्टेष्टमाल्याधुपभोगफलं भवतीति द्रव्यमुच्यते । द्रुरिव द्रव्यं राजपुत्रः । यथा द्रुमः पुष्पफलादिभिरर्थिनः कृतार्थयति एवमन्योऽपि यः सोऽपि द्रव्यमुच्यते । भव्य इति किम् ? तुल्योऽयं न चेतयते ।"-सिद्धहेम० बृहद् ।। पृ० १५ पं० १८-२०. द्रवति......। “दवए दुयए दोरवयवो विगारो गुणसंदावो । दव्वं भव्वं भावस्स भूअभावं च जं जोगं ॥ २८ ॥ 'दु द्रु गतौ' [पा० धा० ९४४-९४५ ], द्रवतीति द्रव्यम्, स्वपर्यायान् प्रामोति क्षरति चेत्यर्थः । तथा दूयते गम्यते तैरिति द्रव्यम् । तथा दुः सत्ता, तस्या विकारोऽवयवो वेति द्रव्यम् । तथा गुणानां सन्द्रावो द्रव्यम् । गुणा रूपादयः, सन्द्रवर्ण सन्द्रावः, समुदाय इत्यर्थः । तथा 'द्रव्यं च भव्ये[पा०५।३।१०४] इति द्रव्यं भव्य भावस्य योग्यमित्यर्थः । यद् भाविभूतभावं चेति ।"-विशेषाव. भा० खोपज्ञवृ०। 38 पृ० १५५० २०. गुणसन्द्रावो द्रव्यम्। एतच्च सांख्यादीनां मतमिति ज्ञेयम् , दृश्यतां पृ० ३०३ पं० २ । “सिद्धं तु यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ। सिद्धमेतत् । कथम् ? यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेण भवितव्यम्, न चाभिप्रायादीनां भावाद् द्रव्ये देवदत्तशब्दो वर्तते । किं पुनद्रव्यं के पुनर्गुणाः? शब्दस्पर्शरूपरसगन्धा गुणाः, ततोऽन्यद् द्रव्यम् । किं पुनरन्यच्छब्दादिभ्यो द्रव्यमाहोस्विदनन्यत् ? गुणस्यायं भावाद् द्रव्ये शब्दनिवेशं कुर्वन् ख्यापयति अन्यच्छब्दादिभ्यो द्रव्यमिति । अनन्यच्छब्दादिभ्यो द्रव्यम्, न ह्यन्यदुपलभ्यते। 10पशोः खच्चपि विशसितस्य पर्गशते न्यत्तस्य नान्यच्छदादिभ्य उपलभ्यते । अन्यच्छन्दादिभ्यो द्रव्यम्, तत्त्वमनुमानगम्यम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662