________________
पृ० ४ ०९, १५.]
टिप्पणानि ।
समानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः । श्रुतं च तद् ज्ञानं च श्रुतज्ञानम् २ । तथा अवशब्दोऽधः शब्दार्थः, अव अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा, तदुपलक्षितं ज्ञानमप्यवधिः । अवधिश्चासौ ज्ञानं चावधिज्ञानम् ३ । तथा परिः सर्वतोभावे, अवनम् अवः,···अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवः मनः पर्यवः, सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः । अथवा मनःपर्यय इति पाठः, सर्वतः तत्परिच्छेद इत्यर्थः, स चासौ ज्ञानं च मन:पर्ययज्ञानम् । अथवा 5 मनःपर्यायज्ञानमिति पाठः, ततः मनांसि मनोद्रव्याणि पर्येति सर्वात्मना परिच्छिनत्ति मनःपर्यायम्, ......मनःपर्यायं च तद् ज्ञानं च मनःपर्यायज्ञानम् । यद्वा मनसः पर्याया मनः पर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः तेषु तेषां सम्बन्धि ज्ञानं मनःपर्यायज्ञानम् ४ । तथा केवलमेकमसहायं मत्यादिज्ञाननिरपेक्षत्वात् । अथवा शुद्धं केवलम् तदावरणमलकलङ्कस्य निःशेषतोऽपगमात् । सकलं वा केवलम् प्रथमत एवाशेषतदावरणापगमतः सम्पूर्णोत्पत्तेः । असाधारण वा केवलम् अनन्यसदृशत्वात् । अनन्तं वा केवलम् ज्ञेयानन्तत्वात् । केवलं च तद् ज्ञानं च केवलज्ञानम् ५ ।” इति 10 मलयगिरिविरचितायां नन्दिसूत्रवृत्तौ पृ० ६५-६६ । दृश्यताम् अनुयोगद्वारसू० १ ।
"ज्ञानं वक्ष्यामः - मतिश्रुतावधिमनः पर्याय केवलानि ज्ञानम् ।११९ मतिज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानमित्येतद् मूलविधानतः पञ्चविधं ज्ञानम् । प्रभेदास्त्वस्य पुरस्ताद् वक्ष्यन्ते । मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् | १|१३| मतिज्ञानं स्मृतिज्ञानं संज्ञाज्ञानं चिन्ताज्ञानं तथा आभिनिबोधिकज्ञानमित्यनर्थान्तरम् । तदिन्द्रियानिन्द्रियनिमित्तम् | १|१४| तदेतद् मतिज्ञानं द्विविधं भवति - इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च । 15 तत्रेन्द्रियनिमित्तं स्पर्शनादीनां पञ्चानां स्पर्शादिषु पञ्चस्वेव स्वविषयेषु । अनिन्द्रियनिमित्तं मनोवृत्तिरोधज्ञानं च । " - तत्त्वार्थभा० ।
पृ० ४ पं० १. तत्थाभिनिबोहिअनाणंति । “इतेः स्वरात् तश्च द्विः |८|१|४२ | पदात् परस्य इतेरादेर्लुग् भवति स्वरात् परश्च तारो द्विर्भवति । किं ति । जंति । दिट्ठे ति । न जुत्तं ति । स्वरात् तह त्ति । झति । पिओ त्ति । पुरिसोत्ति ।" इति आचार्य हेमचन्द्रकृतप्राकृतव्याकरणानुसारेण अत्र इतेरिकारस्य लुग् ज्ञातव्यः ।
पृ० ४. पं० १. श्रुतज्ञान | श्रुतज्ञानस्य विस्तरेण स्वरूपं 'पृ० ९ पं० ३ पूर्वमहोदधिसमुत्पतितनयप्राभृत' इत्यस्य 20 टिप्पणादवगन्तव्यम् । तथा दृश्यतां टिपृ० ६ पं० ३१ ।
७
पृ० ४ पं० २. घटादेः । यदि हि एकान्तेन नित्यो घटस्तदा तस्य सर्वदावस्थितत्वात् कुम्भकारप्रयत्रजन्यत्वाभावात् कुम्भकाराय घटादेर्वेतनप्रदानं निरर्थकमिति भावः । “एवंविधवस्तूपनिबन्धनैव च वर्णाश्रमप्रतिनियतरूपा यमनियमगम्यागम्यभक्ष्याभक्ष्यादिव्यवस्था कुम्भकार देश्व मृदानयनावमर्दनशिवकस्थासकादिकरणप्रवृत्तौ वेतनकादिदानस्य साफल्यम् ।" - तत्त्वार्थ ० सिद्धसेनवृ० १|३४|
25
पृ० ४ पं० ३. चिकीर्षा । “एकान्तनाशिनि च कृतनाशाकृताभ्यागमौ स्याताम्, स्मृति - प्रत्यभिज्ञान-निहितप्रत्युन्मार्गण - प्रभृतयश्च प्रतिप्राणिप्रतीता व्यवहारा विशीर्येरन् ।” - प्रमाणमी० १|१|४२ | “ पदार्थास्थैर्यपक्षेपूर्वदृष्टस्य स्मरणम्, स्मृत कस्यचित् प्रत्यभिज्ञानम्, प्रत्यभिज्ञातस्य गृहादेरर्धकृतस्य समापनम्' इत्यादयश्च व्यवहारा विलुप्येरन् ।” इति न्यायमञ्जय क्षणभङ्गनिराकरणे । “सर्वथा भेदे हि बद्ध-मुक्तपर्याययोः अन्यो बद्धः अन्यश्च मुच्यते इति बद्धस्यैव मोक्षार्था प्रवृत्तिर्न स्यात् । सन्तानापेक्षया बद्धस्यैव मोक्ष इत्यपि अनल्पतमोविलसितम्, सन्तानस्यैवोक्तप्रकारेणासम्भवात् । तथा निहितमन्त्रिताधीतस्मृतिः 30 दत्तग्रहादिश्व एकात्मापह्नवे दुर्घट इति । " - न्यायकुमु० पृ० २० ।
नावक्तव्यः । “अवक्तव्यैकान्तोऽपि असद्वादः, स्ववचनविरोधात्,
पृ० ४ पं० ३–४. स्वरूपानवधारणे
सदामौनव्रतिकवत् । " - तत्त्वार्थराजवा० १|६|
पृ० ४ पं० ९,१५. काल “ॐ ब्रह्मवादिनो वदन्ति - किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन कच सम्प्रतिष्ठाः । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ १ ॥ कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः 35 पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ॥ २ ॥” इति श्वेताश्वतरोपनिषदि । "कालो सहाव णियई पुव्वकयं पुरिस कारणेगंता । मिच्छत्तं ते चेव समासभ होंति सम्मत्तं ॥ " - सन्मति ० ३।५३ । अस्य व्याख्या - "काल-स्वभाव-नियति-पूर्वकृत-पुरुषकारणरूपा एकान्ताः सर्वेऽपि एकका मिथ्यात्वम् । त एव समुदिताः परस्पराजहद्वृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते इति तात्पर्यार्थः ।” इत्यादिविस्तरेण अभयदेवसूरिरचितायां सन्मतिवृत्तौ अवलो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org