________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [पृ० ४ पं० १०कनीया । कालादीनां स्वरूपं तृतीयचतुर्थारयोविस्तरेण वक्ष्यतेऽत्रैव । सांख्यकारिकामाठरवृत्ति का० ६१]-शास्त्रवार्तासमुच्चय[का० २०५२-८१]प्रभृतिग्रन्थेष्वपि कालादिस्वरूपं तदेकान्तनिराकरणं च प्रकारान्तरेण वर्णितमस्ति ।
पृ० ४ पं० १०. एकपुरुषपितृपुत्रत्वादिवत् । “एकोऽपि सन् देवदत्तो लोके स्वरूपं सम्बन्धिरूपं चापेक्ष्य अनेकशब्दप्रत्ययभाग् भवति 'मनुष्यो ब्राह्मणः श्रोत्रियो वदान्यो बालो युवा स्थविरः पिता पुत्रः पौत्रो भ्राता जामाता' इति । 5 एकापि सती रेखा स्थानान्यत्वेन निविशमाना एक-दश-शत-सहस्रादिशब्दप्रत्ययभेदमनुभवति ।"-ब्रह्मसूत्रशांकरभा० २।२।१७। "अर्पणाभेदादविरोधः पितापुत्रादिसम्बन्धवत् ।११। उक्तादर्पणाभेदाद एकत्र अविरोधेन अवरोधो धर्माणां पितापुत्रादिसम्बन्धवत् । तद्यथा एकस्य देवदत्तस्य जातिकुलरूपसंज्ञाव्यपदेशविशिष्टस्य 'पिता पुत्रो भ्राता भागिनेयः' इत्येवंप्रकाराः सम्बन्धाः जन्यजनकत्वादिशक्त्यर्पणाभेदान्न विरुध्यन्ते । न ह्येकापेक्षया पितेति शेषापेक्षयापि पिता भवति, शेषापेक्षया वा पुत्रादिव्यप
देशार्ह इति उक्तापेक्षयापि पुत्रादिव्यपदेशभाक् । न च पितापुत्रादिकृतं संबन्धबहुत्वं देवदत्तस्यैकत्वेन विरुध्यते । तद्वदस्तित्वा10 दयोऽपि न यान्ति विरोधमेकत्र ।"-तत्त्वार्थराजवा० १।६।
पृ० ५ पं० १. अननुविषयप्रज्ञत्वात् । अत्र 'अनन्तविषयप्रज्ञत्वात्' इति शुद्धः पाठः । ... पृ० ५५० ६. स्थूलमतये । तुलना-"सविसयमसदहंता नयाण तम्मत्तयं च गिण्हता । मण्णता य विरोहं अपरिणामातिपरिणामा ॥ २२९२ ॥ गच्छेज हुमा मिच्छं परिणामा य सुहुमाइबहुभेए । होजाऽसत्ते घेत्तुं न कालिए तो नयविभागो ॥ २२९३ ॥"-विशेषाव० भा० । 15 पृ० ५ पं० ८. बौद्धे । बुद्धदर्शने इत्यर्थः । एवमग्रेऽपि ।
पृ० ५ पं० ९. स्मृत्य... 'सन्तानकल्पना । “यत्र सन्ताने पटीयसा अनुभवेन उत्तरोत्तरविशिष्टतरतमक्षणोत्पादात स्मृत्यादिबीजमाहितं तत्रैव स्मरणादयः समुत्पद्यन्ते, नान्यत्र, प्रतिनियतत्वात् कार्यकारणभावस्य।..... स्मरणादिपूर्वकाश्च प्रत्यभिज्ञानादयः प्रसूयन्ते इत्यविरुद्धम् [पृ० १८४]........ सन्ततिशब्देन क्षणा एव वस्तुभूताः सन्तानिनो व्यवहारलाघवाय सामस्त्येन युगपत् प्रकाश्यन्ते 'वन'शब्देनेव धवादयः।"-तत्त्वसं०पं० पृ० ५२३-४ । “सन्तानो नाम न कश्चिदेकः परमार्थसन् 20 सम्भवति । किं तर्हि ? कार्यकारणभावप्रवृत्तक्षणपरम्पराप्रबाहरूप एवायम्, ततो व्यतिरिक्तस्य अनुपलम्भात् । तस्मादेतेषामेव क्षणानामेकपदेन प्रतिपादनाय संकेतः कृतों बुद्वैः व्यवहारार्थ 'सन्तानः' इति ।"-बोधिचर्याव० पृ० ३३४ । टिपृ०७ पं०२६ । __ पृ० ५ पं० १०. क्रियावत् । पुण्यनामधेयमुनिराजश्रीपुण्यविजयमहोदयसत्के बहु पुरातने हस्तलिखिते सवृत्तिके वैशेषिकसूत्रग्रन्थे इदं सूत्रम् अनवदेव वर्तते, दृश्यतां पृ० ४४० टि. ५ । अस्य ग्रन्थस्य श्रीपुण्यविजयमुनिराजसत्कत्वाद् व्यवहारलाघवार्थमस्माभिः P इति संज्ञा कृतास्ति । इदं पुनरत्रावधेयम् -वाराणसी-कलिकातादिनगरमुद्रितेषु शंकरमिश्रादि25 व्याख्यातेषु सम्प्रति प्रसिद्धेषु सर्वेष्वपि वैशेषिकसूत्रपाटेषु अस्मात् Pपुस्तकाद् भूयान् पाठभेदो वर्तते । प्राचीनग्रन्थेषु उद्धृतानि
बहूनि वैशेषिकसूत्राणि वाराणस्यादिमुद्रिते सूत्रपाठे न सन्ति अतीव अन्यथारूपेण वा उपलभ्यन्ते, अस्मिंस्तु Pपुस्तके प्रायः सर्वाण्यपि सूत्राणि यथावत् सन्ति स्वल्पिष्ठेन वा पाठभेदेन उपलभ्यन्ते । इदं तु Pपुस्तकं पञ्चमारपर्यन्तमस्य ग्रन्थस्य मुद्रणानन्तरं मम दृष्टिपथमायातम् , अतो बहूनि बहानि सूत्राणि सवृत्तिकानि Pपुस्तकादुद्धृत्य तत्र तत्र टिप्पणेषु मया
उपन्यस्तानि । तद्दर्शनाद् वाराणस्यादिमुद्रितसूत्रपाठस्य तद्व्याख्यानां च बहुषु स्थानेषु भ्रष्टत्वमसम्बद्धत्वं च Pपुस्तकसूत्रपाठस्य २०तु अतीवोपयोगित्वं समीचीनतमत्वं च सम्यगेव विज्ञास्यते विद्वद्भिः।
पुस्तकस्वरूपं वित्थम् अत्र ३४ पत्राणि सन्ति, प्रतिपत्रं पृष्ठद्वयम्, प्रेतिपृष्ठ १२ पंक्तयः । तत्र आयेषु सार्धेषु पञ्चसु पत्रेषु केवलं वैशेषिकसूत्रपाठः, ततः परं सार्द्धषु अष्टाविंशतौ पत्रेषु 'सूत्रं तद्व्याख्या, सूत्रं तद्व्याख्या' इत्येवंक्रमेण सर्वेषामपि सूत्राणां चन्द्रानन्दविरचिता वैशेषिकसूत्रवृत्तिः । एवं च 'एकः केवलः सूत्रपाठः, अपरश्च वृत्त्यन्तर्गतः सूत्रपाठः' इति द्वौ सूत्रपाठावत्र । उभयत्रापि प्रायः साम्यमेव, तथापि क्वचित् किञ्चिद्वैषम्यमपि वर्तते, तदपि च यथायोग तत्र तत्र प्रदर्शितं मया। 35 'सू०'शब्देन Tशब्देन वा केवलः सूत्रपाठो ज्ञेयः, 'वृसू०'शब्देन तु वृत्त्यन्तर्गतः सूत्रपाठो ज्ञेयः। वृत्तावपि बहुत्राशुद्धिर्वर्तते,
१ अर्पणानां विवक्षाणां भेदात् । २ संग्रहः। ३ एतच्च भ्रष्टत्वमसम्बद्धत्वं च विद्वद्भिरपि स्वीक्रियत एव, दृश्यतां न्यायकन्दल्याः प्रस्तावना [विज्ञापनम् ] पृ० ११, तथा चन्द्रकान्ततर्कालङ्कारलिखिता वैशेषिकदर्शनस्य भूमिका पृ०३ । ४ प्रतिपत्रं मानं ९३"४३४” ईञ्च[Inch]प्रमितं ज्ञेयम् । ५प्रथमपत्रस्य उपरितनं पृष्ठं तु लेखरहितमिति ध्येयम् । ६T=Text मूलमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org