________________
पृ०६५०९-१४.]
टिप्पणानि । सापि मया प्रमार्जिता, वृत्तिस्थः पाठश्च 'वृ०'शब्देन प्रदर्शितः । वृत्तिकारः चन्द्रानन्दः कदा जात इति निश्चितं वयं न जानीमः, किन्तु शङ्करमिश्रात् प्राचीन एवेति प्रत्ययोऽस्माकम् । Pपुस्तकमपि बहु प्राचीनमिति ध्येयम् ।
पृ० ५ पं० ११. तदव्याप्ति... । आकाशादिषु क्रियावत्त्वाभावादव्याप्तिीतच्या ।
पृ० ५ ५० १२-१३. अद्रव्यम... । अद्रव्यानेकद्रव्ययोः स्वरूपं पृ० २२ पं० ८ इत्यत्र द्रष्टव्यम् । द्रव्यपर्यायनयस्वरूप टिपृ० ३ पं० २-५ इत्यत्र द्रष्टव्यम् । काणभुजे कणभुजा कणादेन प्रणीते वैशेषिकदर्शने इति भावः ।
पृ० ६ पं० १. 'शेषशासनन्यग्भावेन वा जेष्यत्येव तद् यदेवंविधम्' इति मूलपाठोऽत्र शोभन एव य०प्रतिपाठानुसारी च । दृश्यतां टिपृ० १० पं० ३४ ।
पृ० ६ पं० ३. सदिति । दृश्यतां टिपृ० ८ पं० २२-टिपृ० ९ पं० २ । “एवं विशेषा व्याख्याताः । सत्ता तु सदिति यतो द्रव्यगुणकर्मसु [वै० सू० ११२।७], भिन्नेषु द्रव्यादिषु त्रिषु यतो जायते 'सत् सत्' इति बुद्धिः सा सत्ता । आश्रयविनाशादस्या विनाश इति चेत्, न, यतः द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता[वै० सू० १२८], 10 यस्माद् द्रव्यादिभ्यो व्यतिरिक्ता सत्ता तस्मान्न द्रव्यादिविनाशे सत्ता विनश्यतीति । द्रव्यादिव्यतिरेके युक्तिः-एकद्रव्यवस्वान्न द्रव्यम् [वै० सू० १२।९], परमाण्वाकाशादि द्रव्यमद्रव्यं कारणद्रव्याभावात् , अनेकद्रव्यं वा घटादि समवायिकारणद्रव्ययुक्तत्वात् ; सत्ता पुनः प्रत्येकं परिसमास्या वर्तमाना एकद्रव्यवत्त्वान्न द्रव्यम् । गुणकर्मसु च भावान्न कर्म न गुणः [वै० सू० १।२।१० ], गुणानां गुणेष्ववृत्तः कर्मसु कर्मणाम् , गुणेषु कर्मसु च सत्ताया वर्तमानत्वान्न गुणकर्मणी सत्ता । सामान्यविशेषाभावाञ्च [वै० सू० १।२।११], यदि सत्ता द्रव्यादीनामन्यतमा स्यात् एवं द्रव्यादिष्विव सत्तायामपि 15 सत्तावादयः सामान्यविशेषा वर्तेरन् । न चैवम् । तस्मान्न सत्ता द्रव्यगुणकर्माणि । एकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् [वै० सू० १२।१२ ], यथा प्रतिद्रव्यं साकल्येन वर्तमानत्वान्न द्रव्यं सत्ता तथैकद्रव्यत्वान्न द्रव्यं द्रव्यत्वम् । सामान्यविशेषाभावेन च [वै० सू० ११२।१३], द्रव्यादिष्विव द्रव्यत्वादीनां मध्यात् कश्चित् सामान्यविशेषो द्रव्यत्वे वर्तेत यदि द्रव्यं गुणः कर्म वा स्यात् । तस्मान्न द्रव्यादीनि द्रव्यत्वम् । गुणे भावाद् गुणत्वमुक्तम् [वै० सू० ११२।१४ ], गुणेषु गुणानामवृत्तः, गुणत्वं च गुणेषु वर्तते, तस्मान्न गुणः । सामान्यविशेषाभावेन च [वै० सू० १२॥१५], यदि गुणत्वं द्रव्यं कर्म वा 20 स्यात् तस्मिन् द्रव्यत्वं कर्मत्वं वा सामान्यविशेषौ स्याताम् । न चैवम् । तस्मान्न द्रव्यं कर्म वा गुणत्वम् । कर्मणि भावात् कर्मत्वमुक्तम् [वै० सू० १।२।१६], कर्मणि कर्मत्वस्य वृत्तेः कर्मणः कर्मणि चावृत्तेः [कर्म न] कर्मत्वम् । सामान्यविशेषाभावेन च [वै० सू० १॥२॥१७], द्रव्यत्वं गुणत्वं वा कर्मत्वे स्यातां यदि द्रव्यं गुणो वा स्यात् । तस्मान्न द्रव्यगुणौ कर्मत्वम् ।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P पृ० १०॥
पृ०६ पं० ९-१४. जं चोदस... 'पण्णवणिज्जा........"अक्खरलंमेण । इदमत्रावधेयम्-'पण्ण- 25 वणिज्जा...॥१४॥ चोदस...॥१४२॥ अक्खरलंभेण ॥१४३॥' इत्येवंक्रमेण इदं गाथात्रयं जिनभद्रगणिक्षमाश्रमणविरचिते विशेषावश्यकभाष्येऽवलोक्यते, किन्तु तदीयमेवेदं गाथात्रयमन्यतो वा कुतश्चिद् ग्रन्थात् तैः संगृह्य स्वग्रन्थे अथितमिति विचारणीयम् । यतः अकलङ्कविरचिते तत्त्वार्थराजवार्तिके १२६ सूत्रे 'पण्णवणिज्जा.. अणंतभागो सुदणिबद्धो॥' इति गाथा 'उक्तं च' इत्युल्लिख्य उद्धृता दृश्यते । किञ्च, बृहत्कल्पभाष्येऽपि 'पन्नवणिजा भावा...॥९६४॥ जं चउदसपुव्वधरा ॥९६५॥' इत्येवंक्रमेण अत्रत्य गाथाद्वयं दृश्यते, व्याख्यातं च तद् ब्रहत्कल्पभाष्यवृत्तिकृद्भिः क्षेमकीर्तिसूरिभिः। मैंलयगिरिसरिवचनानु-80 सारेण बृहत्कल्पसूत्रनियुक्तिः भाष्यं चैको ग्रन्थो जातः, अतोऽनयोर्गाथयोः नियुक्तिकारश्रीभद्रबाहुस्वामिरचितत्वमाहोस्विद् भाष्यकारश्रीसंघदासगणिक्षमाश्रमणरचितत्वमिति न ज्ञातुं पार्यते । तथापि संघदासगणिविरचितस्य बृहत्कल्पभाष्यस्य जिनभद्र
क्षमाश्रमणरचितविशेषावश्यकभाष्यात् प्राचीनत्वात् ज चोइस.....॥ पनवणिजा......॥' इति अत्रत्यं गाथाद्वयं न
१न द्रव्यमेकद्रव्यवत्त्वात्-सू०। २ कर्मसु कर्मणामवृत्तरिति सम्बन्धः । ३ सत्यत्वादयः-वृ०। ४ द्रव्यादि द्रव्यादि विव-वृ०। ५ गुणाभावाद्-सू० वृसू०। ६ दृश्यतां बृहत्कल्पवृ० पृ. ३०४। ७ दृश्यतां बृहत्कल्पवृ० पृ०२ पं० १२.८.बहकल्पभाष्यस्य “सामन्न विसेसेण य......॥ ४५ ॥” इत्यत आरभ्य " असन्नीण ....॥ ५४ ॥” इत्येतत्पर्यन्तासु गाथासु वर्णितं मतं विशेषावश्यकभाष्यस्य "अण्णे सारिक्खाई पभासंति ॥ ४६९॥" इत्यत आरभ्य “जीवत्तमिविंदियाणं ॥ ४७५ ॥” इत्येतत्पर्यन्तासु गाथासु जिनभद्रगणिक्षमाश्रमणैः निराकृतम् । अतो संघदासगणिविरचितस्य बृहत्कल्पभाष्यस्य विशेषावश्यकभाष्यात् प्राचीनत्वं प्रतीयते ।
नय०दि० २ Jain Education International For Private & Personal Use Only
www.jainelibrary.org