________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य
[ पृ० ६ पं० १५० जिनभद्रगणिक्षमाश्रमणरचितमिति विज्ञायते । 'अक्खरलंभेण समा॥' इत्यस्या गाथाया व्याख्यायां 'सुयनाणभंतरे जाण' इत्यस्य विवरणशैलीं दृष्ट्वा 'इयमपि गाथा जिनभद्रगणिक्षमाश्रमणैः कुतश्चिदन्यग्रन्थात् संगृहीता स्यात्' इत्यपि सम्भाव्यते । अतो नयचक्रवृत्तिकृद्भिः सिंहसूरिगणिवादिक्षमाश्रमणैः कुतो ग्रन्थात् क्रमभेदेन गाथात्रयमिदमुद्धृतमिति निश्चितं वकुं न पार्यते ।
आसां गाथानां निभद्रगणिक्षमाश्रमणादिविरचिता व्याख्या - "कत्तो एत्तियमेत्ता भावसुयमईण पज्जया 15 जेसिं । भासइ अनंतभागं भण्णइ जम्हा सुएऽभिहियं ॥ १४०॥ कत्तो० गाहा । आह-कुत इयन्तो भावश्रुतस्य सत्याश्च पर्याया येषामनन्तभागमात्रं भाषत इति । उच्यते - यस्मादभिहितं पण्णवणिज्जा भावा अनंतभागो उ अणभिलप्पाणं । पण्णवणिज्जाणं पुण अनंतभागो सुयनिबद्धो ॥१४९॥ पण्णवणिज्जा ० गाहा । अनमिलाप्यानामनन्तभागाः(गः) प्रज्ञापनीयाः, तदनन्तभागश्च श्रुतोपनिबद्धः । कथं पुनः ? जं चोहसपुव्वधरा छट्टाणगया परोप्परं होंति । तेण उ अनंतभागो पण्णवणिजाण जं सुत्तं ॥ १४२॥ जं चोद्दसपुब्वधरा० [गाहा ] । यस्माच्चतुर्दश पूर्ववि (पूर्व्यपि) चतुर्दश10 पूर्वविदोऽनन्तभागहीनो ऽनन्तगुणहीनोऽभ्यधिको वा, इत्यतः प्रज्ञापनीयानामनन्तभागः श्रुतोपनिबद्ध इति । आह-यदि चतु देशपूर्वविदः, कथमनन्तगुणभागहीनाधिक्यं च ? इति उच्यते-अक्खरलंभेण समा ऊणहिया होंति मइ विसेसेहिं ।
तन्मति
वि यमई विसेसे सुयनाणभंतरे जाण ॥ १४३ ॥ अक्खर० गाहा । अक्षरलाभसामान्यमात्रतश्चतुर्दशपूर्वविदः, विशेषान्यूनाधिकत्वं तेषाम् । मतिविशेष ग्रहणात् ' मतिज्ञानविशेषा एव' इति मा भूवन्, अतो विशेष्यते - तेऽपि हि श्रुतज्ञानान्तर्भाविन एवेति । आह— यद्येवं श्रुतज्ञानमेवेति किं नोच्यते त ( कु ? ) तोऽभ्यन्तर इति, न, विशेषाद[ङ्गा]भ्यन्तरादिव्यपदेशवत् । 18 अथवा श्रुतज्ञानमिति चतुर्दशपूर्वाक्षरलाभमधिकुरुते, चतुर्दशपूर्वाक्षरलाभाभ्यन्तरान् जानीहीत्युक्तं भवति । ” — विशेषाव० भा० स्वोपज्ञ० । “कत्तो० इत्यादि । कुत एतावन्तो भावश्रुतमत्योः पर्यायाः उपलब्धार्थविशेषाः येषां सर्वेणाप्यायुषाऽनन्तभागमात्र भाषते ? इति । भन्नति, यस्मात् श्रुते भणितमिति गाथार्थः ॥ १४० ॥ पन्नवणिज्जा० इत्यादि । प्रज्ञाप्यन्त इति प्रज्ञापनीयाः, वचनपर्यायत्वेन श्रुतज्ञानगोचरा इत्यर्थः । के ? 'भावाः' ऊर्द्धाधस्तिर्यग्लोकनिविष्टभू-भवन-ग्रह-नक्षत्र-तारकार्केन्द्रादयः । किम् ? अत आह— अनन्तभाग एव वर्त्तन्ते, न संख्येयभागे नाप्यसंख्येयभाग इति । केषाम् ? इत्याह-अनभिलाप्यानाम्, अर्थपर्यायत्वेन 2. मत्यवधिमनःपर्यायगोचराणामित्यर्थः, अनभिलाप्यवस्तुराशेरभिलाप्यवस्तुराशिरनन्तभागे वर्तत इति भावः । पुनश्च प्रज्ञाप
25
यानां द्रव्याणामप्यनन्तभागोऽनन्तभागमात्रं श्रुतनिबद्ध: चतुर्दशसु पूर्वेषु साक्षाद् ग्रथितो भगवद्भिर्गणधरैरिति गाथार्थः ॥ १४१ ॥ कुतः प्रत्ययः ? इति, अत आह— जमित्यादि । 'यद्' यस्मात् चतुर्दशपूर्वधराः षट्स्थानपतिताः परस्परं भवन्ति, न्यूनाधिक्येनेति शेषः । तथाहि — सकलाभिलाप्यवस्तुवेदितयोत्कृष्टचतुर्दशपूर्वविदः प्रतियोगी उक्तः 'अणंतभागहीणे वा असंखेज्जभागहीणे वा संखेज्जभागहीणे वा संखेज्जगुणहीणे वा असंखेज्जगुणहीणे वा अणंतगुणहीणे वा, एवं अब्भहिए वि' । 6 अतो येन कारणेनैवं तेन यत् सूत्रं चतुर्दशपूर्वलक्षणं तत् प्रज्ञापनीयानामनन्तभाग एवेति स्थितमिति गाथार्थः ॥ १४२॥ आहकेवलिनामिवामीषामयं तारतम्यकृतो विशेषो न युक्तः, युक्तश्चेद् उच्यतां कारणमित्यत आह- अक्खरेत्यादि । ' अक्षरलाभेन' चतुर्दशपूर्वसूत्रलक्षणेन ‘समाः' तुल्याः, चतुर्दशपूर्वरत्वात् । कैस्तु न समाः ? इत्याह – न्यूनाधिका भवन्ति उक्तवत् 'मतिविशेषैः’ अक्षरला भगतबुद्धि विकल्पैः, तैस्तैर्व्याख्यानकरणैरित्यर्थः, क्षयोपशमवैचित्र्यात्, केवलिनां त्वविशेषः क्षायिकत्वात् । इह च _मतिविशेषग्रहणादाभिनिबोधिकविशेषास्ते मा भूवन् इत्यतो विशेष्यते — तानपि च मतिविशेषान् तन्यूनाधिक्यनिबन्धनान् गम्यान् 30 श्रुतज्ञानान्तर्भविन एव 'जानीहि ' विद्धि । यद्येवं 'ते वि य मतीविसेसे सुयणाणं चेव' इत्येवमेव प्रगुणमस्तु, तन्न, अस्यापि न्यायस्य दृष्टत्वाद्, अङ्गादिव्यपदेशवत्, यथा ह्यङ्गमेवाङ्गाभ्यन्तरम् एवं श्रुतमेव श्रुताभ्यन्तरमेवेत्युक्तं भवतीति भावः । छन्दोभङ्गभयाद्वा अभ्यन्तरग्रहणमिति। अथवा 'सुतनाण' इत्यनेन चतुर्दशपूर्वाक्षरलाभमधिकुरुते । 'ते वि य मतीविसेसे सुतनाणब्भंतरे जान' ति तानपि गम्यान् पर्यायानेतदधिकरणेनैव विद्धि श्रुतग्रन्थानुसारित्वादिति गाथार्थः ॥ १४३ ॥” - विशेषाव॰भा० कोट्याचार्यत्रृ॰ ।
पृ० ६ पं० १५. शेष'''। अत्र 'शेषशासनन्यग्भावेन वा' इति य० प्रतिपाठः साधुरेव । दृश्यतां टिप्पृ० ९ पं० ६ ।
35
पृ० ६ पं० १८–१९. गम्यम् स्पदं । दृश्यतां पृ० १ पं० १२ - १४ |
पृ० ७ पं० १. अवबोध' अत्र भा० प्रतिपाठानुसारि 'भवबोधसमुद्रावयविभूतम्' इति साधु । टिपृ० ११ पं० ११ । ०७ पं० १२. द्वित्वं न तदा । अत्र 'द्वित्वम्, तदादयोऽनन्तान्ता विकल्पाः' इत्येवं पाठः साधुः प्रतीयते । 'अनन्तान्त' विषये दृश्यतां पृ० ५०५ टि० ६ ।
पृ० ७ पं० १४. जावइया । "अपरिशुद्धश्च नयवादः परसमयः, स कियद्भेदो भवतीत्याह — जावइया वयणवहा तावइया चेव होंति णयवाया। जावइया णयवाया तावइया चैव परसमया ||३|४७॥ अनेकान्तात्मकस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org