________________
10
पृ०८० ६.]
टिप्पणानि । वस्तुन एकदेशस्य यद् अन्यनिरपेक्षस्यावधारणम् भपरिशुद्धो नयः, तावन्मात्रार्थस्य वाचकानां शब्दानां यावन्तो मार्गाः हेतवो नयाः तावन्त एव भवन्ति नयवादाः तत्प्रतिपादकाः शब्दाः । यावन्तो नयवादास्तावन्त एव परसमया भवन्ति स्वेच्छाप्रकल्पितविकल्पनिबन्धनत्वात् परसमयानां परिमितिन विद्यते। ननु यद्यपरिमिताः परसमयाः कथं तन्निबन्धनभूतानां नयानां संख्यानियमः 'नगमसंग्रहव्यवहार सूत्रशब्दसमभिरूढवम्भूता नयाः [तत्त्वार्थ० ११३३] इति श्रूयते ! न, स्थूलतस्तच्छ्रुतेः। अवान्तरभेदेन तु तेषामपरिमितत्वमेव स्वकल्पनाशिल्पिघटितविकल्पानामनियतत्वात् तदुत्थप्रवादानामपि तत्संख्यापरिमाणत्वात्।" 5 -सन्मतिवृ० पृ. ६५६। "अथवा किमनेन स्तोकभेददर्शनेन । उत्कृष्टतोऽसंख्याता अपि नया भवन्ति । तेऽपि च 'अपि'शब्दाद् द्रष्टच्या इति दर्शयन्नाह-जावन्तो वयणपहा तावन्तो वा नया विसद्दाओ। ते चेव य परसमया सम्मत्तं समुदिया सब्वे ॥२२६५॥ 'वा' अथवा यावन्तो वचनपथा वचनमा वचनप्रकाराः तेऽपि इह 'अपि'शब्दात् सङ्गहीताः। य एव च
बच सावधारणाः सर्वेऽपि परसमयाः तीर्थकसिद्धान्ताः । समुदितास्तु निरवधारणाः स्याच्छब्दलाग्छिताः सर्वेऽपि मयाः सम्यक्त्वं जिनशासनभावं प्रतिपद्यन्त इत्यर्थः।"-विशेषाव०भा०मलधारिवृ० पृ. ९२२ ।
10 पृ० ७५० १७. अवयवीभूतो। भत्र 'अवयवी भूतो यस्मिंस्तवबोधसमुद्रावयविभूतं' इति भा०प्रतिपाठः समीचीनतरो भाति । दृश्यतां टिपृ० १० १० ३६ । - पृ०७ ६० १९ सङ्ग्रहप्रस्तार। सङ्गहप्रस्तारयोविशेषतः स्वरूपज्ञानार्थमत्र टिप्पणेषु वक्ष्यमाणं 'दव्वट्टियणयपगती' [पृ० ११५ पं०७] इत्यस्य टिप्पणं द्रष्टव्यम् ।
पृ०७ पं०२०. अनभिभवनीयम। "प्रन्थार्थवचनपटुभिः प्रयत्नवद्भिरपि वादिभिनिपुणैः। अनभिभवनीयमन्यैर्भ इव सर्वतेजोभिः॥"-तत्त्वार्थभा० संबन्धका० २० । • पृ० ८ पं०१-२. शेषशासनि.....। "अथवा एकान्तवादिना सर्व एव हेतुस्त्रयीं दोषजाति नातिक्रामतीत्याहप्रसिद्धः सिद्धसेनस्य विरुद्वो मल्लवादिनः। द्वेधा समन्तभद्रस्य हेतुरेकान्तसाधने ॥५३॥ असिद्धः सिद्धसेनस्येत्यादि । सिद्धसेनस्य सूत्रकर्तुः साकल्येनासिद्धत्वात् सकल एव हेतुः असिद्ध इति । तथाहि सामान्य वा हेतुः स्यात् विशेषो वा? [पृ० १०७]..... नैकान्तसामान्यरूपो हेतुः साकल्येन सिद्धः। नापि विशेषरूपः ।....."मल्लवादिनस्तु नयचक्रविधातुर्मतेन सकल एवैकान्तसाधनो हेतुविरुद्ध इति, अनेकान्तात्मकवस्तुविपर्ययसाधनादिति । अनेकान्तिकासिद्धावपि साध्यनिश्चयविपर्ययसाधना विरुद्धाविति । तथाहि-निश्चयेन सह अप्रतिपत्तिसन्देहावपि विरुद्धावेव। तदविनाभूती चासिद्धानकान्तिकाविति सकल एव हेतुविरुद्ध इति । द्वेधा समन्तभद्रस्येति, स हि प्रतिबन्धविकलानां सर्वेषामेव हेतूनां व्यभिचारित्वं मन्यते, न चैकान्तसामान्ययोर्विशेषयोवा प्रतिबन्ध उपपद्यते।" इति शान्तिसूरिविरचितायां न्यायावतारवातिकवृत्तौ पृ० १०७-१०॥
पृ० ८ ६० ५. कपिल......। कपिलः सांख्यशासनस्य प्रणेता । व्यासः ब्रह्मसूत्राणां रचयिता, मयं च बादरायण इत्यपि प्रसिद्धः । कणादः वैशेषिकदर्शनसूत्राणां प्रणेता । शौद्धोदनिः बौद्धदर्शनप्रवर्तकः सिद्धार्थों गौतमबुद्धः। मस्करी परिवाजकसम्प्रदायाप्रणी।
पृ. ८० ६. प्रत्यक्षानुमान...| "द्विविधं सम्यग्ज्ञान प्रत्यक्षमनुमानं च। तत्र प्रत्यक्षं कस्पनापोढमभ्रान्तम् । भभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना, तया रहितम् । तिमिरा-ऽऽशुभ्रमण-नौयान-संक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम्। तच्चतुर्विधम्-इन्द्रियज्ञानं । स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तद् मनो-30 विज्ञानं २ सर्वचित्तचैत्तानामात्मसंवेदनं ३ भूतार्थभावनाप्रकर्षपर्यन्तज योगिज्ञानं ४ चेति । तस्य विषयः स्वलक्षणम् । यस्यार्थस्य समिधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदः तत् स्वलक्षणम् । तदेव परमार्थसत् , अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः । भन्यत् सामान्यलक्षणम्, सोऽनुमानस्य विषयः।..... अनुमानं द्विधा स्वार्थ परार्थ च। तत्र स्वार्थ त्रिरूपाल्लिङ्गाद् यदनुमेये ज्ञानं तदनुमानम् ।...त्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वम् , असपक्षे चासत्वमेव निश्चितम् । अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी। साध्यधर्मसामान्येन समानोऽर्थः सपक्षः। न सपक्षोऽसपक्षः ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति । त्रिरूपाणि च त्रीण्येव लिङ्गानि-अनुपलब्धिः १ स्वभावः २ कार्य ३ चेति । तत्रानुपलब्धियथा-न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति । उपलब्धिलक्षणप्राप्तिः उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । यः स्वभावः सत्सु अन्येषप
...१ अस्य खलक्षणस्य तन्त्रान्तरेषु विशेषः' इति संज्ञा। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org