________________
न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ० ८ ६० ११-१२लम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स स्वभावः । स्वभावः स्वसत्तामात्रभाविनि साध्यधर्म हेतुः, यथा वृक्षोऽयं शिंशपात्वादिति २। कार्य यथाग्निरत्र धूमादिति ३।" इति बौद्धाचार्यधर्मकीर्तिरचिते न्यायबिन्दौ ।
पृ० ८ पं० ११-१२. एतेन..."कार्यानुमानविनिश्चेयेऽपि। धूमस्य अग्निकार्यत्वात् धूमेन कार्येण कारणस्य अग्नेर्यदनुमानं तत् कार्यानुमानमुच्यते, कार्यलिङ्गजत्वात् । दृश्यतां टिपृ० १२ पं० २। 5 पृ० ८ पं० १२. न विशेषा एव। “निर्विशेषं न सामान्यं भवेच्छशविषाणवत् । विशेषोऽपि च नैवास्ति सामान्येन विना कृतः॥” इति न्यायावतारवार्तिकवृत्तौ पृ० ९० "निर्विशेषं न सामान्यं भवेच्छशविषाणवत् । सामान्यरहितत्वाच्च विशेषास्तद्वदेव हि ॥१०॥” इति कुमारिलविरचिते श्लोकवार्तिके आकृतिवादे।
पृ० ८ पं० १४. 'रूपादय एव घटः' इति बौद्धमतं, 'घट एव रूपादयः' इति सांख्यादिमतं, 'रूपादयश्च घटश्च' इति वैशेषिकमतं रूपादिगुणवतोऽवयविनः स्वीकारात्, 'न रूपादयो न घटः' इति च शून्यवाद्यादिमतं भाति । अन्यतरोभयानुभय10 पक्षभेदेन उदाहरणचतुष्टयमत्र दर्शितमिति ध्येयम् ।
पृ०८पं० १९. परात्म: । परमतविशेषप्रतिपत्तिनिराकरणं स्वमतविशेषतत्त्वप्रतिपादनं च कर्तव्यमित्याशयः । पृ० ९पं० १. प्रमाणद्वय: । दृश्यतां टिपृ० ११५०२८॥
पृ० ९ पं० ३. पूर्वमहोदधिसमुत्पतितनयप्राभृततरङ्गागमप्रभ्रष्टश्लिष्टार्थकणिकमात्रम्... । “पूर्वर्षिभिस्तथा ज्ञानप्रवादाभिधपञ्चमात् । नयचक्रमहाग्रन्थः पूर्वाञ्चके तमोहरः ॥१४॥"-प्रभावकच. मल्लवादिप्र० । द्वादशस्य 15 दृष्टिवादाख्यस्य अङ्गस्य विभागविशेषः 'पूर्व'नाम्ना व्यपदिश्यते, नयप्राभृतं च नयस्वरूपनिरूपणपरो ग्रन्थविशेषः। तथाहि
___ "श्रुतं मतिपूर्व द्वयनेकद्वादशभेदम् । १।२०। श्रुतज्ञानं मतिज्ञानपूर्वकं भवति । श्रुतमाप्तवचनमागमः उपदेश ऐतिहमाम्नायः प्रवचनं जिनवचनमित्यनान्तरम् । तद् द्विविधमङ्गबाह्यमङ्गप्रविष्टं च। तत् पुनरनेकविधं द्वादशविधं च यथासङ्ग्यम् । अङ्गबाह्यमनेकविधम् , तद्यथा-सामायिकं चतुर्विशतिस्तवो वन्दनं प्रतिक्रमण कायव्युत्सर्गः प्रत्याख्यानम् दशवैकालिकम् उत्तराध्यायाः दशाः कल्पव्यवहारौ निशीथम् ऋषिभाषितानि एवमादि। अङ्गप्रविष्टं द्वादशविधम् , तद्यथाआचारः सत्रकृत स्थान समवायः व्याख्याप्रज्ञप्तिः ज्ञातधर्मकथा उपासकाध्ययनदशाः अन्तकृद्दशाः अनुत्तरोपपातिकदशाः प्रश्नव्याकरणं विपाकसूत्रं दृष्टिपात इति। अत्राह-मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति । उच्यते-उत्पन्नाविनष्टार्थग्राहक साम्प्रतकालविषयं मतिज्ञानम् , श्रुतज्ञानं तु त्रिकालविषयम् उत्पन्नविनष्टानुत्पन्नार्थग्राहकम् । अत्राह-गृह्णीमो मतिश्रुतयो नात्वम् । अथ श्रुतज्ञानस्य द्विविधमनेकद्वादशविधमिति किंकृतः प्रतिविशेष इति ? अनोच्यते-वक्तृविशेषाद् द्वैविध्यम् । यद् भगवनिः सर्वज्ञैः सर्वदर्शिभिः परमर्षिभिरर्हद्भिः तत्स्वाभाव्यात् परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तीर्थकरनामकर्मणोऽनुभावादुक्तं भगवच्छिव्यैरतिशयवद्भिरुत्तमातिशयवाम्बुद्धिसम्पन्नैर्गणधरैदृब्धं तदङ्गप्रविष्टम् । गणधरानन्तर्यादिभिस्त्व त्यन्तविशुद्धागमैः परमप्रकृष्टवाङ्मतिशक्तिभिराचार्यैः कालसंहननायुर्दोषादल्पशक्तीनां शिष्याणामनुग्रहाय यत् प्रोक्तं तदङ्गबाह्यमिति सर्वज्ञप्रणीतत्वादानन्त्याच्च ज्ञेयस्य श्रुतज्ञानं मतिज्ञानाद् महाविषयम्। तस्य च महाविषयत्वात् तांस्ताननधिकृत्य प्रकरणसमाश्यपेक्षमङ्गोपाङ्गनानात्वम् । सुखग्रहणधारणविज्ञानापोहप्रयोगार्थ च । अन्यथा शनिबद्धमङ्गोपाङ्गशः समुद्रप्रतरणवद् दुरभ्यवसेयं स्यात् । एतेन पूर्वाणि वस्तूनि प्राभृतानि प्राभृतप्राभृतानि अध्ययनानि उद्देशाश्च व्याख्याताः।"-तत्त्वार्थभा० ।
१ दृष्टिपातस्यैव 'दृष्टिवादः' इत्यपरमभिधानम् । अयं च दृष्टिवादः पञ्चविधः-परिकर्म १, सूत्रम् २, अनुयोगः ३, पूर्वगतम् ४, चूलिका ५ चेति । तत्र पूर्वगतं चतुर्दशप्रकारम्-उत्पादपूर्वम् १ अग्रायणीयपूर्व २ वीर्यप्रवादपूर्वम् ३ अस्तिनास्तिप्रवादपूर्व ४ ज्ञानप्रवादपूर्व ५ सत्यप्रवादपूर्वम् ६ आत्मप्रवादपूर्वं ७ कर्मप्रवादपूर्व ८ प्रत्याख्यानप्रवादपूर्व ९ विद्यानुप्रवादपूर्व १. कल्याणपूर्व ११ प्राणावायपूर्व १२ क्रियाविशालपूर्व १३ लोकबिन्दुसारपूर्व १४ चेति । एतेषां विस्तरेण स्वरूपं तु नन्दिसूत्र सू० ५६ तत्त्वार्थराजवार्तिक १।२० ]प्रभृतिग्रन्थेभ्योऽवसेयम् । 'पूर्व'शब्दस्य 'आदिः' इत्यर्थः, तथा च आदौ तीर्थकृद्भिरर्थतोऽभिधानाद् गणधरैर्वा आदौ सूत्रतो विरचनादेतेषां पूर्वसंज्ञा, तदुक्तम्- "इह तीर्थकरस्तीर्थप्रवर्तनकाले गणधरान् सकलश्रुतार्थावगाहनसमर्थानधिकृत्य पूर्व पूर्वगतं सूत्रार्थ भाषते ततस्तानि पूर्वाण्युच्यन्ते, गणधराः पुनः सूत्ररचना विदधतः आचारादिक्रमेण विदधति स्थापयन्ति वा । अन्ये तु व्याचक्षते- पूर्व पूर्वगतसूत्रार्थमर्हन् भाषते, गणधरा अपि पूर्व पूर्वगतसूत्रं विरचयन्ति पश्चादू आचारादिकम् ।" इति नन्दिसूत्रस्य मलयगिरीयवृत्तौ सू० ५६ । २ "एतेनेत्यादि ।
एतेनाङ्गोपाङ्गमेदप्रयोजनेन सुखग्रहणादिना । पूर्वाणि दृष्टिपातान्तःपातीनि, पूर्व प्रणयनात् । वस्तूनि पूर्वस्यैवांशोऽल्पः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org