________________
न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ० ३ पं० १४-१६इति सपर्यवसितम् । आदिरहितमनादि, न पर्यवसितमपर्यवसितम् । आचार्य आह-इत्येतद् द्वादशाङ्गं गणिपिटकं 'वोच्छित्तिनयट्टयाए' इत्यादि, व्यवच्छित्तिप्रतिपादनपरो नयो व्यवच्छित्तिनयः पर्यायास्तिकनय इत्यर्थः, तस्यार्थी व्यवच्छित्तिनयार्थः पर्याय इत्यर्थः, तस्य भावो व्यवच्छित्तिनयार्थता, तया, पर्यायापेक्षयेत्यर्थः । किम् ? इत्याह -सादिसपर्यवसितम्, नारकादिभवपरिणत्यपेक्षया जीव इव । अवुच्छित्तिनयट्टयाएत्ति, अव्यवच्छित्तिप्रतिपादनपरो नयोऽव्यवच्छित्तिनयः, तस्यार्थोऽव्यवच्छित्तिनयार्थों 5 द्रव्यमित्यर्थः, तद्भावस्तत्ता, तया, द्रव्यापेक्षयेत्यर्थः । किम् ? इत्याह-अनादि अपर्यवसितम्, त्रिकालावस्थायित्वाजीववत् । अधिकृतमेवार्थ द्रव्यक्षेत्रादिचतुष्टयमधिकृत्य प्रतिपादयति-तत्' श्रुतज्ञानं 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्तम्, तद्यथाद्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यतो, णमिति वाक्यालङ्कारे, सम्यकश्रुतमेकं पुरुषं प्रतीत्य सादि सपर्यवसितम् । कथमिति चेत्, उच्यते-सम्यक्त्वावाप्तौ ततः प्रथमपाठतो वा सादि । पुनर्मिथ्यात्वावाप्तौ, सति वा सम्यक्त्वे प्रमादभावतो
महाग्लानत्वभावतो वा सुरलोकगमनसम्भवतो वा विस्मृतिमुपागते, केवलज्ञानोत्पत्तिभावतो वा सर्वथा विप्रनष्टे सपर्यवसितम् । 10 बहून् पुरुषान् कालत्रयवर्तिनः पुनः प्रतीत्य अनादि अपर्यवसितम्, सन्तानेन प्रवृत्तत्वात् , कालवत् । तथा क्षेत्रतो, णमिति वाक्यालङ्कारे, पञ्च भैरतानि पञ्चैरवतानि प्रतीत्य सादि सपर्यवसानम्। कथम् ? उच्यते-तेषु क्षेत्रेषु अवसर्पिण्यां सुषमदुष्षमापर्यवसाने उत्सपिण्यां तु दुष्षमसुषमाप्रारम्भे तीर्थकरधर्मसङ्घानां प्रथमतयोत्पत्तेः सादि, एकान्तदुष्षमादौ च काले तदभावात् सपर्यवसितम्। तथा महाविदेहान् प्रतीत्य अनादि अपर्यवसितम्, तत्र प्रवाहापेक्षया तीर्थकरादीनामव्यवच्छेदात् । तथा कालतो, णमिति वाक्यालङ्कारे, अवसर्पिणीमुत्सर्पिणीं च प्रतीत्य सादि सपर्यवसितम् , तथाहि अवसर्पिण्यां तिसृष्वेव समासु 15 सुषमदुष्षमा-दुष्षमसुषमा-दुषमारूपासु उत्सर्पिण्यां तु द्वयोः समयोः दुष्षमसुषमा-सुषमदुष्षमारूपयोर्भवति, न परतः, ततः
सादिसपर्यवसितम् ।.....................'नोउस्सप्पिणी'त्यादि, 'नोउत्सर्पिणीमवसर्पिणी प्रतीत्य अनाद्यपर्यवसितम्, महाविदेहेषु हि नोत्सर्पिण्यवसर्पिणीरूपः कालः, तत्र च सदैवावस्थितं सम्यक्श्रुतमित्यनाद्यपर्यवसितम् । तथा भावतो, णमिति वाक्यालङ्कारे, 'ये' इत्यनिर्दिष्ट निर्देशे, ये केचन यदा पूर्वाह्लादौ जिनैः प्रज्ञप्ता जिनप्रज्ञप्ता भावाः पदार्थाः 'आधविजंति'त्ति..... आख्यायन्ते,
सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते इत्यर्थः । 'प्रज्ञाप्यन्ते' नामादिभेदप्रदर्शनेन आख्यायन्ते । 'प्ररूप्यन्ते' नामादि20 भेदस्वरूपकथनेन प्रख्यायन्ते .....। तथा 'दर्यन्ते' उपमानमात्रोपदर्शनेन प्रकटीक्रियन्ते, यथा गौरिव गवय इत्यादि । तथा 'निदर्यन्ते' हेतुदृष्टान्तोपदर्शनेन स्पष्टतरीक्रियन्ते । 'उपदय॑न्ते' उपनयनिगमनाभ्यां निःशवं शिष्यबुद्धौ स्थाप्यन्ते; अथवा 'उपदय॑न्ते' सकलनयाभिप्रायावतारणतः पटुप्रज्ञशिष्यबुद्धिषु व्यवस्थाप्यन्ते । 'तान्' भावान् 'तदा' तस्मिन् काले तथा आख्यायमानान् प्रतीत्य सादिसपर्यवसितम् । एतदुक्तं भवति-तस्मिन् काले तं तं प्रज्ञापकोपयोग स्वरविशेष प्रयत्नविशेषमासनविशेषम
प्रतीत्य सादिसपर्यवसितम् उपयोगादेः प्रतिकालमन्यथाऽन्यथाभवनात् ।.....'क्षायोपशमिकं भावं पुनः 25 प्रतीत्य अनाद्यपर्यवसितम्, प्रवाहरूपेण क्षायोपशमिकभावस्य अनाद्यपर्यवसितत्वात् । अथवेत्यादि, ..... भवसिद्धिको भव्यः,
तस्य [श्रुतं] सम्यक्श्रुतं सादिसपर्यवसितम्, सम्यक्त्वलामे प्रथमतया भावात् भूयो मिथ्यात्वप्राप्तौ केवलोत्पत्तौ वा विनाशात् । ...... 'अभवेत्यादि, अभवसिद्धिकोऽभव्यः, तस्य श्रुतं मिथ्याश्रुतमनाद्यपर्यवसितम्, तस्य सदैव सम्यक्त्वादिगुणहीनत्वात्।" इति मलयगिरिविरचितायां नन्दिसूत्रवृत्तौ पृ०१९५-१९८ । दृश्यतां नन्दि० हारिभद्री० पृ० ८४-८६ ।
पृ० ३ पं० १४-१६. इमा णं. 'असासता । दृश्यतां पृ० ४५१ टि० । 30 पृ० ३ पं० १९. आभिनिबोधिकभेदानाम् । 'आभिनिबोधिक' मतिज्ञानमित्यर्थः । मत्यादिज्ञानपञ्चकस्वरूपं
चेत्थमवगन्तव्यम्-"नाणं पंचविहं पन्नतं, तं जहा-आभिणिबोहियनाणं सुअनाणं ओहिनाणं मणपजवनाणं केवलनाणं [ नन्दिसू. १] । ज्ञातिर्ज्ञानम् , भावे 'अनट्' प्रत्ययः । अथवा ज्ञायते वस्तु परिच्छिद्यतेऽनेनेति ज्ञानम् , करणे 'अनट'।...'पञ्च' इति सङ्ख्यावाचकम् , विधान विधा,.. पञ्च विधाः प्रकारा यस्य तत् पञ्चविधं पञ्चप्रकारं प्रज्ञप्तं प्ररूपितं तीर्थकरगणधरैः......। तद्यथा' इत्युदाहरणोपदर्शनार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनःपर्यायज्ञानं केवल35 ज्ञानम् । तत्र अर्थाभिमुखो नियतः प्रतिनियतस्वरूपो बोधो बोधविशेषोऽभिनिबोधः, [अभिनिबोधः] एवाभिनिबोधिकम् ...
स्वार्थे 'इकण' प्रत्ययः,..... आभिनिबोधिकं च तद् ज्ञानं च आभिनिबोधिकज्ञानम्, इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः १ । तथा श्रवणं श्रुतम् , वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृ(स)ष्टार्थग्रहणहेतुरुपलब्धिविशेषः, 'एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थं घटशब्दवाच्यम्' इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारण
१ भरतैरवतमहाविदेहादिक्षेत्रस्वरूपम् उत्सर्पिण्यवसर्पिणीसुषमसुषमादिकालखरूपं च बृहत्संग्रहणी-क्षेत्रसमास-तत्त्वार्थसूत्रप्रभृतिग्रन्थेभ्योऽवसेयम्। २"नोउत्सर्पिणी नोअवसर्पिणी च प्रतीत्य अनाद्यपर्यवसितम्।"-नन्दिक हारिभद्री०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org