________________
पृ०७ पं० ११-३.]
टिप्पणानि । अन्रोच्यते-वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ।५।२२। तद्यथा-सर्वभावानां वर्तना कालाश्रया वृत्तिः। वर्तना उत्पत्तिः स्थितिः प्रथमसमयाश्रया इत्यर्थः । परिणामो द्विविधः-अनादिरादिमांश्च । तं परस्ताद् वक्ष्यामः । क्रिया गतिः, सा त्रिविधा-प्रयोगगतिः विस्रसागतिः मिश्रिकेति । परत्वापरत्वे त्रिविधे-प्रशंसाकृते क्षेत्रकृते कालकृते इति । तत्र प्रशंसाकृते 'परो धर्मः, परं ज्ञानम् , अपरोऽधर्मः, अपरमज्ञानम्' इति । क्षेत्रकृते एकदिक्कालावस्थितयोर्विप्रकृष्टः परो भवति सन्निकृष्टोऽपरः। कालकृते द्विरष्टवर्षाद् वर्षशतिकः परो भवति, वर्षशतिकाद् द्विरष्टवर्षाऽपरो भवति । तदेवं प्रशंसाक्षेत्रकृते परत्वापरत्वे वर्जयित्वा 5 वर्तनादीनि कालकृतानि कालस्योपकार इति।"-तत्त्वार्थभा० । विस्तरतस्त्वस्यार्थः सिद्धसेनगण्यादिविरचितवृत्तिभ्योऽवगन्तव्यः।
पृ० २ पं० ११. द्रव्यार्थादिष्टस्य । द्रव्यार्थिकनयापेक्षया विवक्षितस्येति भावः । दृश्यतां टिपृ० ३ पं० १ ।
पृ० २ पं० १२. द्रव्यपर्यायाणां । “प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ।।१।३०।..... प्रमाणानां प्रत्यक्षादीनां विषयो गोचरो द्रव्यपर्यायात्मकं वस्तु । द्रवति तांस्तान् पर्यायान् गच्छति इति द्रव्यं ध्रौव्यलक्षणम् । पूर्वोत्तरविवर्तवय॑न्वयप्रत्ययसमधिगम्यमूर्ध्वतासामान्यमिति यावत् । परियन्ति उत्पादविनाशधर्माणो भवन्तीति पर्याया विवर्ताः । तच्च ते चात्मा स्वरूपं 10 यस्य तद् द्रव्यपर्यायात्मकं वस्तु परमार्थसदित्यर्थः । यद् वाचकमुख्यः-'उत्पाद-व्यय-धौव्ययुक्तं सत्' [ तत्त्वार्थ० ५।२९] । .........."द्रव्यपर्याय'ग्रहणेन द्रव्यैकान्त-पर्यायैकान्तवादिपरिकल्पितविषयव्युदासः । 'आत्म'ग्रहणेन चात्यन्तव्यतिरिक्तद्रव्य पर्यायवादिकाणादयोगाभ्युपगतविषयनिरासः । यच्छ्रीसिद्धसेनः-'दोहि वि नएहि नीयं सत्थमुलूएण तहवि मिच्छत्तं । जं सविषयप्पहाणत्तणेण अन्नोन्ननिरविक्खा ॥' [ सैन्मति० ३।४९] इति ।" इति हेमचन्द्रसूरिप्रणीतायां प्रमाणमीमांसायाम् । अत्र ‘गुणपर्यायवद्र्व्यम्' [पृ० १७ पं० २२ ] इत्यस्य वक्ष्यमाणं टिप्पणमपि द्रष्टव्यम् ।
15 पृ० २ पं० १२. सदविशेषात् । “सर्वमेकं सदविशेषात्” इति तत्त्वार्थभाष्ये संग्रहनयाभिप्रायनिरूपणे १३५।। अस्य सिद्धसेनगणिकृता व्याख्या-"सकलं जगदनेकावयवात्मकमपि सत्तामात्रव्याप्तेरविशेषादेकमुच्यते ।" इति । __ पृ० ३ पं० १. अभिधान... । अभिधानस्य फलं व्यवहारः, प्रत्ययस्य फलं विनिश्चयः ।
पृ० ३ पं० ३. एकमेकमेव । (एकमेव ?)। पृ० ३ पं० ४. अर्पणात् । अर्पणं व्यपदेश आदेशो विवक्षा अपेक्षा इत्येकार्थिकानि ।
20 पृ० ३ पं० ६. द्रव्य.. । द्रव्य-क्षेत्र-काल-भावापेक्षाभिरित्यर्थः । जैनदर्शनानुसारेण वस्तुनोऽनन्तधर्मात्मकत्वादनेकाभिरपेक्षाभिर्वस्तुतत्त्वं विचार्यत इति ध्येयम् । द्रव्य-क्षेत्र-काल-भावस्वरूपं पृ० १५-१७ इत्यत्रावलोकनीयम् । . पृ० ३ पं० ७-११. एयं वालसंगं........ सपजवसितमेव । “से किं तं साइअं सपज्जवसिअं अणाइअं अपज्जवसिअंच? इच्चेयं दुवालसंग गणिपिडग वुच्छित्तिनयट्टयाए साइअं सपजवसिअं । अवुच्छित्तिनयट्टयाए अणाइअं अपज्जवसिअं। तं समासओ चउब्विहं पण्णत्त, तं जहा-दव्वओ खित्तओ कालओ भावओ। तत्थ दन्वओ गं सम्मसुअं एग पुरिसं 25 पडुच्च साइ सपजवसिअं, बहवे पुरिसे य पडुच्च अणाइयं अपजबसियं । खेत्तओ ण पंच भरहाई पंचेवियाई पडुच्च साइ सपजवसि, पंच महाविदेहाई पडुच्च अणाइयं अपज्जवसि। कालओणं उस्सप्पिणी ओसप्पिणी च पडुच्च साइअं सपज्जवसि नोउस्सप्पिणी नोओसप्पिणी च पडुच्च अणाइयं अपजवसि। भावओण जे जया जिणपन्नत्ता भावा आघविजंति पण्णविजंति परूविजंति दंसिजति निदंसिर्जति उवदंसिजति ते तया पडुच्च साइअं सपज्जवसिअं खाओवसमियं पुण भावं पडुच्च अणाइअं अपजवसि । अहवा भवसिद्धियस्स सुयं साइयं सपज्जवसिअंच, अभवसिद्धियस्स सुयं अणाइयं अपजवसियं च ।” 30 [सू० ४२] इति नन्दिसूत्रे पाठः । अस्य मलयगिरिसूरिविरचिता व्याख्या-"अथ किं तत् सादि सपर्यवसितम्, अनादि अपर्यवसितं च? तत्र सह आदिना वर्तत इति सादि । तथा पर्यवसानं पर्यवसितम्, भावे क्तप्रत्ययः, सह पर्यवसितेन वर्तत
१ "द्वाभ्यामपि द्रव्यार्थिक-पर्यायार्थिकनयाभ्यां प्रणीतं शास्त्रम् उलूकेन वैशेषिकशास्त्रप्रणेत्रा द्रव्यगुणादेः पदार्थषट्कस्य नित्यानित्यैकान्तरूपस्य तत्र प्रतिपादनात् [पृ० ६५६] ।.... "पदार्थषट्के द्रव्याणि गुणाश्च केचिन्नित्या एव, केचित्त्वनित्या एव, कर्मानित्यमेव, सामान्य-विशेष-समवायास्तु नित्या एवेति पदार्थव्यवस्था । ततश्चैतच्छास्त्रम् । तथापि मिथ्यात्वम् , तत्प्रदर्शितपदार्थषट्कस्य प्रमाणबाधितत्वात् [पृ० ६५७] |......"जं सविषय' इत्यादिगाथापश्चार्धेन हेतुमाह-यस्मात् खविषयप्रधानताव्यवस्थितान्योन्यनिरपेक्षोभयनयाश्रितं तत्, अन्योन्यनिरपेक्षनयाश्रितत्वस्य मिथ्यात्वाविनाभूतत्वात् ।"[पृ० ७०४] इति अभयदेवसूरिविरचितायां सन्मतिवृत्तौ। २"ते तदा पडुच्च"-नन्दीचूर्णि० पृ० ८१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org