________________
न्यायागमानुसारिणीवृत्यलङ्कृतस्य नयचक्रस्य [पृ०२ ५० ६-७बन्धो विस्त्रसाबन्धो मिश्र इति ।.."स्थौल्यमपि द्विविधम् - अन्त्यमापेक्षिकं च संघातपरिणामापेक्षमेव भवति । तत्रान्त्य सर्वलोकव्यापिनि महास्कन्धे भवति । आपेक्षिक बदरादिभ्य आमलकादिग्विति।"-तत्त्वार्थभा० ५।२४। “उप्पाओ दवियप्पो पओगजणिओ अ वीससा चेव । ॥३॥३२॥ द्विभेद उत्पादः पुरुषतरकारकव्यापारजन्यतया।"-सन्मतिवृ० पृ. ६४१।
- पृ० २ पं०६-७. प्रायोगिकैश्च कार्मणशरीरादिभिः । “औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ।२।३७। औदारिकं वैक्रियम् आहारकं तैजसं कार्मणमित्येतानि पञ्च शरीराणि संसारिणां जीवानां भवन्ति"-तत्त्वार्थभा० ॥३७॥
पृ० २५० ८. एकदवियम्मि......। “यत् तदन्यतो विभक्तेन स्वरूपेण एकमनेकं च वस्तूक्तं तदनन्तप्रमाणमित्याख्यातुमाह-एगदवियम्मि जे अत्थपजया वयणपज्जया वा वि। तीयाणागयभूया तावइयं तं हवइ दव्वं ॥१॥३१॥ एकस्मिन् जीवादिद्रव्ये अर्थपर्याया अर्थग्राहकाः सङ्ग्रह-व्यवहार-ऋजुसूत्राख्याः तद्राह्या वा अर्थभेदाः, वचनपर्यायाः
शब्दनयाः शब्द-समभिरूढ-एवम्भूताः तत्परिच्छेद्या वस्त्वंशा वा, ते च अतीतानागतवर्तमानरूपतया सर्वदा विवर्तन्ते विवृत्ताः 10 विवर्तिष्यन्त इति तेषामानन्त्याद् वस्त्वपि तावप्रमाणं भवति । तथाहि-अनन्तकालेन सर्वेण वस्तुना सर्वावस्थानां परस्परानु
गमेन आसादितत्वात् अवस्थातुश्चावस्थानां कथञ्चिदनन्यत्वात् घटादिवस्तु पटपुरुषादिरूपेणापि कथञ्चिद् विवृत्तमिति सर्व सर्वात्मकं कथञ्चिदिति स्थितम् । दृश्यते चै पुद्गलद्रव्यमतीतानागतवर्तमानद्रव्यगुणकर्मसामान्यविशेषपरिणामात्मकं युगपत् क्रमेणापि तत् तथाभूतमेव, एकान्तासत उत्पादायोगात् सतश्च निरन्वयविनाशासम्भवादिति प्रतिपादितत्वात्।"-सन्मतिवृ० पृ. ४३०॥
__ पृ० २ पं० १०-११. गतिस्थित्यवगाह..... आपेक्षिकैः.... शरीरादिभिः। एतत्स्वरूपमित्थं ज्ञेयम्15“जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ।।४। जीवा अजीवा आस्रवा बन्धः संवरो निर्जरा मोक्ष इत्येष सप्तविधोऽर्थस्तत्त्वम् । एते वा सप्त पदार्थास्तत्त्वानि । ....."उपयोगो लक्षणम् ।२।८। उपयोगो लक्षणं जीवस्य भवति ।....."उक्ता जीवाः, अजीवान् वक्ष्यामः-अजीवकाया धर्माधर्माकाशपुद्गलाः ।५।३। धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायः पुगलास्तिकाय इत्यजीवकायाः। तान् लक्षणतः परस्ताद् वक्ष्यामः । 'काय'ग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थ च ।
द्रव्याणि जीवाश्च ।५।२। एते धर्मादयश्चत्वारः प्राणिनश्च पञ्च द्रव्याणि च भवन्ति । ......। अत्राह-उक्तं भवता 'धर्मा20 दीनस्तिकायान् परस्ताल्लक्षणतो वक्ष्यामः' इति, तत् किमेषां लक्षणमिति । अत्रोच्यते-गतिस्थित्युपग्रहो धर्माधर्मयो
रुपकारः।५।१७। गैतिमतां गतेः स्थितिमतां च स्थितेरुपग्रहो धर्माधर्मयोरुपकारो यथासङ्ख्यम् । उपग्रहो निमित्तमपेक्षाकारणं हेतुरित्यनर्थान्तरम् । उपकारः प्रयोजनं गुणोऽर्थ इत्यनर्थान्तरम् । आकाशस्यावगाहः ।५।१८। अवगाहिनां धर्माधर्मपुद्गलजीवानामवगाह आकाशस्योपकारः धर्माधर्मयोरन्तःप्रवेशसम्भवेन पुद्गलजीवानां संयोगविभागैश्चेति । शरीरवाङमनःप्राणापानाः पदलानाम् ।५।१९। पञ्चविधानि शरीराणि औदारिकादीनि वाग् मनःप्राणापानाविति पुद्गलानामुपकारः। तत्र शरीराणि 25 यथोक्तानि [२॥३७ ], प्राणापानौ च नामकर्मणि व्याख्यातौ [१२]।....... 'अत्राह-अथ कालस्योपकारः क इति ।
१ "प्रयोगगतिः जीवपरिणामसम्प्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसंस्थानविषया"-तत्त्वार्थ सिद्धसेनवृ० ५।२२ । २ दृश्यता टिपृ० ३ पं० १६। ३ अस्य व्याख्या-"जीवपुद्गलाः क्रियावन्तः, यत्र च गतिः तत्रावश्यतया स्थित्यापि भवितव्यम् । अथवा धर्मद्रव्यस्य सन्निहितत्वात् किमित्यव्याहता गतिरेव सततं न भवति ? अविकलकारणकलापसन्निधाववश्यंभाविनी कार्योत्पत्तिः। एवं स्थितिरपि वाच्या। इत्याक्षिप्ते गतिमतामित्याह । खत एव गतिपरिणतिर्येषां द्रव्याणां स्थितिपरिणतिश्च तेषामुपग्राहको धर्माधर्मावपेक्षाकारणमाकाशकालादिवत् , न निवर्तकं कारणम् । निर्वर्तकं हि तदेव जीवद्रव्यं पुद्गलद्रव्यं वा गतिस्थितिक्रियाविष्टम् , धर्माधौं पुनरुपग्राहकी अनुपघातको अनुग्राहकावित्यर्थः । स्वभावत एवं हि गतिस्थितिपरिणतानि द्रव्याणि तावुपगृह्णीतः । यथा च सरित्तडागहदसमुद्रेष्ववगाहित्वे सति मत्स्यस्य स्वयमेव सञ्जातजिगमिषस्योपग्राहकं जलं निमित्ततयोपकरोति दण्डादिवद् मृदः परिणामिन्याः, नभोवद् वा अपेक्षाकारणम् , हेतुरिति कारणसामान्यप्रतिपत्तिकारि........ न पुनस्तज्जलद्रव्यं गतेः कारणभावं बिभ्राणमगच्छन्तमपि झषं बलात् प्रेर्य गमयति । क्षितिर्वा स्वयमेव तिष्ठतो द्रव्यस्य स्थानभूयमापनीपद्यते, न पुनरतिष्ठद् द्रव्यं बलादवनिरवस्थापयति । व्योम वाऽवगाहमानस्य स्वत एव द्रव्यस्य हेतुतामुपैत्यवगाहं प्रति, न पुनरनवगाहमानमवगाहयति खावष्टम्भात् । स्वयमेव च कृषीवलानां कृष्यारम्भमनुतिष्ठतां वर्षमपेक्षाकारणं दृष्टम् , न च ननकुर्वतस्तांस्तदर्थमारम्भयद् वर्षवारि प्रमितम् ।......यदि तर्हि निमित्तकारणं धर्माधर्मो दण्डादिवदेवं सत्यपेक्षाकारणतैव हीयते, यतो निर्व्यापारमपेक्षाकारणमुच्यते, नैतदेवम् , अपेतयुक्तित्वात् , न हि निर्व्यापारं कारणम् , किं तर्हि ? कुर्वत् कारणम् । अपेक्षाकारणं चैतावतोच्यते धर्मादि द्रव्यगतक्रियापरिणाममपेक्षमाणं जीवादिगत्यादिक्रियापरिणतिं पुष्णाति । एवं तर्हि निमित्तापेक्षाकारणयोर्न कश्चिद् विशेषः, अस्ति विशेषः, दण्डादिषु प्रायोगिकी वैससिकी च क्रिया, धर्मादिषु वैससिक्येवेति ।"-तत्त्वार्थ सिद्धसेनवृ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org