________________
पृ०२५०६.]
टिप्पणानि । पृ० २ पं० ५. द्रव्यार्थादेशात् । द्रव्यार्थी द्रव्यास्तिकनयः, दृश्यतां पृ० ७ पं०८-११। द्रव्यार्थादेशाद् द्रव्यास्तिकनयव्यपदेशाद् द्रव्यास्तिकनयविवक्षयेति भावः। "इह ओघतः सप्त नया भवन्ति नैगमादयः। उक्तं च-'नैगमसहव्यवहारऋजुसूत्रशब्दसमभिरूडैवंभूता नयाः' [ तत्त्वार्थ. १३४] । एते च द्रव्यास्तिकपर्यायास्तिकलक्षणे नयद्वयेऽन्तर्भाव्यन्ते । द्रव्यमेव परमार्थतोऽस्ति न पर्याया इत्यभ्युपगमपरो द्रव्यास्तिकः । पर्याया एव वस्तुतः सन्ति न द्रव्यमित्यभ्युपगमपरः पर्यायास्तिकः । तत्राद्यास्त्रयो द्रव्यास्तिकाः, शेषास्तु पर्यायास्तिकाः ।" इति अनुयोगद्वारसूत्रस्य मलधारिहेमचन्द्रसूरिरचितायां । वृत्तौ सू० ७२ । विस्तरार्थिमिदृश्यतां तत्त्वार्थराजवा० १।३३। ' __पृ० २ पं० ५. एकपरमाणुः......... | "स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ।५।२३। 'स्पर्शः रसः गन्धः वर्णः' इत्येवंलक्षणाः पुद्गला भवन्ति । तत्र स्पर्शोऽष्टविधः-कठिनो मृदुर्गुरुर्लघुः शीत उष्णः स्निग्धः रूक्ष इति । रसः पञ्चविधःतिक्तः कटुः कषायः अम्लः मधुर इति । गन्धो द्विविधः-सुरभिरसुरभिश्च । वर्णः पञ्चविधः-कृष्णो नीलो लोहितः पीत: शुक्ल इति । .... सर्व एवैते स्पर्शादयः पुद्गलेष्वेव भवन्तीति । अतः पुद्गलास्तद्वन्तः । ...........त एते पुद्गलाः समासतो 10 द्विविधा भवन्ति, तद्यथा-अणवः स्कन्धाश्च ।५।२५।...तत्र अणवोऽबद्धाः, स्कन्धास्तु बद्धा एव ।"-तत्त्वार्थभा० ।
पृ० २ पं० ६. स्वाभाविकैः । “कथं पुनरेकस्य वस्तुनो युगपदनन्तधर्मात्मकत्वम् ? अनोच्यते-सर्वमेव वस्तु तावत् सपर्यायम् । ते च पर्याया द्विविधा रूपरसादयो युगपद्भाविनः, नवपुराणादयस्तु क्रमभाविनः । पुनः शब्दार्थपर्यायभेदात् सर्वेऽपि द्विविधाः। तत्र 'इन्द्रो दुश्यवनो हरिः' इत्यादिशब्दैर्येऽभिलप्यन्ते ते सर्वेऽपि शब्दपर्यायाः । ये त्वभिलपितुं न शक्यन्ते श्रुतज्ञानविषयत्वातिक्रान्ताः केवलादिज्ञानविषयास्तेऽर्थपर्यायाः। पुनरेते द्विविधाः स्वपर्यायाः परपर्यायाश्च । पुनस्तेऽपि 15 केचित् स्वाभाविकाः, केचित्तु पूर्वापरादिशब्दवत् आपेक्षिकाः । पुनरेतेऽपि अतीतानागतवर्तमानकालभेदात् त्रिविधा इत्यादिना प्रकारेण समयानुसारतः सुधिया वस्तुनो युगपदनन्तधर्मात्मकत्वं भावनीयम् ।"-विशेषाव. भा. मलधारिवृ० पृ. ८९४-५, का० २१८० । . पृ० २५० ६. पुरस्कृतैः पश्चात्कृतैश्च । 'पुरस्कृतैः' अनागतकालभाविभिः पश्चात्कृतैः' अतीतैरित्यर्थः । तुलना-“एगमेगस्स णं भंते ! नेरइयस्स केवइया वेदणासमुग्घाया अतीता? गोयमा ! अणंता । केवइया पुरेक्खडा? गोयमा! कस्सइ अस्थि 20 कस्सई नस्थि।" -प्रज्ञापनासू० ३६॥३३२, अत्र "पुरस्कृता अनागतकालभाविन इति तात्पर्यार्थः” इति व्याख्यातं सलयगिरिसूरिभिः । “जता गं उत्तरद्धे वासाणं पढमे समए पडिवजति तता गं जंबुद्दीवे दीवे मंदरस्स पब्वयस्स पुरच्छिमपञ्चस्थिमेणं अणंतरपुरक्खडकालसमयंसि वासाणं पढमे समए पडिवज्जइ. जया णं पञ्चत्थिमेणं वासाणं पढमे समए पडिवज्जइ तता णं जंबुद्दीवे दीवे मंदरस्स पन्वयस्स दाहिणेणं अणंतरपच्छाकडकालसमयसि वासाणं पढमे समए पडिवपणे भवति।"सूर्यप्रज्ञप्ति सू०२९ ।
___ पृ० २ पं० ६. द्वयणुकादिभिः सांयोगिकैः..... वैनसिकैः । अत्र सांयोगिकैः संयोगजन्यैः संघातजन्यैरित्यर्थः । “स्कन्धास्तावत् संघातभेदेभ्य उत्पद्यन्ते ।५।२६। संघाताद् भेदात् संघातभेदादिति एभ्यस्त्रिभ्यः कारणेभ्यः स्कन्धा उत्पद्यन्ते द्विप्रदेशादयः । तद्यथा-द्वयोः परमाण्वोः संघाताद् द्विप्रदेशः, द्विप्रदेशस्याणोश्च संघातात् त्रिप्रदेशः, एवं संख्येयानामसंख्येयानामनन्तानामनन्तानन्तानां च प्रदेशानां संघातात् तावत्प्रदेशाः । एषामेव भेदाद् द्विप्रदेशपर्यन्ताः । एत एव संघातभेदाभ्यामेकसामयिकाभ्यां द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते अन्यस्य संघातेन अन्यतो भेदेनेति ।"-तत्त्वार्थभा। 30
महास्कन्धपर्यन्तैर्वैनसिकैः । “खंधो वि वीससाए .॥ ३९४ ॥ स्कन्धः अचित्तमहास्कन्धः, सोऽपि 'वित्रसया केवलेन विस्त्रसापरिणामेन भवति, न तु जीवप्रयोगेण ।"-विशेषाव०भा०मलधारि७० । “बन्धस्त्रिविधः प्रयोग
25
विशेषणवती सम्मति-नयचक्रवाल-तत्त्वार्थान् । ज्योतिष्करण्ड-सिद्धप्राभृत-वसुदेवहिण्डींश्च ॥ ४२ ॥” इति जिनागमस्तवे जिनप्रभसूरयः । एतेषां ग्रन्थकाराणां समये मल्लवादिप्रणीतनयचक्रस्य अनुपलभ्यमानत्वात् केवलं सिंहसूरिगणिक्षमाश्रमणविरचितनयचक्रवृत्तेरेव उपलभ्यमानत्वाच्च 'एतैर्ग्रन्थकृद्भिः नयचक्र मनसिकृत्य नयचक्रवाल इत्यभिहितमाहोखिदू नयचक्रवृत्ति मनसि निधाय' इति तु सुधीभिः स्वयमेव विचारणीयम् । यदा तु मलवादिकृतं नयचक्रमुपलभ्यमानमासीत् तदानीन्तनेषु केषुचिदपि ग्रन्थेषु 'नयचक्रवाल'शब्दोल्लेखो नास्माभिः क्वचिदपि दृष्ट इत्यपि ध्येयम् ।
१ "बन्धनं बन्धः परस्पराश्लेषलक्षणः । प्रयोगो जीवव्यापारः, तेन घटितो बन्धः प्रायोगिकः औदारिकादिशरीरजतुकाष्टादिविषयः । विरसा स्वभावः । प्रयोगनिरपेक्षो विस्रसाबन्धः .... विधुदुल्काजलधराग्नीन्द्रधनुःप्रभृतिः विषमगुणविशेषपरिणतपरमाणुप्रभवः स्कन्धपरिणामः।"-तत्त्वार्थसिद्धसेनवृ०५।२४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org