________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [पृ० १५० १६इदं त्ववधेयम् -मल्लवादिविरचितमिदं नयचक्रशास्त्रं बहुतरमस्माभिः प्रयतितेऽपि न कुत्रचिदप्युपलब्धम् । न केवलं सम्प्रत्येव, अपि तु अतीतेषु सप्तसु वर्षशतेष्वपि ग्रन्थोऽयं लुप्तप्राय आसीदिति प्रतीयते । तथा चाभिहितं प्रभाचन्द्राचायः वैक्रमे १३३४ तमे वर्षे विरचिते प्रभावकचरिते मल्लवादिप्रबन्धे
"गुरुणा गच्छभारश्च योग्ये शिष्ये निवेशितः । मल्लवादिप्रभौ को हि स्वौचित्यं प्रविलङ्घयेत् ॥ ६८ ॥ नयचक्रमहाग्रन्थः शिष्याणां पुरतस्तदा । व्याख्यातः परवादीभकुम्भभेदनकेसरी ॥ ६९॥ श्रीपद्मचरितं नाम रामायणमुदाहरत् । चतुर्विंशतिरेतस्य सहस्रा ग्रन्थमानतः ॥ ७० ॥ तीर्थ प्रभाव्य वादीन्द्रान् शिष्यान् निष्पाद्य चामलान् । गुरुशिष्यौ गुरुप्रेमबन्धेनेवेयतुर्दिवम् ॥ ७१ ॥ बुद्धानन्दस्तदा मृत्वा विपक्षव्यन्तरोऽजनि । जिनशासनविद्वेषिप्रान्तकालमतेरसौ ॥ ७२ ॥
तेन प्राग्वैरतस्तस्य ग्रन्थद्वयमधिष्ठितम् । विद्यते पुस्तकस्थं तद् वाचितुं स न यच्छति” ॥ ७३॥ प्रभावकच ० । 10 एतदुल्लेखदर्शनात् प्रभाचन्द्राचार्यकालेऽपि अस्य नयचक्रग्रन्थस्य लुप्तप्रायत्वमनुमीयते । तथापि सिंहसुरिगणिवादि
क्षमाश्रमणैर्विरचिता न्यायागमानुसारिणी वृत्तिरस्य उपलभ्यते । अस्यां च वृत्तौ मूलनयचक्रग्रन्थस्य कानिचित् प्रतीकानि तत्र तत्र उपलभ्यन्ते, कियांश्चिदंशश्च अंतिदेशादिप्रसङ्गेषु निदर्शितोऽस्ति वृत्तौ । एतत् सर्वं यथायोग सन्धाय किञ्चिञ्च पूरयित्वा अन्यांश्च नानाविषयसम्बन्धिनो बहुतरान् ग्रन्थानवलोक्य इदं मूलं नयचक्रं स्वमत्यनुसारेण अस्माभिः संकल्पितमस्ति ।
अस्मत्कल्पनासहायक प्रमाणमपि बहुषु स्थानेषु तत्र तत्रोपदर्शितमस्माभिरुपदशयिष्यते च । 15 अतो 'व्याप्येकस्थम्' इत्याद्यस्मत्कल्पितमूलसंवादार्थ पृ० ६ ५० १८-१९ इत्यत्र द्रष्टव्यम् ।
__ पृ० १५० १६. न्यायागमानुसारिणी नयचक्रवालवृत्तिः। पूज्याः श्रीसिंहसूरिगणिवादिक्षमाश्रमणा वृत्तिमिमां विरचयामासुः । यद्यप्येभिः स्वविरचिताया अस्या वृत्तेः ['टीकायाः] विशेषतः किमपि नाम नामिहितं तथापि नवमारपरिसमाप्तौ "इति नियमभङ्गो नवमोऽरः श्रीमल्लवादिप्रणीतनयचक्रटीकायां न्यायागमानुसारिण्यां सिंहसूरिगणिवादिक्षमा
श्रमणदृब्धायां समाप्तः।" इत्युल्लेखदर्शनादस्माभिरत्र न्यायागमानुसारिणी' इत्यभिहितमिति ध्येयम् । 'नयचक्रवालवृत्तिः' 20 इति शब्दस्त नयचक्रटीकायां न क्वापि प्रयक्तः सिंहसरिगणिवादिक्षमाश्रमणैः, किन्तु अस्माभिः संशोधनार्थं संगृहीतास
नयचक्रवृत्तेर्हस्तलिखितासु सर्वासु प्रतिषु पत्राणां पार्श्वभागे [ In the margin] 'नयचक्रवालवृत्तिः' इति लेखो दृश्यते । अत उभयमपीदमनुसन्धाय 'न्यायागमानुसारिणी नयचक्रवालवृत्तिः' इत्यभिहितमत्रास्माभिरिति ध्येयम् ।
ध्ययनमासीत् । उक्तं च-'एक्केको य सयविहो सत्त नयसया हवंति एमेव' [आव०नि० गा० ७५९] । सप्तानां च नयशतानां संग्राहकाः पुनरपि विध्यादयो द्वादश नयाः यत्प्ररूपकमिदानीमपि द्वादशारं नयचक्रमस्ति ।” इति मलधारिहेमचन्द्रसूरिविरचितायाम् अनुयोगद्वारसूत्रवृत्तौ पृ० २६७ । “अधुना तु शास्त्रप्रयोजनमुच्यते-सत्वपि पूर्वाचार्यविरचितेषु सन्मति-नयावतारादिषु नयशास्त्रेषु अर्हत्प्रणीतनैगमादिप्रत्येकशतसंख्यप्रभेदात्मकसप्तशतारनयचक्राध्ययनानुसारिषु तस्मिंश्च आर्षे सप्तशतारनयचक्राध्ययने च सत्यपि द्वादशारनयचक्रोद्धरणं विस्तरग्रन्थभीरून् संक्षेपाभिवाञ्छिनः शिक्षकजनाननुग्रहीतुं 'कथं नामाल्पीयसा कालेन नयचक्रमधीयेरन् इमे सम्यग्दृष्टयः' इत्यनयानुकम्पया संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशास्त्रं श्रीमच्छ्रेतपटमल्लवादिक्षमाश्रमणेन विहितं स्वनीतिपराक्रमविजिताशेषप्रतिवादिविजिगीषुचक्रविजयिना।" इति वक्ष्यते नयचक्रवृत्तौ ग्रन्थान्ते।
१ "वेदानलर्शि खिशशधरवर्षे चैत्रस्य धवलसप्तम्याम् । शुक्रे पुनर्वसुदिने सम्पूर्ण पूर्वऋषिचरितम् ॥ २२॥"-प्रभावकच०॥ २बुद्धानन्दो नाम बौद्धवादी, स च वादे पराजितो मल्लवादिना । "श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धास्तद्वयन्तरांश्चापि ॥ ८३॥” इति प्रभावकचरिते विजयसिंहसूरिप्रबन्धे । ३ दृश्यतां पृ० २७ पं०७-१०, पृ. ३२ पं० ९-१६ इत्यादि । ४ वृत्तिः टीका चेत्येकोऽर्थ इति ध्येयम्। ५ बौद्धाचार्यमैत्रेयप्रणीतस्य असङ्गव्याख्यातस्य वसुबन्धुविरचितभाष्यसहितस्य मध्यान्तविभागस्य स्थिरमतिविरचिता टीका 'आगमानुसारिणी' इति नाम्ना प्रसिद्धा इति ध्येयम् । ६ “३६०. नयवक्रवालवृत्तिर्मल्लवादीयद्वादशारनयचक्रतुम्बसूत्रव्याख्यारूपा ससूत्रा १८००० ।" इति बृहटिपनिकायां पृ० १० । इदं तु ध्येयम्-यदा मल्लवादिप्रणीतो नयचक्रग्रन्थो लुप्तप्रायः केवलं सिंहसरिगणिविरचिता वृत्तिरेवोपलभ्यमाना आसीत तदा संजातैर्गुणरत्नसूरिप्रभृतिभिः 'नयचक्रवाल'शब्दः प्रयुक्तोऽस्ति, तथाहि-"श्वेताम्बराणां सम्मतिः नयचक्रवालः स्याद्वादरत्नाकरः रत्नाकरावतारिका तत्त्वार्थः प्रमाणवार्तिकम्..... इत्येवमादयः ।" इति षड्दर्शनसमुच्चयस्य बृहद्वत्तौ गुणरत्नसूरयः । “
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org