________________
SWADIDIORNOONORMALAQAORMODIOMODA Risoiscisciscitis isosolscidis
अर्हम्
॥ णमो त्थु णं समणस्स भगवओ महावीरस्स ॥
॥ नमः श्रीअन्तरिक्षपार्श्वनाथाय ॥ न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य
नयचक्रस्य टिप्पणानि
सिद्धचक्रं नमस्कृत्य हृदये प्रणिधाय च।
नयचक्रमहाशास्त्रे टिप्पणं क्रियते मया ॥ पृ० १५० १२. भगवन्तः श्रीमल्लवादिक्षमाश्रमणपूज्यपादाः 'विधिनियमभङ्गवृत्ती'त्यादि [पृ० ९ पं० ६] .. वक्ष्यमाणैककारिकामानं गाथासूत्रं व्याचिख्यासवो यं ग्रन्थं विरचयामासुः स सर्वोऽपि मल्लवादिप्रणीतो ग्रन्थो विधिनियम-10 भनवृत्ती'त्यादिकारिकया सहितो नयचक्रनाम्ना प्रसिद्धः । 'अर'संज्ञकद्वादशप्रकरणविभक्तत्वात् प्राचीनसप्तशतारनयचक्रग्रन्थव्यावृत्त्यर्थ चायं मल्लवादिप्रणीतो ग्रन्थो 'द्वादशारनयचक्र'नाम्नापि क्वचिद् व्यपदिश्यते, तथापि प्रामुख्येन प्राचुर्येण च नेयचक्रनाम्नैवास्य शास्त्रेषु प्रसिद्धिः । मल्लवादिनापि 'नयचक्राख्यम् [पृ० ९ ६० ४] इत्यभिहितत्वात् स्वयं ग्रन्थकृतोऽपि 'नयचक्रम्' इत्येव नामाभिमतं प्रतीयते।नयचक्रवृत्तिकृतापि प्रायः सर्वत्र 'नयचक्रम्' इत्येव नाम निर्दिष्टम् । अतोऽस्माभिरपि तदेव स्वीकृतम्।
15
१ पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टशिष्याचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यमुनिराजश्रीभुवनविजयान्तेवासिना मुनिजम्बूविजयेन ।
इदं पुनर्येयम्-न्यायागमानुसारिणीवृत्त्यलते नयचके वृत्तेरधस्तनभागेऽपि बहूनि टिप्पणानि बहुषु स्थलेषु तत्र तत्र योजितानि मया । इमानि तु टिपणानि सप्तमार[ पृ. ५५२] पर्यन्तं नयचक्रस्य मुद्रणानन्तरं मया समारब्धानि पृथग् मुद्रयित्वा च नयचक्रग्रन्थेनैव सह संयोजितानि । अतो यत्र कस्यचिदपि ग्रन्थस्य नामनिर्देशं विना 'पृ० पं० टि.' इत्यभिहितं भवेत् तत्र नयचक्रग्रन्थस्यैव यथाक्रम 'पृष्ठं' 'पंक्तिः' 'टिप्पणं' वा वेदितव्यम् , यत्र तु 'टिपृ. पं० टि.' इत्यभिहितं भवेत् तत्र पृथग मुद्रयित्वा नयचक्रग्रन्थेन सह संयोजितानामेतेषां 'टिप्पणानां पृष्ठं' 'पंक्तिः' 'टिप्पणं' वा यथायोगं वेदितव्यम् । यत्र तु 'पृ०' इत्यस्य पुरस्तात् स्थूलाक्षरैः पृष्ठाको निर्दिष्टः तत्र मुद्रितनयचक्रग्रन्थे पार्श्वभागे [ In the margin ] निर्दिष्टो हस्तलिखिताया 'भा०'प्रतेः पृष्ठाको ज्ञेयः ।
२ "तथाहि पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतानि विहितानि यत्प्रतिबद्धं सप्तशतारं नयचक्राध्ययनमासीत् । तत्संग्राहिणः पुनादश विध्यादयो यत्प्रतिपादकमिदानीमपि नयचक्रमास्ते।"- इति वादिवेतालशान्तिसूरिकृतायाम् उत्तराध्ययनसूत्रबृहद्वृत्तौ पृ. ६८ । “तथाहि-पूर्वविद्भिः सकलनयसंग्राहीणि सप्त नयशतान्युक्तानि यत्प्रतिपादकं सप्तशतारं नयचक्रा
नय० टि. १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org