________________
३२७
ईश्वरसाधनम्]
द्वादशारं नयचक्रम् रोहणादिसमर्थं तथा भवत् पृथिव्युदकादि व्रीहिर्जायते भवति च भवति । सत्त्वतमःप्रकाशनियमप्रवृत्तिसत्त्वेऽपि प्रवर्तयितृत्वाद् रजोभवनवद्वा । दृष्टान्तबाहुल्यप्रदर्शनं प्रतिसिद्धान्तपरिदृष्टादृष्टादेः प्रवर्तयितृत्वख्यापनार्थम् ।
कर्षणादिक्रियाः कुर्वन् देवदत्तः पचति इत्युच्यते, इत्यादि प्रतिकारकं स्वातन्त्र्ये सत्यपि उपक्रमप्रभृत्यपवर्गपर्यवसानासु क्रियासु तस्यैव स्वातव्यात् सम्भवनादिप्रत्यक्षतायामपि पचनशक्तिमतामप्यधिकरणादीनां देव-5 दत्तस्य प्रवर्तयितृत्वादेवोच्यते 'देवदत्त एव पचति' इति, नान्यानि अनीश्वरत्वात् । तां मुख्यां कर्तृशक्तिं दर्शयति-तेन पच्यते तृतीयया कर्तरि विहितया स पंचतीति वा प्रथमया तत्र विहिततिप्प्रत्ययसमानाधिकरणतया । पुनरपि स्फुटीकरणार्थमाह-* तेन पचनं क्रियत इति यावदुक्तं भवति [तावदुक्तं भवति] 'तेन पच्यते स पचति' इति । कुतः ? प्रयोजनमात्रार्थत्वात् क्रियायाः, प्रयोजनं परव्यापारणम् , विक्लेदव्यापारणार्थाः सम्भवनज्वलनादिक्रियाः, तासां च सर्वासां देवदत्तायत्तत्वात् स पचति तेन 10 पच्यत इत्युक्तम् ।
दृष्टान्तान्तरमाह स्फुटीकरणा)* व्यापित्वप्रदर्शनार्थं च - साक्षाद्वा भवितृवत् । तद्वर्णनम् - यथा च सम्भवनेत्यादि यावद् भवति च भवति, न केवलं पचत्यादिबाह्यक्रियाविषयमेव प्रयोज्यत्वंम् , किं तर्हि ? व्रीह्यादिभवनाद्यन्तःक्रियाविषयमपि प्रयोजनम् । तथा भवत् पृथिव्युदकादि बाह्यं व्रीहिर्जायते भवतीत्यन्तर्भवनम् । सम्भवनधारणसमर्था पृथिवी, रोहणसमर्थमुदकम् , आदिग्रहणाद् वर्द्धनसमर्था 15 वायुकालादयः, तैः कारितस्य व्रीहिमवनस्य प्रत्यक्षतायामपि सत्यां व्रीहिर्जायते भवति अन्तःसन्निविष्टस्वातत्र्यात् तस्यैवेश्वरस्य प्रयोजकत्वादुच्यते-भवति च भवतीति, भवनमपि भवदेव भवतीति स्वरूपमात्र-२३५-१ लाभोऽपि तद्वशादित्यर्थः ।
अथवा प्रस्तुतप्रधानकारणवादिसिद्धमेवेदं निदर्शनम् -सत्त्वतमःप्रकाशेत्यादि यावद् रजोभवनवद्वा । यथासङ्ख्यं सत्त्वस्य प्रकाशप्रवृत्तिस्तमसो नियमप्रवृत्तिश्चास्त्येवेत्युक्तं सत्त्वं शब्दात्मना 20 प्रवर्तमानमित्यादिपरस्परोपकारवीते, प्रकाशादिलक्षणस्य सत्त्वस्य प्रवृत्तिर्गुरुवरणलक्षणस्य तमसश्च प्रवृत्तियथासङ्घयम् ‘इतरयोः ख्यापयति व्यवस्थापयति' इति वचनात् । रजस्तु प्रवृत्तिलक्षणमेव प्रवर्तकमिष्टं विशेषतः, सत्यपि प्रवृत्तिसामान्ये 'करोति प्रवर्तयति' इति वचनात् । तथा अदृष्टाण्वादिभूतकालादिप्रवर्तमानसामान्येऽपीश्वर एव प्रवर्तयितृत्वात् कारणमिति । दृष्टान्तबाहुल्यं प्रदर्शनं प्रतिसिद्धान्तपरिदृष्टादृष्टादेः प्रवर्तयितृत्वख्यापनार्थम् , सिद्धान्तं सिद्धान्तं प्रति प्रतिसिद्धान्तं तेषु तेषु वैशेषिकादि-25 सिद्धान्तेषु कल्पितानां परितोऽनुमानैदृष्टानामप्यदृष्टाणुप्रधानविष्ण्वादीनां प्रवर्तयिता ईश्वर इति दान्तिकोपनयनात् ।
१नान्यनीश्वर भा० । नान्यमीश्वर य०॥ २ पचतीवा भा० । पचतीव य० ॥ ३ * * एतच्चिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ४ त्वां भा० । त्वात य० ॥ ५ वननाद्य डे. ली. विना ॥ ६वर्तन य० ॥ ७ नद्वा भा० । नाद्वा य० ॥ ८°श्चारवेत्युक्तं यः । श्चरेवेत्युक्तं भा० ॥ ९ दृश्यतां पृ० ३१८ पं०८ ॥ १० ल्यमप्रद भा० । ल्यमथद य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org