________________
३२६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे धर्माधर्माण्वादीनामपि च तन्त्वंश्वादिवत् पूर्वपूर्वशक्ततारतम्येन सन्निहिततद्विधशक्तिः प्रतिविशिष्टबुद्धिः स्वतन्त्रोऽभिप्रायप्रवृत्त्यापत्तेः प्रवर्तयितृत्वात् कारणम् , शक्तिमत्प्रवृत्तिनिवृत्तिविनियोगेषु वातव्यात्, अधिकृतपक्तृवत् । सम्भवनधारणज्वलनविक्लेदनव्यापारेषु स्थालीकाष्ठतण्डुलादीनां प्रवृत्तिनिवृत्तिविनियोगेषु 5 स्वातन्त्र्यादुच्यते- 'देवदत्त एव पचति, तेन पच्यते, स पचति, तेन पचनं क्रियते', प्रयोजनमात्रार्थत्वात् क्रियायाः। साक्षाद्वा भवितवत्, यथा च सम्भवनधारण
च्यते - 'धर्माधर्माणवादीनामपि च तन्त्वंश्वादिवदित्यादि यावत् प्रतिविशिष्टबुद्धिः। यथा पटस्तन्तुपूर्वकः, तन्तवोंऽशुपूर्वकाः, अंशवस्तुटिपूर्वकाः, तुटीनामपि प्रवर्तने शक्तास्ततः पूर्वे पूर्व यावच्छताणुकः,
ततोऽपि पूर्वे पूर्वे यावद् द्वथणुकः परमाणुरित्यनुमीयते शब्दादितो यावत् प्रधानम् , तथा अण्यादीनामप्यचेत10 नानां प्रवर्तकौ धर्माधर्मी । आदिग्रहणात् काल-स्वभाव-नियत्यादिवाद्यन्तरपरिकल्पिताः । एवं पूर्वपूर्वशक्ततारतम्येन ईश्वरः सन्निहिततेद्विधशक्तिः धर्माधर्माण्वादिप्रधानशब्दादेस्तथा तथा तथा विनिवेशने सन्निहिता यस्य शक्तिः सोऽस्ति । कात्र तद्विधविनिवेशनशक्तिर्मुख्या तस्येति चेत् , उच्यते । प्रतिविशिष्टा बुद्धिः, अतोऽसौ प्रतिविशिष्टबुद्धिर्विशिष्टबुद्धिभ्योऽपि स्थपतिकुलालादिभ्यः, प्रतिकर्तृ विनिवेशनप्रवृत्तिनिवृत्तिविनियोजनेषु ज्ञत्वात् स्वातश्याच तेषां भावानामीष्टे, न ते तस्येशते नाप्यात्मनः न च परस्परम् , अज्ञास्वतन्त्र15 त्वाभ्याम् । स तु प्रतिविशिष्टबुद्धित्वात् स्वतन्त्रः, तस्याभिप्रायेणैव प्रवृत्तिमापद्यन्ते धर्माधर्माण्वादयः । सोऽपि
चाभिप्रायप्रवृत्त्यापत्तेर्न सन्निधिमात्रवृत्तिः, अतस्तेषां प्रवर्तयिता, प्रवर्तयितृत्वात् कारणं शक्तिमत् स एव, तेषां शक्तिमतामपि भाव्यत्वेनास्वातत्र्यात् तस्यैव तत्प्रवृत्तिनिवृत्तिविनियोगेषु स्वातन्त्र्यात् जगत्सर्गस्थित्यन्तरालप्रलयमहाप्रलयेषु, प्रवर्तनं प्रागौदासीन्येन स्थितानां धर्मादीनां सृष्टेः प्रवर्तनम् , प्रवृत्तानां पुनरुपसंहाराद् निवर्तनम् , विनियोगो दैव-मानुष-तैर्यग्योन-सरित्-समुद्रादि-तनु-करणाद्यवयवविभागविन्यासः, 20 विष्णुमन्वादीनामधिकृतपुरुषाणामपि इहत्यपरमेश्वराभिप्रायानुरोधेन प्रवर्तमानाधिकृतराजस्थानीयादिपुरुषाणामिव तस्यैव प्रवर्तयितृत्वात् । अंतस्तत्साधर्म्यप्रदर्शनार्थमाह - अधिकृतपक्तृवत् । तद्व्याख्यानार्थम् - सम्भवनधारणेत्यादि यावत् प्रयोजनमात्रार्थत्वात् क्रियाया इति । यथा हि राज्ञा नियुक्तः सूपकारः स्थालीकाष्ठतण्डुलादीनां सम्भवनधारणज्वलनविक्लेदनव्यापारेषु प्रवृत्तिनिवृत्तिविनियोगेषु स्वातत्र्यात्
तत्तदात्मा भवति तथेश्वर इति । अथवा कर्तृकर्मकरणाधिकरणसम्प्रदानापादानानि प्रतिकारकं पचादीनां २३४-२ क्रियाभेदाद् यथास्वशक्ति स्वातत्र्यात् कर्तृणि, यथा अधिकरणं स्थाली निदर्शनमात्रे सँम्भवनधारणे कुर्वती 'पचति' इत्युच्यते, ज्वलनं कुर्वन्ति काष्ठानि 'पचन्ति' इत्युच्यते, अधिश्रयणोदकासेचनतण्डुलावपनधोऽप
१ दृश्यतां पृ० २४३-१ ॥ २ धर्माण्वा प्र० ॥ ३°यन्ने(यन्ते ?)भा० ॥ ४ पूर्वपूर्वपूर्व' भा० । दृश्यतां पृ० ३२९ टि० ५॥ ५ तद्विविध भा० । दृश्यतां पृ० २४३-१॥ ६ काश तद्विध प्र०॥ ७ कारण प्र०॥ ८ मत्ा भा० । अत्र 'कारणं शक्तिमतां स एव' इत्यपि पाठः स्यात् ॥ ९ नात्सरित् प्र०॥ १० इत प्र० । अत्र इत्यत इत्यपि पाठः स्यात् ॥ ११ °मात्रत्वात् प्र० । दृश्यतां पृ० ३२७ पं० ९॥ १२ ज्वा प्र०॥ १३ प्रवृत्तिविनियों प्र०॥ १४ दृश्यतां पृ० १९४ दि० १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org