________________
ईश्वरवादिना सालयमतखण्डनम्] द्वादशारं नयचक्रम्
३२५ यद्यपि चापत्तिभवननिरूपणं 'प्रधानमेव भवति महदादिविकारापत्त्या, तेन किल भूयत इति तदपि न, तस्यापि भाव्यमानत्वाद् भावयितारमन्तरेणानुपपत्तेः अनापन्नस्य च असत्त्वात् , अवतन्त्रत्वात् , शब्दादिवत् ।
भवति कर्ता यः स्वतन्त्रः, प्रवर्तनवृत्तत्वात् , तथाभवनवृत्तत्वात् तन्तुपटवत् ।
एवं तावत् सन्निधिभवनं नास्येव निरूपणानुपपत्तेः । आपत्तिभवनमपि नास्ति, कथमिति चेत् , 5 यदपि चापत्तिभवननिरूपणं साङ्ख्यैः क्रियत इति वाक्यशेषः । प्रधानमेव भवति महदादिविकारापत्त्या, यस्मात् तेन किल भूयत इति, 'इति'शब्दहेत्वर्थत्वाद् महदादिभावमापद्यत इत्यस्मात् कारणात् प्रधानमेव भवति, तेनैव भूयते सत्त्वादिमयत्वाद् विश्वस्येति । किलशब्दः क्षेपे, एवं किल तेषां मतमिति, स च क्षेपोऽनुपपद्यमानत्वात् । कथमिति चेत्, उच्यते - तदपि न, तस्यापि भाव्यमानत्वाद् भावयितारमन्तरेण भाव्यत्वानुपपपत्तेः, स्वत ऐव न भवतीत्यर्थः । भाव्यमानत्वं च वक्ष्यमाणोपपत्तिक- 10 त्वात् सिद्धम् । तच्चेद् व्यापृतं द्वितीयेन व्यापृततरेण विना न प्रवर्तितुमर्हति, अनापन्नत्वात् , अनापनस्य च सन्निधिमात्रस्योपादितासत्त्वात् । तस्मादनापन्नस्य च स्वत एवापत्त्यभावात्तदुक्तापत्तिभवनं नोपपद्यत इति । किं कारणमनुपपन्नमिति चेत्, अस्वतन्त्रत्वात् , अन्यतनं हि तत् प्रधानाख्यमचेतनत्वात् । को दृष्टान्तः ? शब्दादिवत् , यथा शब्दादयः सत्त्वरजस्तमोमयत्वादस्वतन्त्रास्तदात्मकेन प्रधानेन भाव्यन्तेऽन्येन व्यापृता अपि व्यापारयित्रा तथा प्रधानमपि ।
15 तस्मात् ततोऽन्यो भवति मुख्यः । कोऽसौ ? यः कर्ता । कः कर्ता ? अत आह - यः स्वतन्त्रः । २३३-२ कस्मात् ? प्रवर्तनवृत्तत्वात् , प्रवर्तयतः क्रिया प्रवर्तनम् , तेन प्रवर्तनेन वृत्तत्वात् प्रवर्तयितृत्वेन वृत्तत्वादित्यर्थः । प्रवर्तयद्धि कारणं तद्भावमापद्यते, शब्दादि यथा प्रवर्तयत् सत्त्वरजस्तमोलक्षणं कारणं शब्दादिभावमापद्यते त्वन्मतेन । तथाभवनवृत्तत्वात् , तेन प्रवर्त्यमानरूपेण भवनम् , तेन वृत्तत्वात् प्रवर्तयितारमन्तरेणाभवनादवृत्तत्वात् , तन्तुपटवत् , यथा तन्तवः पटं प्रवर्तयन्तः पटस्य कारणमित्युच्यन्ते पटश्च 20 तन्तुकार्य तैः प्रवर्त्यत्वात् । नन्वेते प्रधानशब्दादिपटादिदृष्टान्ता अद्वैतवादं समर्थयन्तीति, उच्यते - प्रवर्तयितृत्वमात्रसाधर्म्यात् तदभ्युपगम्य भेदेन निदर्यते, अन्यथा पुरुषादिवद्वैताभ्युपगमे विध्युभयैकान्तोत्थानाभावात् । भाव्यभावकभेदप्रसिद्धेश्च अभावितस्यासत्त्वाद् वन्ध्यापुत्रवदणुधर्मादयोऽपि भाव्यमाना एव स्युरित्येतत्साधाद् दृष्टान्ताः शब्दादयः ।
यद्येवं प्रस्तुतं धर्माधर्मावणवो वा कारणमस्येवेति सिद्धत्वात् किमनुमितेन कारणेन इति चेत्, नेत्यु-25
१ भावनापद्यत भा० । भावना इत्यादि भावनापद्यत य० ॥ २ एव भव प्र०॥ ३ व्यावृत्तं प्र०॥ ४ व्यावृत भा० । व्यावृत्त य० ॥ ५ स्यपादिप्र०॥ ६°वात्त्वदुक्ता इत्यपि पाठोऽत्र स्यात् ॥ ७ अभ्य( अख?)तन्त्रं प्र०॥ ८ तथा प्र.॥ ९त्वास्वत प्र०॥ १० व्यावृता प्र०॥ ११ दृश्यतां पृ० २४३-१॥ १२ प्रवृत्तत्वात् य० ॥ १३ °ादष्टान्ताः भा०। यंदृष्टान्ताः य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org