________________
३२४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे - अन्यः पुनराह-न सर्वसर्वात्मकत्वपरिग्रहो न्याय्यः, अन्यथा भवनद्वैतपरिग्रहाद् विध्युभयनयैकान्तोपपत्तेः । सन्निधिन हि सन्निधिमात्रवृत्तिरस्ति अनापन्नत्वादनाविभूतत्वादप्रवृत्तत्वादनियतत्वात् । अनापन्नत्वादिभ्यो नास्ति वन्ध्यापुत्रवत् सन्निधिः, पद्यतिवर्तत्यर्थप्रवृत्तत्वादेव सत्तायाः । न हि द्रव्यादिसतेंदवत् 5 पद्यतिवर्तत्योः सत्ताविशेषत्वेन उपादानम् , 'सत्तार्थाः[ ] इत्यविशेषेण वचनात् ।
10
तानामतथार्थत्वमुक्तविधिना प्रतिपादितम् , एकत्वं पुरुषवदपरिणामित्वं च सुखादीनाम् । तत एकत्वात् पुरुषवदपरिणामित्वादतथार्थत्वं चेति । तस्मादतथार्थत्वादनुमानाभासत्वादेतेऽर्था नोपपन्नाः, तद्यथाभिन्नगुणत्वं* वैषम्यात्मकत्वं विपरिणामः पुनः साम्यापत्तिश्चेति । तदनुपपत्तेर्जगत्सर्गसंहारकल्पना निर्मूला
प्रधानाभावात् । तन्निर्मूलत्वात् पुरुषार्थेन हेतुना प्रयुक्ता प्रवृत्तिरित्येतदपि वितथम् , तद्वितथत्वात् तद्विषयः २३२-२प्रत्ययोऽप्यज्ञानमेव, तदज्ञानत्वात् ज्ञानप्राप्यपुरुषार्थाभावोऽपीति समस्ततन्त्रार्थविघटनमेवेति किमवशिष्यते
वार्षगणे तत्रे ? सुभाषिताभिमतस्त्याज्योऽयमनुपपन्नपरोक्षार्थवादः । यद्युपपद्येत परोक्षार्थमपि तं गृह्णीयाम, न तूपपन्नः । तस्मात् सर्वसर्वात्मकत्वपरिग्रह एव न्याय्यः । .
___ अन्यः पुनरित्यादि । न सर्वसर्वात्मकत्वपरिग्रहो न्याय्यः, अन्यथा भवनद्वैतपरिग्रहाद् विध्युभयनयैकान्तोपपत्तेः । तत्र 'भवति भावद्वैतम् , भवतो भावस्य भाव्यभवितृत्वाभ्यां भेदाभ्यां 15 भावोपपत्तिः' इत्येतत् प्रतिपादयिष्यते । न त्वेवं यथानन्तरदूषितं सन्निध्यापत्तिभवनद्वैतम् । तत्र तावद्
यः सन्निधिर्न हि स सन्निधिमात्रवृत्तिरस्ति, कुतः ? अनापन्नत्वात् , आपत्तिरनाविर्भूतस्याविर्भावः, तत आह-अनाविर्भूतत्वात् , अनाविर्भवनमप्रवर्तनम् , अप्रवर्तनं चानियमः । अथवा आपत्तिर्विपरिणामो भावान्तरेणोपलब्धिः, आविर्भावो व्यक्तिः, प्रवृत्तिः सन्ततः परिणामप्रबन्धः, नियतस्वरूपत्वमविगतद्रव्यार्थ
भावस्थितिः, एभ्यो विपर्ययोऽनापन्नत्वादिः, तेभ्यो हेतुभ्योऽनापन्नत्वादिस्वरूपेभ्यो नास्ति वन्ध्यापुत्रवत् 20 सन्निधिः । आदिग्रहणादप्रवृत्तेरव्यक्तरनियतेरित्यादिभ्यः । अतः सन्निधेरसत्पर्यायत्वात् सन्निधिभवना
भावः । ननूक्तम् – अस्तिभवत्यादिषु अस्ति-वर्तती सन्निधिवाचिनौ, भवति-विद्यती सामान्यभवनवाचिनौ, पद्यतिरापत्तिभवनवाची [ ] इति, सत्यमुक्तम् , अयुक्तं तूक्तम् , अस्त्यादीनां सन्निपातषष्ठानां सत्तार्थवाचित्वात् सर्वेऽप्यमी सत्तार्थमेवाविशेषेण ब्रुवते । सा च सत्ता पद्यति-वर्तत्येकाँथैवेत्यत आह -पद्यति-वर्तत्यर्थप्रवृत्तत्वादेव सत्तायाः । स्यान्मतम् - सद्विशेषद्रव्य-गुण-कर्मवद् 25 वर्ततिपद्यत्योरुपादानं सत्ताविशेषत्वेनेति । एतच्चायुक्तम् , यस्माद् न हि द्रव्यादिस देत्यादि यावदुपादानमिति गतार्थम् । किं तथुपादानम् ? उच्यते- अस्त्यादितुल्यार्थत्वेन । कुतो ज्ञायते इति चेत्, सत्तार्था इत्यविशेषेण वचनात् , अस्ति-भवति विद्यति-पद्यति वर्ततयः सन्निपातषष्ठाः सत्तार्थाः [ ] इत्यविशेषेणोक्तत्वात् सिद्धसेनसूरिणा ।
१* * एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ २ "पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् [ साङ्ख्यका० ३१॥ पुरुषार्थः कर्तव्य इति गुणाना प्रवृत्तिः।"-जे० साङ्ख्यका० ७० B॥३ सर्वासर्वात्मप्र०॥ ४ भव्यभवत भा०॥ ५ त्वैवं प्र०॥ ६ दृश्यतां पृ० २६१ पं०१८ । पूर्ववर्णनादत्र भेदो दृश्यते इत्यपि ध्येयम् ॥ ७°कार्थे चेत्यत प्र०॥ ८ दृश्यतां पृ० ३४ पं० २१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org