________________
आवीत हेतुभिः प्रधानास्तित्वसाधनम् ] द्वादशारं नयचक्रम्
३२३
पुनरसत्समन्वयाशङ्कां निरस्य प्रपश्वेन यावत् तस्माद् युक्तमेतत् - योन्यभावाद् भेदप्रसङ्ग इति । एषोऽन्वयवीतस्यावीतः प्रसङ्गो व्याख्यातः । आचार्येणापि तथैव व्यवस्था - तुल्यजातिसमन्वयादीत्युक्तं तेनैव क्रमेण आदिग्रहणात् त्रयः शेषा अध्यावीताः सूचिताः ।
1
तत्र कार्यकारणवीतस्य आवीतस्तावत् - किञ्चान्यत्, कार्यकारणयोश्च व्यक्तमिदं द्विधा कृत्वा कार्यराशिं कारणराशिं च कृत्वा न असत उत्पत्तिः 'सम्भवति' इति वाक्यशेषः, क्रमयौगपद्य-5 प्रवृत्त्यसम्भवात् । परस्परार्थात्मलाभत्वात् कार्यकारणयोरन्योन्यानुरूपात्मलाभाभावः । अतः क्रमेण प्रवृत्त्यभावैश्चक्राक्षवत् असत्त्वादसद्वादिनः । तथा युगपदध्यभूतविनष्टयोरनपेक्षत्वात् खरविषाणवत् क्रियादिमध्यावसानेषु असत्त्वादेव प्रवृत्त्यसम्भवः । यदारभ्यते तत् क्रियते निष्ठां च गच्छतीति लोके दृष्टम्, तत् परस्परापेक्षामन्तरेण न सम्भवति चक्राक्षवदित्युक्तम् । तस्मात् क्रमयौगपद्यप्रवृत्त्यसम्भवा - २३२-१ दकार्यकारणत्वप्रसङ्गः । कार्यकारणभूतं चैतद् व्यक्तम् । तस्मान्नेदमसत उत्पद्यते । परिशेषतः प्रधाना- 10 देवेदमिति कार्यकारणवीतस्यावीतः । किचान्यत्, निर्बीजमकस्मादुत्पद्यमानं व्यक्तमनेकदेशत्वाद् भेदानामसम्बद्धमुत्पद्येत, सम्बद्धं चोत्पद्यते, तस्मान्नेदमसत इति शक्तिवीतस्य आवीतः । शेषस्तु प्रसक्तानुप्रसक्तविचारेण 'संस्थानमा दिमद्धर्ममात्रं शब्दादीनां विनाश्यविनाशिनाम्, एवं लिङ्गैमादिमद्धर्ममात्रं सत्त्वादीनां विनाश्यविनाशिनाम्, तस्मिन् विकारसंज्ञा [ ], तत्र यदुक्तं 'विकारस्य विनाशित्वात् प्रधानस्य विनाशित्वम्' इति एतदयुक्तम्, गुणव्यतिरिक्तगुणप्रवृत्तिकारणाभावादाकस्मिक्या: 15 प्रवृत्तेरभावाच्चेर्त्यांदिभिः प्रत्यभिज्ञानार्थक्रिया हेतुकार्यनियमादिभिश्च हेतुभिरत्यन्तासदुत्पत्तिविनाशप्रतिषेधार्थः सर्वो ग्रन्थ वैश्वरूयाविभागगतिवीतस्यावीतो द्रष्टव्य इति । एवमेषां प्रधानास्तित्वैक्यादिसाधनार्थं वीतानां तत्सद्भावस्य अन्यथा व्यक्तासम्भवस्य वा दर्शनेन ज्यात्मकयोनिहेतुत्वमवश्यमित्येतदवधारणार्थानां चावी
१ किंचाऽनसत य० । किंचानसत भा० ॥ २० ॥ ३ शेषस्तु सर्वो ग्रन्थो वैश्वरूप्याविभागगतिवीतस्यावीतो द्रष्टव्य इति वक्ष्यमाणेन अन्वयः ॥ ४ " यथा - संस्थानमादिमद्धर्ममात्रं शब्दादीनां विनाश्यविनाशिनाम्, एवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिनाम् । तस्मिन् विकारसंज्ञेति ।" इति पातञ्जलयोगदर्शनस्य व्यासप्रणीते भाष्ये ३।१३ । इदं च वाक्यं व्यासभाष्येऽपि कुतश्चिदन्यग्रन्थादुद्धृतमिव प्रतिभाति । अस्य वाचस्पतिमिश्रप्रणीता व्याख्या -' - " विमर्दवैचित्र्यमेव विकारवैचित्र्ये हेतुं प्रकृतौ विकृतौ च दर्शयति - यथेति । संस्थानं पृथिव्यादिपरिणामलक्षणं आदिमद् धर्ममात्रं विनाशि तिरोभाव शब्दादीनां शब्दस्पर्शरूपरसगन्धतन्मात्राणां स्वकार्यमपेक्ष्य अविनाशिनाम् अतिरोभाविनाम् । प्रकृतौ दर्शयति – एवं लिङ्गमिति । तस्मिन् विकारसञ्ज्ञा । न त्वेवं विकारवती चितिशक्तिरिति भावः । - तत्त्ववै० । विज्ञानभिक्षुविरचितायां योगवार्तिकाख्यायां व्याख्यायां त्वित्थम् - "गुणिनित्यत्वेऽपि गुणानां विमर्दमुदाहरति - यथेति । यथेति न दृष्टान्ते, किन्तूदाहरणे, संस्थानमिति, अर्थविनाशेनाविनाशिनां शब्दादितन्मात्राणां पञ्चभूतरूपं संस्थानं धर्ममात्रमादिमत्, इत्यतो विनाशीत्यर्थः । एवमित्याद्यप्येवं व्याख्येयम् । लिङ्गं महत्तत्त्वम् । एवमहङ्कारादयो घटादयश्च स्वविनाशेनाविनाशिनां कारणानां धर्ममात्राणि विनाशिन इति बोध्यम् ।... तस्मिन् धर्मे विकारसंज्ञा परिणामसंज्ञेत्यर्थः ।" इति योगवार्तिके ॥ ५ " पूर्वोत्पन्नमसक्तं नियतं महदादि सूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४० ॥” इति साङ्ख्यकारिकाया माठरवृत्तौ साङ्ख्यतत्त्वकौमुद्यादिषु च पञ्च कर्मेन्द्रियाणि, पञ्च बुद्धीन्द्रियाणि पञ्च तन्मात्राणि मनो बुद्धिरहङ्कारः' इत्येवमष्टादशविधं महदादि सूक्ष्मपर्यन्तं लिङ्गं वर्णितमस्ति, युक्तिदीपिकादिव्याख्यासु तु इयं कारिका अन्यथा व्याख्यातास्ति ॥ ६ त्यादि प्रत्य प्र० ॥ ७ दृश्यतां पृ० ३२० दि० ६ ॥ ८ नार्थी भा० । (नार्थानां ? ) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org