________________
३२२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे किश्चान्यदित्यादि तदेव योन्यभावादनवस्थाप्रसङ्गः, परिमाणस्य संसर्गपूर्वकत्वाविनाभावादित्यर्थः । प्रधानाभावाद् 'निष्परिमाणमिदं व्यक्तमव्यवस्थितमित्येतत् प्रसज्येत । कस्मात् ? सतां यर्थानां लोके परिमाणं दृष्टं तुलामान-हस्त-व्याम-रज्वात्मोपचयैः, न त्वसति भावः कश्चिदस्ति यः प्रतिपद्यमानः परिमाणेऽवतिष्ठेत । तस्माद् 'निष्परिमाणमिदमव्यवस्थितमित्येतत् प्रसज्येत, न विदं तादृक् , तस्माद् नेदं 5 व्यक्तमसत उत्पद्यते । न चेदं सत उत्पद्यते । परिशेषतः प्रधानादेवेदम् । तस्मादस्ति तत् । २३१-२ किश्चान्यत् , एकजातिसमन्वयाभावप्रसङ्गादिति तदेव । स्थालीघटेत्यादि दृष्टान्तविशेषः सामान्य
विशेषोत्थापनार्थमुच्यते । अत्र परो ब्रूयात् - विशेषमात्रस्य दर्शनादसत उत्पत्तिः, तद्यथा- ऑकारो गौरवमित्यादिधर्मभेदादिति । तत्रोत्तरम् -ताद्रूप्येणोपकाराददोष इति धर्मभेदपरिणत्या लोकवृत्तान्त
नयनादित्युपकारभेदप्रदर्शनात् कार्यकारणभाववीतस्यावीतत्वलेशं च स्पृशतीति तस्मादेव ग्रन्थादवगन्तव्यं 10 यावत् पुरस्ताद् व्याख्यातम् , यथा-तैर्यग्योनमानुषदैवानि परस्परार्थ न कुर्वीरन्निति । तत्र यदुक्तं 'भूतानां तत्समूहानां च व्यावृत्तेर्विशेषमात्रमिदं व्यक्तम् , तस्मादसत उत्पद्यते' इति, एतदयुक्तमिति
१निःपरि प्र० ॥ २ "व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् ।" इति अमरकोशे २१६८७ ॥ ३ वाप्र प्र० ॥ ४ भा० विनान्यत्र-स्थाप पा० । स्वाप डे० ली० । त्वाप वि० २० ही० ॥ ५ "आकारो गौरव रौक्ष्यं वरणं स्थैर्य मेव च । स्थिति दः क्षमा कृष्णच्छाया सर्वोपभोग्यता ॥ १ ॥ इति ते पार्थिवा धर्मास्तद्विशिष्टास्तथाऽपरे । जलाग्निपवनाकाशव्यापकास्तान् निबोधत ॥ २ ॥ स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं सन्ता(न्धा)नं चौदका गुणाः ॥ ३ ॥ ऊर्ध्वगं पावकं दग्धृ पाचकं लघु भास्वर च ज्योतिः पूर्वाभ्यां स(च) विलक्षणम् ॥ ४ ॥ तिर्यग्गतिः पवित्रत्वमाक्षेपो नोदनं बलम् । रौक्ष्यमच्छायता शैत्यं वायोर्धर्माः पृथग्विधाः ॥५॥ सर्वतोगतिरव्यूहो विष्कम्भश्चति ते त्रयः । आकाशधर्मा विज्ञेयाः पूर्वधर्मविरोधिनः ॥ ६॥ संहतानां तु यत् कार्य सामान्यं ते गवादयः । इतरेतरधर्मेभ्यो विशेषान्नात्र संशयः ॥ ७॥ तत्राकारादिमिधर्मः पृथिव्या लोकप्य चोपक्रियते भूतान्तराणां च । तत्र आकारात् तावद् गवादीनां घटादीनां चाकारनिर्वृत्तिः, गौरवादेषामवस्थानम् । रौक्ष्यादपां सङ्ग्रहो वैशा च भूतानाम् । वरणादनभिप्रेतानां छादनम् । स्थैर्याद् वृत्तिः(धृतिः?) प्रजानां भूतान्तराणां च । स्थितेर्मात्रादिसन्निधानाद्यनुग्रहः, भेदाद् घटादिनिष्पत्तिः व्यूहश्चावयवानाम् । क्षान्तेरुपभोगयोग्यता । कृष्णच्छायत्वाद् रात्रिसम्पच्छायाकार्य: प्रसिद्धिश्च । सर्वोपभोग्यत्वात् सर्वभूतानुग्रहः । एवं स्नेहादिमिर्लोकस्योपकारः क्रियते भूतान्तराणां च । स्नेहाद् रूपसम्पद् वायुप्रतीकारोऽग्निशमनं सङ्ग्रहश्च पृथिव्याः । सौम्यादनुप्रवेशः। शौक्ल्याच्चन्द्रादिनिर्वृत्तिः । मार्दवात् स्नानावगाहनमेकक्रिया कठिनाना चावनमनम् । गौरवात् सन्तानाच भूतानुग्रहार्थ स्रोतस्त्वम् । शैत्यादुष्मप्रतीकारः । रक्षातः प्रजासु घोरशमनम् । पवित्रत्वाद् धर्मोपचयः, शौचविधिरलक्ष्येऽपि घातश्च । सन्ता(न्धा)नाद् द्रव्यसङ्घातः । तथा ऊर्ध्वगत्यादिमिर्धर्ममात्रेऽपि तेजसा लोकस्य चोपक्रियते भूतान्तराणां च । ऊर्ध्वगतेः पाकप्रकाशसिद्धिः, पावकत्वाद् द्रव्यशौचं च । दाहकत्वात् क्षारो. त्पत्तिः शीतप्रतीकारो नभसश्चोष्मत्वं शब्दनिष्पत्त्यर्थम् । पाचकत्वात् वेद्य खेदनमन्नपक्तिः । पृथिव्यवयवाना क्रियायोग्यता तथा बाह्यान्तरपरिणामो रसलो हितमांसनायवस्थिमज्जाशुक्राणाम् । लाघवाद् दाह्यातिक्रमः । भास्वरत्वाद् द्रव्यान्तरप्रकाशनम् । प्रध्वंसित्वाद् दग्धपक्कानामुपभोगः । ओजसः प्रजापालनम् । तथा तिर्यक्पातादिभिधर्मः वायुना लोकस्य चोपकारः क्रियते भूतान्तराणां च । तिर्यक्पाताद् दृष्टिविक्षेो गन्धसंवहनं च । पवित्रत्वात् पूतिद्रव्यपावनम् । आक्षेपनोदनाभ्यामुत्कर्षः, प्रथनं घर्माम्भसः, व्यूहश्च शरीरे रसादीनां धातूनां च, अग्नेश्चोपध्मानमभिघातश्चाकाशस्य । बलात् समीरणं सर्वेषाम् । रौक्ष्याद् विशोषणम् । अच्छायत्वादहोरात्रप्रसिद्धिः । शैत्यादुष्मप्रतीकारः । तथा सर्वतोगत्यादिभिर्धमैः नभसा लोकस्योपकारः क्रियते भूतान्तराणां च । सर्वत्र गतेः समन्तात् तुल्यदेशश्रवणानामेकश्रुतित्वम् । अव्यूहविष्कम्भाभ्यां सर्वेषामवकाशदानमित्युक्ताः पृथिव्यादयः ।"-सायका० युक्तिदीपिका, का० ३८ । एत एव "आकारो गौरवं रौक्ष्यम्" इत्यादयः प्रथमतृतीयचतुर्थपञ्चमषष्ठश्लोकाः किञ्चित्पाठभेदेन पातञ्जलयोगदर्शनवैयासिकभाष्योपरि वाचस्पति मिश्रविरचितायां तत्त्ववैशारद्या वृत्ती विज्ञानभिक्षुविरचिते योगवार्तिके च समुपलभ्यन्ते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org