________________
३२१
वीतावीतहेतुभिः प्रधानास्तित्वसाधनम् ] द्वादशारं नयचक्रम् कारिणां पारार्थ्याच्छयनादिवत् । अतः पुरुषास्तित्वमन्यत्वं तद्बहुत्वं च पुरुषाणाम् । प्रधानस्य आद्यन्तपुरुषार्थोपलब्ध्यनन्तरं निवृत्तिः व्रीयुदकगत्या रङ्गनर्तकीवद्वेति प्रधानपुरुषसंयोगविभागावित्थम् । इयत्पैरिज्ञानफलं च शास्त्रम् ।
___ तथा संव्यवहारप्रसिद्ध रित्यादि यावदावीतानामिति व्याख्यातं द्रष्टव्यम् । एतेषामेव पञ्चानां वीतानां परिशुद्ध्यर्थाः पञ्चैव आवीताः । एवमेभिः पञ्चभिर्वीतैः प्रधानस्य परिग्रहं कृत्वा पुनरावीतैः । करिष्यामः । 'परपक्षप्रतिषेधेन स्वपक्षपरिग्रहक्रिया ऑवीतः' इत्यपदिष्टं पुरस्तात् । तस्यास्य प्रतिपक्षाः सर्वैकान्तिनः पुरुषेश्वराणुप्रवादाः विकारपुरुषा वैनाशिकाश्च । तेषां वैनाशिकप्रतिषेधमग्रे वक्ष्यामः, कस्मात् ? २३१-१ किश्चिद् वैनाशिका हीतर इत्यतः प्रभृत्युपक्रम्य अनुपलब्धेर्नास्तीति द्वितीयस्य शिरसो[ऽन]भ्युपगतस्यासत उत्पत्त्यभावाद् व्यभिचारप्रसङ्गे गते यावदनागतेऽपि काले न भविष्यतीति ।
किश्चान्यत्, यदि व्यक्तस्यासत उत्पत्तिर्भवति अार्थिभिस्तृणपांशुवालुकाः मुक्तामणिरजत-10 सुवर्णानि क्रियेरन् , कस्मात् ? अभावक्रिया गुरुकार्या भावक्रिया लघ्वीति । न त्वेवं क्रियते, तस्मादयुक्तमित्यादि यावदुक्तोत्तरत्वादसम्यग्विधिः। किश्चान्यत् , यदि व्यक्तस्यासत उत्पत्तिर्योन्यभावादेकत्वप्रसङ्गः, प्रधानाभावात् सामान्यमात्रमिदं व्यक्तं निर्विशेषमित्येतत् प्रसज्येत । कस्मात् ? सामान्यपूर्वकत्वाद् विशेषाणाम्, सामान्यपूर्वका हि लोके विशेषा दृष्टाः, तद्यथा-क्षीरपूर्वका दधिमस्तुद्रप्सनवनीतघृतारिष्टकिलाटकूर्चिकाभावाः । न त्वसति भावः कश्चिदस्ति यत्पूर्वका व्यक्तविशेषाः स्युः । तस्मात् 15 सामान्यमात्रमिदं व्यक्तं निर्विशेषमित्येतत्, न विदं तादृक् । तस्माद् नेदं व्यक्तमसत उत्पद्यते । न चेदं सत उत्पद्यते । पारिशेष्यात् प्रधानादेवेदं व्यक्तमुत्पद्यत इत्येतद् युक्तम् । तस्मादस्ति प्रधानमिति । एषोऽन्वयवीतस्यावीतः।
शरीरभेदे' [का०६८] इति वियोगः सिद्धः । 'जन्ममरणकरणानाम् [का० १८] इति पुरुषबहुत्वं सिद्धम् । 'चक्रभ्रमवत्' [का०६७] इति शेषवृत्तिः सिद्धा ।" जे० साङ्ख्यका०वृ० B, तथा माठरवृत्तौ का० ७२ । “प्रधानास्तित्वमेकत्वमर्थवत्त्वमथान्यता । पारायं च तथाऽनैक्यं वियोगो योग एव च ॥ शेषवृत्तिरकर्तृत्वं मूलिकार्थाः स्मृता दश । [पृ० २] । ..........तत्रास्तित्वमेकत्वं पञ्चभिवीतैः सिद्धम् । अर्थवत्त्वं कार्यकारणभावः । पारार्थ्य संहत्यकारिणां परार्थत्वात् । अत एवान्यत्वं चेतनाशक्तेर्गुणत्रयात् । 'जन्ममरणकरणानाम् [का. १८] इत्येवमादिभिः पुरुषबहुत्वम् । 'पुरुषस्य दर्शनार्थम्' [का० २१] इति संयोगः । 'प्राप्ते शरीरभेदे [का०६८] इति वियोगः । 'सम्यग्ज्ञानाधिगमात्' [का०६७] इति शेषवृत्तिः । 'तस्माच्च विपर्यासात्' [का. १९] इति पुरुषस्याकर्तृस्वमित्येते दश मूलिकार्थाः ।" साङ्ख्यका० युक्तिदीपिका पृ०५ । "एकत्वमर्थवत्त्वं पारार्थ्यं च प्रधानमधिकृत्योक्तम् । अन्यत्वमकर्तृत्वं बहुत्वं चेति पुरुषमधिकृत्य । अस्तित्व वियोगो योगश्चेत्युभयमधिकृत्य । वृत्तिः स्थितिरिति स्थूलसूक्ष्ममधिकृय ।" इति साङ्ख्यतत्त्वकौमुद्याम् , का० ७२ ॥
१षार्थयो पल य० । “प्रधानस्य पुरुषार्था प्रवृत्तिः, स चार्थो द्विविधः-शब्दाद्युपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्तः।" जे० साङ्ख्यका० वृ० A, B, माठरवृ०, का० ६६ ॥ २ रङ्गमनत य० । “रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ ५९ ॥”-साडयका०॥ ३ परिमाणफलं यः॥ ४ दृश्यतां पृ० ३१४ पं० ३ ॥ ५ पुरस्तावत् भा०॥ ६ “प्रतिपक्षाः पुनस्तस्य पुरुषेशाणुवादिनः । वैनाशिकाः प्राकृतिका विकारपुरुषास्तथा ॥ तेषा मिच्छाविघातार्थमाचार्यः सूक्ष्मबुद्धिभिः । रचिताः खेषु तत्रेषु विषमास्तर्कगह्वराः ॥" इति साङ्ख्यका० युक्तिदीपिकावृत्तौ प्रारम्भश्लोकेषु ॥ ७ हीतकर पा० २० ही० ॥ ८ लध्विति प्र० ॥ ९ "क्षीरं द्रप्स-दधि-मस्तु-नवनीत-घृता-ऽरिष्ट-किलाट-कूर्चिकाभावेन परिणमति ।" जे० सायका वृ० A, माठरवृ०, का. १६ ॥ १० °मित्येतत न त्विदं य० । °मित्येत(व?) न त्विदं भा० ॥ ११त्पद्य इप्र०॥ १२ व्यकं य० ॥
नय०४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org