________________
३२०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
२३०-२ इतश्च अस्ति प्रधानम्, वैश्वरूप्यस्याविभागप्राप्तेर्देशकालप्रमाणबलरूपप्रत्यासत्तेरवश्यम्भाव्युच्छेदानुच्छेदाभ्यां च निवृत्तेः । जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम्, तथा स्थावराणां जङ्गमेषु, जङ्गमानां स्थावरेषु, स्थावराणां स्थावरेषु, जङ्गमानां जङ्गमेषु । जात्यनुच्छेदेन सर्वं सर्वात्मकम्, देशकालाकारनिमित्तावबन्धात् तु न समानकालमात्माभिव्यक्तिः, ते मन्यामहे जलभूम्योरप्येतत् पारि5 णामिकं रसादिवैश्वरूप्यम्, अन्येषां च भूतानामन्यपरिणाम इति, एवं तदप्यन्यस्येत्यवश्यंभावी अविभागः । यत्र चाविभागस्तत् प्रधानम्, वैश्वरूप्यस्याविभागकारणपूर्वकत्वात्, मयूर बर्हवैचित्र्यस्येव तदण्डकरसपूर्वकत्वम् । तस्मादस्ति प्रधानमिति एभिः पञ्चभिर्वीतैः समन्वय परिमाणोपकारशक्तिप्रवृत्तिवैश्वरूप्यगत्याख्यैः सामान्यसंसर्गैककर्तृशक्तिमच्छक्त्यविभागसंज्ञं प्रधानं सिद्धम् । अत एवैकत्वमर्थवत्त्वम्, परार्थत्वं संहत्य
Jain Education International
[ तृतीये विध्युभयारे
१ " किञ्चान्यत्, अविभागाद् वैश्वरूप्यस्य । इह यद् विश्वरूपं तस्याविभागो दृष्टः, तद्यथा - सलिलादीनां जलभूमी, विश्वरूपाश्च महदादयः, तस्मादेषामप्यविभागेन भवितव्यम् । योऽसावविभागस्तदव्यक्तम् । तस्मादस्त्यव्यक्तम् । आह- किं पुनस्तद्वैश्वरूप्यं को वा विश्वरूप इति ? उच्यते - वैश्वरूप्यमिति विशिष्टमवस्थानमाचक्ष्महे अस्तमित विशेषत्वम विभाग इति । विशेषस्य सामान्यपूर्वकत्वादिति योऽर्थस्तदुक्तं भवति अविभागाद् वैश्वरूप्यस्येति । " साख्य का० युक्तिदीपिका, का० १५ ॥ २. व्युच्छेदाभ्यां प्र० ॥ ३ दृश्यतां पृ० ११ पं० २७ । “यथा जलभूम्योरप्येतद् रसादिवैश्वरूप्यं स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्विति । एवं जात्यनुच्छेदेन सर्वं सर्वात्मकमिति । तेन मन्यामहे - अस्ति प्रधानं यत्र महदादि लिङ्गमविभागं गच्छति, इत्येवमवश्यम्भावी अविभागः । यत्राविभागस्तत् प्रधानम् । तस्मादस्ति प्रधानम् ।" इति जे० साङ्ख्यका० वृत्तौ B, किश्चिच्छन्दभेदेन माठरवृत्तौ च का० १५ ॥ " सर्व सर्वात्मकमिति । यत्रो (थो ? ) क्तम् - - ' जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम्, तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेषु इति । एवं जात्यनुच्छेदेन सर्वं सर्वात्मकमिति । देशकालाकारनिमित्तापबन्धान्न खलु समानकालमात्मनामभिव्यक्ति:' इति [ व्यासभा० ] । सर्वं सर्वात्मकमिति । यत्रोक्तमिति तदेवोपपादयति । जलभूम्योरिति । जलस्य हि रसरूपस्पर्शशब्दवतः भूमेश्च गन्धरसरूपस्पर्शशब्दवत्याः पारिणामिकं वनस्पतिलतागुल्मादिषु मूलफलप्रसव पल्लवादिगतरसा दिवैश्वरूप्यं दृष्टम् । सोऽयमनेवमात्मिकाया भूमेरनीदृशस्य वा जलस्य न परिणामो भवितुमर्हति, उपपादितं हि नासदुत्पद्यते इति । तथा स्थावराणां जङ्गमेषु मनुष्यपशुमृगादिषु रसादिवैचित्र्यं दृष्टम् । उपभुञ्जाना हि ते फलादीनि रूपादिभेदसम्पदमासादयन्ति । एवं जङ्गमानां पारिणामिकं स्थावरेषु दृष्टम्, रुधिरावसेकात् किल दाडिमीफलानि तालफलमात्राणि भवन्ति । उपसंहरति - एवमिति । एवं सर्व जलभूम्यादिकं सर्वरसाद्यात्मकम् । तत्र हेतुमाह - जात्यनुच्छेदेनेति । जलत्व भूमित्वादिजातेः सर्वत्र प्रत्यभिज्ञायमानत्वेन अनुच्छेदात् । ननु सर्व चेत् सर्वात्मकं हन्त भोः सर्वस्य सर्वदा सर्वत्र सर्वथा सन्निधानात् समानकालीना भावानां व्यक्तिः प्रसज्येत, न खलु सन्निहिताविकलकारणं कार्यं विलम्बितुमर्हतीत्यत आह- देशकालेति । यद्यपि कारणं सर्वं सर्वात्मकं तथापि यो यस्य कार्यस्य देशः यथा कुङ्कुमस्य कश्मीरः तेषां सत्त्वेऽपि पञ्चालादिषु न समुदाचार इति न कुङ्कुमस्य पञ्चालादिषु अभिव्यक्तिः, एवं निदाघे न प्रावृषः समुदाचार इति न तदा शालीनाम् एवं न मृगी मनुष्यं प्रसूते, न तस्यां मनुष्याकारसमुदाचारः इति । एवं नापुण्यवान् सुखरूपं भुङ्क्ते, न तस्मिन् पुण्यनिमित्तस्य समुदाचार इति । तस्माद् देशकालाकारनिमित्तानामपबन्धादपगमान्न समानकालमात्मनां भावानामभिव्यक्तिरिति ।" इति पातञ्जलयोगदर्शनस्य व्यासप्रणीत भाष्योपरि वाचस्पतिमिश्रविरचितायां तत्त्ववैशारद्यां वृत्तौ ३।१४ ॥ ४ ते इत्यव्ययं ततः इत्यर्थे वर्तत इति भाति, दृश्यतां पृ० ११ पं० २७ । ते इत्यव्ययस्य ततः इत्यर्थे दृश्यते बहुशः -प्रयोगः पातञ्जलमहाभाष्येऽपि तद्यथा - " अब्रह्मदत्तं ब्रह्मदत्त इत्याह । ते मन्यामहे ब्रह्मदत्तवदयं भवतीति ।" पा० म० भा० १।१।२२, १२/१, ७ १९० ॥ ५ यथाक्रमं समन्वयात् सामान्यं परिमाणात् संसर्गः उपकारात् एककर्ता शक्तिप्रवृत्तेः शक्तिमच्छक्तिः वैश्वरूप्यगत्या च अविभागः सिध्यति ॥ ६" [ दश मूलिकार्थाः, तथाहि – ] अस्तित्वमेकत्वमथार्थ. वत्त्वं पारार्थ्यमन्यत्वमथो निवृत्तिः । योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥ १ ॥ तत्र 'भेदानां परिमाणात्' [ का० १५] इत्येभिः पञ्चभिर्वीर्तेर्हेतुभिः प्रधानस्यास्तित्वमेकत्वमथार्थवत्त्वं च सिद्धम् । 'सङ्घातपरार्थत्वात्' [ का० १७ ] इति परार्थता सिद्धा । ' तद्विपरीतस्तथा च पुमान्' [ का० ११] इति प्रधानपुरुषयोरन्यत्वं सिद्धम् । 'रङ्गस्य दर्शयित्वा ' [ का० ५९ ] इति निवृत्तिः सिद्धा । 'पुरुषस्य दर्शनार्थम्' [ का० २१] इति संयोगः सिद्धः । 'प्राप्ते
For Private & Personal Use Only
www.jainelibrary.org