________________
साङ्ख्यमतेन प्रधानास्तित्वसाधनम्] द्वादशारं नयचक्रम्
३१९ धृतिसङ्ग्रहपक्तिव्यूहावकाशदानैः परस्परार्थं कुर्वन्ति । इन्द्रियाण्यप्यन्योन्यविषयग्रहणसाहायकेनोपकुर्वन्ति । यच्च यस्य विषयं प्रख्यापयति अर्जयति पाति संस्करोति उपधत्ते वा तत् कारणमितरत् कार्यम् । स्थानसाधनात्मप्रख्यात्युपभोगैः करणार्थं करोति कार्यम् , करणं वृद्धिक्षतभग्नसंरोहणसंशोकपरिपालनैः कार्यार्थं करोति । एवं बाह्याध्यात्मिकानां दैवमानुषतैर्यग्योनानां सप्रपञ्चानामन्योन्योपकारः रक्षा-सङ्ग्रह-सेवन-पूजन-पोषणस्थिति-शुश्रूषादिविकल्पा वर्णाश्रमादीनां योज्याः । एककर्तृका भेदाः, परस्परोपकारकोपकार्यत्वात् , शयनादि-5 वत् । तस्मादस्ति प्रधानमिति ।
__ इतश्च अस्ति शक्तिमदवस्थामात्रत्वाच्छक्तीनाम् । कार्यकारणानामधिष्ठितानामनधिष्ठितानां , स्वकार्यसमास्त्रिषु कालेषु शक्तयोऽवतिष्ठन्ते । तद्यथा-प्राक् प्रवृत्तेः शक्त्यवस्थानमनुमीयते प्रवृत्त्युपलब्धेः, प्रवृत्तिकालेऽवस्थानमपवर्गदर्शनात् , प्रवृत्त्युत्तरकालावस्थानं प्रवृत्तिव्यतिरेकेणावस्थानदर्शनात् । एवमाद्यन्तवद् व्यक्तमुपलभ्य व्यक्तशक्त्यवस्था स्ति, अनवस्थितशक्तेराद्यवसानाभावात् खपुष्पवत्, अवस्थितशक्तेरेव 10 तद्भावाद् मृदः पिण्डादिभाववत् । तस्माद् व्यक्तशक्तिप्रवृत्त्युपलब्धरस्ति प्रधानमिति ।
१ वृत्तिस प्र० । “सहभावे तु तेषामुपकारो न प्रतिषिध्यते, तद्यथा पृथिव्यादीनां धृतिसङ्ग्रहपक्तिव्यूहावकाशदानैः।”-सालयका० युक्तिदीपिका, का० १५, पृ० ८० पं० २६ । “पृथिव्येव पृथिवीधातुः धृत्यादिधर्मधारणात् ।" - नयचक्रवृ०, पृ० २६७-१ । “पञ्च महाभूतानि कृतानि - आकाशमवकाशने, भूमिर्विहरणे, आपः पिण्डीकरणे शुद्धौ च, अग्निराहारपचने, वायुयूहने ।” जे० सालयका० वृ० B, का० ३९ ॥ २ “आह-कः पुनर्व्यक्तस्य परस्परकार्यकारणभाव इति । उच्यते-गुणानां तावत् सत्त्वरजस्तमसा प्रकाशप्रवृत्तिनियमलक्षणैर्धमैरितरेतरोपकारेण यथा प्रवृत्तिर्भवति तथा 'प्रीत्यप्रीतिविषादात्मकाः' [साय का० १२] इत्येतस्मिन् सूत्रे व्याख्यातम् । तथा शब्दादीनां पृथिव्यादिषु परस्परार्थमेकाधारत्वम् । श्रोत्रादीनामितरेतराजनरक्षणसंस्काराः । करणस्य कार्यात् स्थानसाधनप्रख्यापनादिकार्यस्य करणाद् वृद्धिक्षतभङ्गसंरोहणसंशोषणपरिपालनानि पृथिव्यादीनां धृतिसङ्ग्रहपक्ति व्यूहावकाशदानैर्गवादिभावो देवमानुषतिरश्वा यथर्तुविधानेज्यापोषणाभ्यवहारं संव्यवहारेतरेतराध्ययनं वर्णानां स्वधर्मप्रवृत्तिविषयभावः । अन्यच्च लोकाद् यथासम्भवं द्रष्टव्यम् ।" सायका० युक्ति दीपिका, का० १५॥कार य० । दृश्यतां पृ० २९८ टि० ३ ॥ ४ "देहस्य वृद्धिक्षतभनसंरोहणादि. निमित्तत्वात् [प्रशस्त० भा०] देहस्येति । वृद्धिरवयवोपचयः भमक्षतयोर्विघटितविश्लिष्टयोरस्थिचर्मासभागयोः संरोहण पुनः सङ्घटनम् ।” इति प्रशस्तपादभाष्यकिरणावल्याम् आत्मनिरूपणे । दृश्यतां टि. २॥ ५ "तैर्यग्योनमानुषदेवतानि च परस्परार्थत्वात् । [व्यासभा०] । परस्परार्थत्वादिति । मनुष्यशरीरं हि पशुपक्षिमृगसरीसृपस्थावरोपयोगेन ध्रियते, एवं व्याघ्रादिशरीरमपि मनुष्यपशुमृगादिशरीरोपयोगेन, एवं पशुपक्षिमृगादिशरीरमपि स्थावराधुपयोगेन, एवं देवशरीरमपि मनुष्योपहृतच्छागमृगकपिज्जलमांसाज्यपुरोडाशसहकारशाखाप्रस्तरादिभिरिज्यमानं तदुपयोगेन, एवं देवतापि वरदानवृष्ट्यादिभिर्मनुध्यादीनि धारयतीत्यस्ति परस्परार्थत्वमित्यर्थः।" इति पातञ्जलयोगदर्शनव्यासभाष्यस्य वाचस्पतिमिश्रप्रणीतायां तत्त्ववैशारा वृत्तौ २।२८ ॥ ६ (काराः?) ॥ ७ °सेचनपूजनपोषण भा० ॥ ८°षादेर्विकल्पा य० ॥ ९ श्रया(श्रम्या?). दीनां प्र० । ब्राह्मणक्षत्रियवैश्यानां वर्णानां ब्रह्मचारि-गृहस्थ-वानप्रस्थ-यतीनामाश्रमिणां च कार्याणि वर्णितानि वैशेषिकदर्शनप्रशस्तपादभाष्ये द्रष्टव्यानि धर्मनिरूपणे । स्मृत्यादिष्वपि धर्मशास्त्रेषु तद्वर्णनमस्ति ॥ १०चा भा० । अत्र वा इत्यपि पाठः स्यात् ।। ११ “किञ्चान्यत् , शक्तितः प्रवृत्तेश्च । इह यावती काचिल्लोके प्रवृत्तिरुपलभ्यते सा सर्वा शक्तितः । तद्यथाकुम्भ कारस्य दण्डादिसाधनविन्यासलक्षणायाश्च शक्तेः सन्निधानाद् घटकरणे प्रवृत्तिः, अस्ति व्यक्तस्य चेयं कार्यत्वात् तद्भावेन प्रवृत्तिरिति । अतस्तस्यापि शक्त्या भवितव्यम् । यासौ शक्तिस्तदव्यक्तमिति । आह-प्राक् प्रवृत्तेः शक्यभावः प्रवृत्त्यनुपलब्धेः ।........"अत्र ब्रूमः-न, अप्रसिद्धत्वात् । .."तस्मात् प्राक् प्रवृत्तेः शक्तिः । यत् पुनरेतदुक्तं तावदेव प्रध्वंस इति, अत्र ब्रूमः-न, कार्यनिष्ठादर्शनात् । यदि प्रवृत्तिसमकालमेव प्रध्वंसः स्यात् कार्यनिष्ठैव न स्यात् , तन्निमित्तत्वात् कार्यस्य । ..... तस्मान्नास्ति शक्तीनां प्रवृत्तिकाले विनाशः । प्रवृत्त्युत्तरकालमपि नास्ति । कस्मात् ? पुनः प्रवृत्तिदर्शनात् । ...... तस्मात् त्रिषु कालेषु शक्तयोऽवतिष्ठन्ते।"-सात्यका० युक्तिदीपिका, का० १५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org