________________
३२८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् तृतीये विध्युभयारे इति स एव भवति, सर्वव्यक्तिप्रवृत्त्यात्मकत्वात् । एवमेव चास्याष्टमूर्तितोच्यते। ___इतरथा अदृष्टाणुप्रधानादेः प्रवृत्तिफलप्रकर्षापकर्षों न स्याताम् । दृष्टौ च तो। तयोरतो न विमर्दक्षमं कारणमस्तीश्वरकामचारेरणाहते।
तेनुकरणभुवनसाधनाय प्रवृत्तानि अदृष्टाणुप्रधानादीनि विशिष्टचेतनाधिष्ठिता
इति स एव भवति, इत्थमीश्वर एव भवति परमार्थतः । सर्वव्यक्तिप्रवृत्त्यात्मकत्वात् , सर्वासां व्यक्तीनां प्रवृत्तय आत्माऽस्य सर्वव्यक्तिप्रवृत्त्यात्मकः तद्विशिष्टबुद्धिशक्त्यावासरूपत्वात् तासाम् , एंवमेव चास्याष्टमूर्तितोच्यते क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-सोम-सूर्याख्याष्टमूर्त्तितास्य स्वशक्त्यावासरूपत्वात् तासु स एव भवति सा सा च । 10 किश्चान्यत् , प्रवृत्तिफलप्रकर्षापकर्षाभावप्रसङ्गादीश्वर एव कारणं नादृष्टादि न प्रधानादीत्यत आह -
इतरथेत्यादि यावद् दृष्टौ च तौ । यद्यदृष्टाण्यादेः प्रधानादेर्वा प्रवृत्तयः फलानि वा स्युः क्रियाणां पूर्वकृत२३५-२ कर्मफलप्रेरितानां तदनुरूपत्वात् फलानां च फलप्रेरितकर्मानुरूपत्वाद् मनुष्यनिर्वर्तनीया एव स्वभावमार्दवा
१ कः पुनरीश्वरस्य कारणत्वे न्यायः ? अयं न्यायोऽभिधीयते-प्रधानपरमाणुकर्माणि प्राक् प्रवृत्तेर्बुद्धिमत्कारणाधिष्ठितानि प्रवर्तन्ते, अचेतनत्वात् , वास्यादिवदिति । यथा वास्यादि बुद्धिमता तक्ष्णा अधिष्ठितमचेतनत्वात् प्रवर्तते तथा प्रधानपरमाणुकर्माणि अचेतनानि प्रवर्तन्ते । तस्मात् तान्यपि बुद्धिमत्कारणाधिष्ठितानीति । तत्र प्रधानकारणिकास्तावत् पुरुषार्थमधिष्ठायकं प्रधानस्य वर्णयन्ति पुरुषार्थेन प्रयुक्तं प्रधानं प्रवर्तते, पुरुषार्थश्च द्वेधा भवति शब्दाद्युपलब्धिः गुणपुरुषान्तरदर्शनं चेति, तदुभयं प्रधानप्रवृत्तेविना न भवतीति । न, प्राक् प्रवृत्तेस्तदभावात् । यावत् प्रधानं महदादिभावेन न परिणमते तावन्न शब्दा. धुपलब्धिरस्ति न गुणपुरुषान्तरोपलब्धिरिति हेत्वभावात् प्रधानप्रवृत्तिरयुक्ता । अथास्ति, नासदात्मानं लभते न सन्निरुध्यत इति? एवं च सति विद्यमानः पुरुषार्थः प्रधानं प्रवर्तयतीति न पुरुषार्थाय प्रधानस्य प्रवृत्तिः । न हि लोके यद् यस्य भवति स तदर्थं पुनर्यतत इति।सततं च प्रवृत्तिः प्राप्नोति कारणस्य सन्निहितत्वादिति, पुरुषार्थः प्रवृत्तेः कारणमिति पुरुषार्थस्य नित्यत्वात् सततं प्रवृत्त्या भवितव्यमिति । अथ विद्यमानोऽपि न प्रवर्तयति न तर्हि पुरुषार्थः कारणमिति । यस्याभावात् प्रधानं न प्रवर्तते यस्य च भावात् प्रवर्तते तत् कारण मिति ।...'यदा भवन्तः सत्त्वरजस्तमसा साम्यावस्थां प्रकृतिं वर्णयन्ति सा कुतो निवर्तत इति वक्तव्यम् । न चानिवृत्तायां साम्यावस्थायां वैषम्येण शक्यं भवितुम् । अथाङ्गाङ्गिभावस्यानियमाद् वैषम्यं भवति इति ? अत्रापि भवन्तं पर्यनुयुधमहे-कथं साम्येनावस्थितमधिकं हीनं च भवति, नापूर्वोपचयो विद्यते न पूर्वहानमस्तीति ।.... 'सोऽयं प्रधानवादो यावद् यावद् विचार्यते तावत् तावत् प्रमाणवृत्तं बाधते इति । ये परमाणून् पुरुषकर्माधिष्ठितान् जगतः कारणत्वेन वर्णयन्ति तान् प्रतीदमुच्यते-परमाणवः प्रवर्तन्त इति सततं प्रवृत्त्या भवितव्यम् । अथ कालविशेषापेक्षाः प्रवर्तन्ते, परमा. णुभिः कालो व्याख्यातः । यथा अचेतनत्वात् परमाणवो बुद्धिमन्तमधिष्ठातारमपेक्षन्ते तथा कालोऽपीति, न हि तत्राचेतनत्वं निवर्तत इति । क्षीरादिवदचेतनस्यापि प्रवृत्तिरिति चेत्,..'तन्न युक्तम् , साध्यसमत्वात् । यथैव परमाणवः स्वतन्त्राः प्रवर्तन्त इति साध्यं तथा क्षीरायचेतनं स्वतन्त्रं प्रवर्तत इति । यदि क्षीरादि खतन्त्रं प्रवर्तेत मृतेष्वपि प्रवर्तेत, न तु प्रवर्तते, अतो. ऽवगम्यते बुद्धिमत्कारणाधिष्ठितं तदपि । न चायं हेतुस्तस्मात् निवर्तते । एवं यावद् यावदचेतनं प्रवर्तते सर्व तत् चेतनाधिष्ठितमिति । अयमपरो हेतु:-बुद्धिमत्कारणाधिष्ठितं महाभूतादि व्यक्तं सुखदुःखादिनिमित्तं भवति रूपादिमत्त्वात् तुर्यादिव. दिति।" इति उध्योतकरविरचिते न्यायवार्तिके ४।१।२१ । "उध्योतकरस्तु प्रमाणयति-भुवनहेतवः प्रधानपरमाण्वदृष्टाः खकार्योत्पत्तावतिशयबुद्धिमन्तमधिष्ठातारमपेक्षन्ते स्थित्वा प्रवृत्तस्तन्तुतुर्यादिवत् ।" इति बौद्धाचार्यकमलशीलविरचितायां तत्त्वसङ्ग्रहपञ्जिकायाम् , का० ५०॥ २ एव चास्या प्र० । दृश्यतां पृ० २४३-२॥ ३स्वशक्त्याव्यास प्र० । अत्र 'सर्वशक्त्यावासरूपत्वात्' इत्यपि पाठः स्यात् ॥ ४ दृश्यतां पृ० २१४ टि० ११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org