________________
३२९
ईश्वरसाधनम्]
द्वादशारं नयचक्रम् न्येव प्रवर्तन्ते, सम्भूयैकार्थकारित्वात् , तक्षाधिष्ठितरथदारुगणवत् । तथा अचेतनत्वात् स्थित्वा प्रवृत्तेः तुर्यादिवत् ।
चेतनानधिष्ठितक्षीरदधिमेघादिवदनेकान्त इति चेत्, न, अदृष्टकर्तृकविषयप्रतिज्ञार्थाव्यतिरेकात् शब्दानित्यत्वसाधने प्रतिज्ञान्तीतजलधिध्वन्यनित्यत्ववत् ।
दिक्रियाः कृत्वा मनुष्य एव पुनरपि स्यात् , मा भूत् सैरागसंयमादिदेवगतिनिर्वर्तनीयक्रियासम्बन्धी तद-5 नुरूपवैक्रियशरीरादिलब्ध्युत्कर्षभावः, तथा बह्वारम्भपरिग्रहादिनिरयायुःसंवर्तनीयकर्मभाक् तदनुरूपदुःखैकरसनारकत्वनिकृष्टफलानुभावी वा मा भूत् , परस्परानुरूपशालिबीजाङ्करादिहेतुकार्यभावप्रबन्धवद् विशिष्टविशिष्टबुद्धिस्वतन्त्रकारणप्रेरणाभावात् स्वानुरूपकार्यकारणानुबन्धसामर्थ्याभ्युपगमाञ्च नादृष्टाद्न प्रधानादेवैषम्यं स्यात् , दृष्टं च वैषम्यमध्ययनविद्यागमानधिगमादि, उत्कर्षापकर्षयोरन्यदतो न विमर्दक्षम कारणमस्तीश्वरकामचारेरणाहते, तदभिप्रायस्याप्रतिघातस्य प्रवृत्तिः कामचारः, तेन प्रेरणं भावानां प्रवर्तनं वाचा-10 राणामप्यनिष्टफलसम्बन्धो दुराचाराणामिष्टफलसम्बन्धः, तस्मात् सर्वमीश्वरप्रवर्तितं प्रवर्तते, नान्यथा ।
__ प्रयोगश्च-तनु-करण-भुवनसाधनायेत्यादि यावत् तक्षाधिष्ठितरथदारुगणवदिति । यथाप्रक्रियं शरीराणीन्द्रियाणि भुवनं च साधयितुमधितिष्ठद्भिरदृष्टैः प्रेरिताः परमाणवो वैशेषिकाणां प्रवृत्तानि सत्त्वादीनि प्रधानेन साङ्ख्यानामन्येषां वा भूतानि काल-स्वभाव-नियत्याद्यधिष्ठितांनीत्यभिमतानि प्रवानि सप्रवर्तकानि विशिष्टचेतनाधिष्ठितान्येव प्रवर्तन्त इति प्रतिज्ञा । सम्भूयैकार्थकारित्वादिति हेतुः, सम्भूयकारित्वं 15 पूर्वपूर्वशक्ततारतम्यकारणानुमानोक्तेः, परमाणुसत्त्वादयः सम्भूय तन्वादित्वेनावस्थिताः परस्परेण सम्भूय २३६-१ गमनाभ्यवहरणसुखदुःखानुभवरूपाद्युपलब्धिसत्त्वगुणाधारतादि कार्यं कुर्वन्तो दृश्यन्ते, तत् सिद्धमेषां सम्भूयैकार्थकारित्वम् । तक्षाधिष्ठितरथदारुगणवत् , रथार्थो दारुसङ्घातो रथदारुगणः, स तक्ष्णा विशिष्टचेतनेनाधिष्ठितस्तथैतानि । तथाऽचेतनत्वात् , तथेति तस्यामेव प्रतिज्ञायां अचेतनत्वात् इत्युपचयहेतुः, स एव रथदारुगणो दृष्टान्तः, वक्ष्यमाणो वा तुर्यादिवदिति । तनु-करण-भुवनानामचेतनत्वं च 20 सिद्धम् । अथवा स्थित्वा प्रवृत्तेस्तुर्यादिवत् , यथा तुरिवेमशलाकानलिकारंजवञ्चनिकासूत्रादीनि प्रागप्रवृत्तानि कञ्चित् कालं स्थित्वा प्रवर्तमानानि विशिष्टकुविन्दबुद्धयधिष्ठितानि पटनिष्पत्त्यै प्रवर्तन्ते तनुकरणभुवनानि तथेति ।
चेतनानधिष्ठितक्षीरदधिमेघादिवदनेकान्त इति चेत् । स्यान्मतम् - प्रतिविशिष्टबुद्धिना केनचिदनधिष्ठितेषु क्षीरदधिमेघादिषु सम्भूयैकार्थकारित्वाचेतनत्वस्थित्वाप्रवृत्तिधर्माणां दर्शनादनैका- 25 न्तिकता संशयहेतुतेति । एतच्च न, अदृष्टकर्तृकविषयप्रतिज्ञार्थाव्यतिरेकात्, अदृष्टोऽस्याः कर्ता विषयः सेयमदृष्टकर्तृकविषया प्रतिज्ञा, तस्याः प्रतिज्ञायास्तनुकरणभुवनधर्मिकायाः प्रतिविशिष्टबुद्धयधिष्ठितत्वसाध्यधर्मणः क्षीरदधिमेघादिधर्मिणामपृथक्त्वात् प्रतिज्ञान्तःपातित्वाद् विपक्षाभावे हेतुव्यभिचाराभावाद्
१ दृश्यतां पृ. २१४ टि० ११॥२'माधुत्कर्षा प्र०॥ ३°दतो विमर्द प्र०॥४°नीद्यप्र०॥५पूर्वपूर्वपूर्व भा० । दृश्यतां पृ० ३२६ टि० ४ ॥ ६ रज्वंच(ज?)निका प्र० ॥ ७ किञ्चित् भा० ॥ ८ स्थित्वा वर्त प्र० ॥
नय०४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org