SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ [ तृतीये विभ्युभयारे स्थित्वाप्रवृत्तचेतनानधिष्ठितेश्वरवदनेकान्त इति चेत् ईश्वरस्य वा चेतनाधिष्ठितता तस्यापि चान्याधिष्ठिततेत्यनवस्था । न चेतनाधिष्ठितप्रवृत्तित्वसाध्यधर्मत्वात् । देवदत्तादयस्तर्हि चेतनेश्वराधिष्ठिताः प्रवर्तन्ते सोऽपि वेश्वरस्तद्वच्चेतनान्तरा०धिष्ठितः । उच्यते च त्वया चेतनानामपीश्वराधिष्ठानं पुरुषवादनिरसनाय - अशो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । 5 ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥ [ महाभा० वन० ३०|२८ ] ३३० न्यायागमानुसारिणीवृत्त्यलङ्कृतम् २३६-२ " नानेकान्तः, शब्दानित्यत्वसाधने प्रतिज्ञान्तनतजलधिध्वन्यनित्यत्ववत्, यथा 'अनित्यः शब्दः ' इति प्रतिज्ञाते कृतकत्वं देशकालाभ्यामनवरते जलधिध्वनौ पुरुषादिभेदेन चानवरते सामादिशब्दे च 10 दृष्टत्वादनेकान्त इति वचनं तदाभासचोदनम् उदन्यत्सोमादिशब्दानामप्युपादानभेदभिन्नानाम् ' शब्द : ' इति श्रोत्रग्राह्यत्वाभेदेन प्रतिज्ञातानां शब्दत्वानतिक्रमात् पक्षान्तर्नीतत्वात्, तदनित्यत्वं कृतकत्वाविनाभावि शब्दादन्यस्य नित्यस्य कृतकस्यादर्शनाच्च जायते, देशकालोपादानभेदभिन्नस्याभेदेऽपि सत्युपलभ्यधर्मणोऽनुपलभ्यत्वाच्छब्दव्यक्तिधर्मित्वाच्च जात्युत्तरं च तस्मादनुत्तरमिति । स्थित्वा प्रवृत्तचेतनानधिष्ठितेश्वरवदनेकान्त इति चेत् । स्यान्मतम् - यथेश्वरः स्वयं प्राग15 प्रवृत्तान् स्थित्वा प्रवर्तयन्नपि चेतनान्तरेणानधिष्ठितः प्रवृत्तश्च तथा तन्वादीनि स्थित्वा प्रवृत्तानि स्युरित्यनेकान्तः । ईश्वरस्य वा चेतनाधिष्ठिततेत्यादि, एवमनैकान्तिकत्वानिच्छायां वा चेतनाधिष्ठितोऽसावीश्वरः प्राप्तः स्थित्वा प्रवृत्तेरदृष्टाणुप्रधानादिवत्, अतोऽन्येश्वरता ग्रहाधिष्ठितस्त्रीपुरुषादिवत् । तस्यापि चाधिष्ठातुरन्याधिष्ठिततेत्यनवस्था स्यादिति । एतच्च न चेतनाधिष्ठितप्रवृत्तित्वसाध्यधर्मत्वात्, नैष दोषः, चेतनाधिष्ठितप्रवृत्तित्वं हि साध्यते धर्मः स चाचेतनानामेव तद्धर्मिविषयत्वात् चेतनानां सिद्धत्वात् 20 प्रयोजनाभावाच्च । तनुकरणभुवनसाधनप्रवृत्तादृष्टाणु प्रधानादीनि ह्यचेतनानि धर्माणि चेतनाधिष्ठितत्वधर्मेण विशिष्टानि साध्यन्त इति प्रतिज्ञाविषयाज्ञानाददोष इति । देवदर्त्तादयस्तर्हि चेतनेश्वराधिष्ठिताः प्रवर्तन्ते, सामर्थ्यादचेतनधर्मिविषयं चेतनाधिष्ठानं साध्यत इति प्रतिज्ञाविषयव्यवस्थायां चेतनानां देवदत्तादीनां चेतनेश्वरेणधिष्ठानं न प्राप्नोति, ततो देवदत्ता - दिवच्चेतनानधिष्ठितानां तन्वादिसाधनार्थादृष्टाणु प्रधानादीनामनेकान्तः । सोऽपि "वेश्वरस्तद्वच्चेतनान्तरा25 धिष्ठित इति प्राप्तम् । उच्यते च त्वया इष्यत एव त्वया चेतनानामपीश्वराधिष्ठानम्, यथाअज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥ [ महाभा० वनप० ३०।२८ ] २३७.१ पुरुषवादनिरसनायेति श्लोकवचनप्रयोजनमाह, मा भूत् पुरुषकारणवाद प्रसङ्गः ' तदवस्थमाात्रं तन्वदृष्टप्रधानाण्वादि' इति, अत उक्तं भवता अज्ञो जन्तुरनीशोऽयमिति । १ जलावि ( जलादि ? ) ध्वन्य प्र० ॥ २त्सादिश प्र० । ३ वृत्ति य० ॥ ४°धिष्ठितेत्यादि प्र० ॥ ५ तनमेव प्र० ॥ ६ तास्तर्हि प्र० ॥ ७ ** एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ य० । त भा० ॥ ९** एतच्चिह्नान्तर्गतः पाठो भा० प्रतौ नास्ति ॥ १० वेश्व य० ॥ ८ न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy