________________
३३१
ईश्वरवादे आक्षेपाणां निरसनम्] द्वादशारं नयचक्रम् न, प्राग विशिष्टबुद्धिचेतनप्रतिज्ञानात्, विशिष्टबुद्धित्वमपि चास्यार्थानामर्थक्रियायोग्यत्वेन सन्निवेशकत्वात् ।
तन्वादीनि न विशिष्टबुद्धिना कृतानि पद्मनालकण्टकमयूरचन्द्रकादिवत् । न, दधिमेघादिवदुक्तोत्तरत्वात् । लघुप्रकाशगुरुवरणप्रवृत्तिनियमानां विशिष्टबुद्धिपूर्वकता, मिथःप्रत्यनीकसम्भूयैकार्थकारित्वात्, पाचकाधिष्ठितानलोदकौदन-5 साधनवत् । अन्योन्याभिभवनमिथुनवृत्तित्वविपरिणामादिति चेत्, न, परिणामस्यापि कार्यत्वात् । 'धर्मान्तरैक्य............
___ अत्रोच्यते - न, प्राग् विशिष्टबुद्धिचेतनप्रतिज्ञानात्, प्रागस्माभिर्विशेषितम् – 'विशिष्टबुद्ध्यधिष्ठितानि तन्वादीनि' । विशिष्टबुद्धित्वं चापराधीनं स्वातन्त्र्यम् । तत् कुतः सिद्धमिति चेत् , उच्यते - विशिष्टबुद्धित्वमपि चास्यार्थानामर्थक्रियायोग्यत्वेन सन्निवेशकत्वात् , तन्वादीनि विशिष्टबुद्धि-10 पूर्वकाणि अर्थक्रियायोग्यत्वेन सन्निविशिष्टावयवत्वात्, स्थानगमनशयनासनाहारादिप्रयोजनानि हि तन्वादिषु क्रियन्ते तक्रियायोग्यावयवसन्निवेशात् स्थपतिबुद्धिपूर्वकप्रासादवत् । तस्मादर्थक्रियायोग्यत्वेनार्थानां सन्निवेशकः स स्थपतिवत् । तस्माच्च विशिष्टबुद्धिरिति ।
__ अनैकान्तिकतोद्भावनार्थमाह - तन्वादीनीत्यादि वित् पद्मनालकण्टकमयूरचन्द्रकादिवदिति । नहि प्रशस्तशुभवर्णगन्धरसस्पर्शस्य लक्ष्मीनिलयस्य जलाशयालङ्करणस्य कमलस्य ग्रहणधारणोपभोगादिसाधन-15 भूते नाले केनचिदसूयया 'मा ग्रहीत् कश्चित्' इति कण्टकाः कृताः, नीलोत्पलनालादिष्वप्यतिप्रसङ्गात् । न च मयूरचन्द्रकाणामिन्द्रचापवर्णप्रतिस्पर्धिविचित्रवर्णता कृता कुड्यादिषु चित्रकरेणेव केनचिद् विशिष्टबुद्धिना, चित्रकरवेतनदानाद्यभावप्रसङ्गादिति। अत्रोच्यते - न, दधिमेघादिवदुक्तोत्तरत्वात् , क्षीरदधिमेघादिवत् पद्मनालकण्टकमयूरचन्द्रकादीनां तन्वादिवच्चादृष्टकर्तृकविषयप्रतिज्ञार्थाव्यतिरेकादनैकान्तिक
२३७-२ त्वाभाव इत्युक्तोत्तरमेतत् ।
20 एवं तावत् सामान्येन विशिष्टबुद्धिपूर्वकतोक्ता, प्रस्तुतकापिलमतापेक्षया चैवं प्रतिज्ञायते - लघुप्रकाशेत्यादि यावत् पाचकाधिष्ठितानलोदकौदनसाधनवदिति । यथा परस्परप्रत्यनीकयोरग्न्युदयोरप्रत्यनीकत्वविधायिना विशिष्टबुद्धिना पाचकेनाधिष्ठितयोः सत्यपि मिथः प्रत्यनीकत्वे तद्बुद्धिवशवर्तिनोः संहत्यकारित्वादोदनसाधनं दृष्टं तथा लघुगुरुणोः प्रकाशवरणयोः प्रवृत्तिनियमयोश्च मिथो विरुद्धयोरपि संहत्य महदादिभावेनैकार्थकारित्वाद् विशिष्टबुद्धिपूर्वकतेति । अन्योन्याभिभवनमिथुनवृतित्वविपरिणामोदिति चेत् । 25 स्यान्मतम् - सत्त्वरजस्तमसामेवाङ्गाङ्गिभावः पुरुषार्थमुद्दिश्य प्रवृत्तानां वैषम्यविपरिणामाद् महदादि
१ दृश्यतां पृ० २५२-१ ॥ २ 'धर्मान्तरेक्यापत्तिर्हि परिणामः कार्यत्वाद् रथादिवद् विशिष्टबुद्धिमद्विहितः' इत्याशयको मूलपाठः स्यादिति सम्भाव्यते ॥ ३ "मुखं शाश्वतं नेतरेषाम्” इति श्वेताश्वतरोपनिषदि पाठः ॥ ४ तस्याश्च प्र० ॥ ५ यावत्पनाल° भा० । यावत् नीलालत्पनाल य० ॥ ६°चन्द्रिका य० ॥ ७°चन्द्राकारणामि भा०॥ ८ रचेतन य० । रेचेतन भा० ॥ ९°कयोप्रत्यं प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org