________________
३३२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे अन्वाह चएको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ [ श्वेताश्व० ६।१२] साधनम् , नान्यः प्रयोक्तेति । एतच्च न, परिणामस्यापि कार्यत्वात् । तद्व्याचष्टे- 'धर्मान्तरैक्यादि, 5 परिणामो हि धर्मान्तरनिषेधो धर्मान्तराविर्भवनं च, तद्यभूतं कार्यम् , स तु परिणामः कार्यत्वात् पूर्ववत् प्रतिज्ञार्थाव्यतिरेकाद् रथादिवत् सोऽपि विशिष्टबुद्धिमद्विहितः । तस्मादयुक्तम् - स्वत एव परिणमन्ते सत्त्वादय इति ।
___ अन्वाह चेति जिनमतानुसारेण । एकोऽद्वितीयः प्रधानो वा वशी ज्ञत्वस्वातत्र्याभ्याम् निष्क्रियाणामज्ञास्वतत्राणाम् , परतत्रा ज्ञा अपि हि निष्क्रिया एव । बहूनामनन्तानां प्रधानाण्वादीनां कर्म10 करणसम्प्रदानापादानाधिकरणप्रधानशक्तीनामनन्तानामपि प्रवर्तयितृत्वात् स्ववशीकर्तुं शक्तवाद् वशीति । २३८.१ एकं बीजं प्रधानं महदादिविपरिणत्या बहुधा ब्रह्मादिस्तम्बान्तानन्तभेदभिन्नजगत्तया यः करोति सृजति
अधितिष्ठति आत्माभिप्रायानुरूप्येण तथा तथा व्यवस्थापयति । तमीश्वरं स्वतो भिन्नस्य भाव्यभवनस्य प्रधानादिसंज्ञस्य भावयितारमात्मस्थमात्मनि स्थितं क्षित्याद्यष्टमूर्तिसर्वगतं सर्वत्र तासां सद्भावाद् येऽनुपश्यन्ति तत्प्रसादादेव तज्ज्ञानानुसारेण योगाभ्यासप्रसादक्रमेण । केऽनुपश्यन्ति ? धीरा अविचलितयोग15 समाधयः । को योगः ?
प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा।
तर्कः समाधिरित्येष षडङ्गो योग उच्यते ॥ [ अमृतनादोप० ६ ] तत्रेन्द्रियाणां विषयेभ्यो मनसश्च प्रत्याहरणं प्रत्याहारः । प्राणायाम स्त्रिविधः-रेचकः कुम्भकः पूरक इति । तत्र रेचक आन्तरं वायुं बहिर्निष्काशयति नासिकाद्वारेण । पूरकः बाह्यमन्तः प्रवेश्य 20 पूरयति । कुम्भकः पूर्णकुम्भवदस्पन्दं वायुं सामीप्येनावस्थापयति । ध्यानमिष्टदेवताचिन्तनं वो । धारणा
यथाभ्यासं हृदयादिषु प्रदेशेषु मनसोऽवस्थापनम् , यथा पूर्वं नाभौ ततो हृदये कण्ठे नासिकाग्रे भ्रुवोर्मध्ये ललाटे मूर्द्धनीति । तर्कः शून्यागारगिरिकन्दराद्यकान्ते शुचौ देशे शरीरमृजु आयस्य दन्ताग्राणि जिह्वाग्रेण सन्धाय पल्यङ्क-स्वस्तिक-वीरासनाद्यासनं समपादादिस्थानं वा आस्थाय ध्यायतो मे समाधिर्भवतीति तर्कयेत् 'अनेनेत्थं कृतेन क्रियाविशेषेण आहार-विहार-स्वाध्यायादिना ध्यानसमाधिर्भवति' इति तदुपायविचार 25 ऊहस्तर्कः । ध्यानयोगाभिरतिः समाधिरित्येष षडङ्गो योगः। अनेन योगेन सर्वत्र क्षित्यादिमूर्तिमीश्वरं दृष्ट्वा पश्चादू भावितात्मा तमात्मस्थमेव पश्यति – यदत्र मम शरीरे कठिनं सा पृथिवी परमेश्वरमूर्तिः, यद् द्रवं तजलम् , ऊष्मा तेजः, चलं वायुः, शुषिरमाकाशम् , यच्चैतन्यं स यजमानः, चक्षुः सूर्यः, जिह्वा सोमो
१°त्वपरि' य० ॥ २°मादि चेत् प्र० ॥ ३ ताभ्यः प्र० ॥ ४ अत्र धर्मान्तरेत्यादि इत्यपि पाठः स्यात् ॥ ५°निषेधान्न धर्मा प्र० । अत्र 'निरोधो धर्मा इत्यपि पाठः स्यात् ॥ ६°त्वाशीति प्र०॥ ७ तर्कश्चैव समाधिश्च इति अमृतनादोपनिषदि अविस्मृतौ च तृतीयचरणः । श्लोकोऽयम् अविस्मृतावपि विद्यते ॥ ८ कुंभकधारक इति प्र०॥ ९ अत्र वाशब्दस्य किं प्रयोजनमिति न ज्ञायते । तस्य सार्थकत्वे कश्चन पाठोऽत्र त्रुटित इति सम्भाव्यते । “अथ ध्यानम् । तद् द्विविधं सगुणं निर्गुणं चेति । सगुणं मूर्तिध्यानम् , निर्गुणमात्मयाथात्म्यम् ।" इति शाण्डिल्योपनिषदि ॥ १० ललाट प्र० । “नाभिकन्दे च हृन्मध्ये कण्ठमूले च तालुके । ध्रुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत् ॥” इति जाबालदर्शनोपनिषदि ७१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org