________________
विध्युभयारनयस्वरूपशब्दार्थाद्यभिधानम् ] द्वादशारं नयचक्रम्
३३३ अयं विधेरुभयभाक् । विधियाख्यातो लोकवदनपवादप्रवृत्तिः, तस्य उत्सर्गात् स विधीयते, सर्वसर्वात्मकत्वाद् निरपवादः प्रवर्तत एव । नियमः सन्निधिप्रयोज्यसतोरप्रवृत्तेः तयोरसत्सत्त्वात् ।
सादृश्यसामान्यं च शब्दार्थः, सर्वसर्वात्मकत्वेऽपि च सृष्टयर्थवत्त्वाद् नाविकल्पः । वाक्यमपि च पृथक् सर्वपदम् , तस्मात् सर्वसर्वात्मकत्वादेव । द्रव्यार्थ-5 भेदोऽर्थः।
मनो वेत्यन्येष्वपि अवयवेषु यथासम्भवं येऽनुपश्यन्ति ते धीराः शाश्वतीं शान्तिमाप्नुवन्ति तेनैवेश्वरेण सायोज्यं निर्वाणं मोक्षमित्यर्थः । नेतरे प्रधान-पुरुष-नियत्यादिकारणिन इति ।
___नयस्वरूपाख्यानार्थमाह - अयं विधेरुभयभाक्, उभयं विधि नियमं च भजत इत्युभयभाक् । विधिर्व्याख्यातो लोकवदिति पूर्वमिति स्मारयति । पुनः सङ्केपेण व्याचष्टे - अनपवादप्रवृत्तिः, न 10 कञ्चिदर्थमयमपहरति किं न एतेन यदि सामान्यं यदि विशेषः? इत्यादि, तस्य विधेरुत्सर्गाद् विधानात् स विधिविधीयते, कस्मात् ? सर्वसर्वात्मकत्वाद् निरपवादः प्रवर्तत एव, प्रवर्तते, न कचिद् व्याहन्यते, अयं हि नयः 'सर्वं सर्वात्मकम्' इतीच्छति यत् प्राक् सूचितं सन्निध्यापत्तिव्याख्याने तदेवात्रापि वक्ष्यते, नियमः सन्निधिप्रयोज्यसतोरप्रवृत्तेः, यावेतावनन्तरोक्तौ सन्निधिर्भवति आपत्तिभवनसहाय ईश्वरप्रवो वा प्रयोज्यः प्रधानादृष्टाण्वादिर्भावः तयोर्द्वयोरप्यप्रवृत्तेरसत्त्वम् । किं कारणम् ? तयोर-15 सत्सत्त्वात् , तदुभयं हसदेव सदित्युच्यते स्वतन्त्रस्य कर्तुस्यैव भवनात् तद्विलक्षणस्याभवनापन्नस्याप्रवृत्तस्यासत्त्वात् खपुष्पवत् । तस्माद् नियमश्चेति विधिर्विधीयते नियम्यते चेति । ततोऽयं 'विधेरुभयभागिति ।
शब्दार्थोऽधुना - सादृश्यसामान्यं च शब्दार्थः, वाक्यार्थस्य वक्ष्यमाणत्वात् पदार्थ इति गम्यते । १०., सदृशसन्निवेशमानैर्मीयत इति समानम् , समानं हक्त्वं यत्र द्रष्टुणां तत् सदृशम् , सदृशं समानम् , समानभावः सामान्य जाति-लिङ्ग-प्रत्यया-ऽभिधानेष्विति, नान्यापोहो न समानवस्त्वतिरिक्ततत्तत्त्वादि वा 20 तदनुपपत्तेः । एतत् सामान्यं शब्दार्थः । ननु सामान्यमविकल्पात्मकं पुरुषनियत्यादि सर्वसर्वात्मकत्वादिति पूर्ववादप्रसङ्ग इति चेत्, नेत्युच्यते, सर्वसर्वात्मकत्वेऽपि च सृष्ट्यर्थवत्त्वात् , जगत्सृष्टिलक्षणोत्सर्गव्यापित्वात् तदर्थवत्त्वादस्य नयस्य 'नाविकल्पः' इति सम्भन्त्स्यते प्रकृतशब्दार्थः, अभिहितन्यायेन सत्त्वादिशब्दादितन्वादिविकल्पप्रत्ययस्य सत्यार्थत्वादद्वैतप्रत्ययस्यासत्यार्थत्वादिति पदार्थ उक्तः । वाक्यार्थोऽधुना - वाक्यमपि च पृथक् सर्वपदमिति, वाक्येऽवधारिते तदर्थावधारणसौकर्यात् । आख्यातशब्दः सङ्घातो 25 जातिः सङ्घातवर्तिनी [वाक्यप० २।१] इत्यादिषु वाक्यलक्षणविकल्पेषु अस्य नयस्य मतेन पृथक् सर्वं पदं वाक्यम् , वाक्यार्थः पृथक् पृथक् सर्वपदार्थ इति, यथा 'देवदत्त ! गामभ्याज शुक्लाम्' इत्यत्रैकैकं पदं
१ किञ्चि प्र० ॥ २ दृश्यतां पृ० ३४ पं० ४ ॥ ३°नात्म विधि प्र०॥ ४ यथाक्क सूचितं य० । यथाकः सूचितं भा० ॥ ५°वत्यापत्तिभवनसहायमीश्वर प्र०॥ ६ विधिरु प्र० । दृश्यतां पं० ९॥ ७°धाष्विति यः॥ ८ तत्वादि प्र०॥ ९ दृश्यतां पृ० ११४ पं० १८॥ १० यस्मा भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org