________________
३३४
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [तृतीये विध्युभयारे समाप्तिः सङ्ग्रहदेशत्वाद् द्रव्यार्थः। द्रव्यमपि गुणसन्द्रावः, गुणानामेकीभावेन द्रवणं तेनापि तद्वशित्वात्।
उपनिबन्धनमस्य दुविहा पण्णवणा पण्णत्ता-जीवपण्णवणा अजीवपण्णवणा च [प्रज्ञा पनासू० १.१] । किमिदं भंते ! लोएत्ति पवुञ्चति? गोयमा । जीवा चेव अजीवा चेव, एवं रयणप्पमा 5 जाव ईसीपब्भारा समयावलियादि [ ]।
वाक्यम् , किं कारणम् ? तस्मात् सर्वसर्वात्मकत्वादेव, यस्माद्देवदत्तोऽपि गवात्मकोऽभ्याजात्मकश्च तथा प्रवर्तनात् तत्तदापत्तेः, तान्यपि तथेति तस्मात् सर्वसर्वात्मकत्वात् पृथक् पृथक् सर्वं पदं वाक्यमिति । एतस्य विध्युभयनयस्य द्रव्यार्थभेदोऽर्थः पूर्वविरुद्धत्वान्नयानामविकल्पार्थाद् विधिविधिनयाद् विकल्पार्थ
द्रव्यार्थतया भिद्यते। २३९२ ऑर्षोक्तानां नयानां कस्मिन्नन्तर्भावः ? इत्यत आह - सङ्ग्रहदेशत्वाद् द्रव्यार्थः, सङ्ग्रहनयस्यापि
शतधा भेदात् तद्देशस्तदेकदेशो द्रव्यशब्दार्थः । कतमस्मिन् विग्रहे इति चेत् , उच्यते - द्रव्यमपि गुणसन्द्रावः। तद्वथाख्या - सम् एकीभावे, द्रु गतौ [पा० धा० ९४५], तस्माद् गुणानामेकीभावेन द्रवणम् , कारणे कार्यस्य सत्त्वात् सतामेव सुखादीनां रूपादीनां पृथक् पृथक् सन्निहितानामैक्यगमनाजीवपुद्गलपरिणामः सङ्गमनम् । आह - विध्युभयनयत्वात् सन्निहिततद्विधशक्तीश्वरपृथक्त्वादण्वादीनां 15 तैदेकैकसर्वात्मकत्वाच्च तेषां भवतु एकीभावः, मा भूदीश्वरस्येति । नेत्युच्यते, तेनापि तद्वशित्वात् सन्निहिततच्छक्तिनापि सहेश्वरेणैकीभावे तच्छक्तिव्यक्तेर्नान्यथेति । अत एव चास्य नयस्याद्वैतवादाद् भेदः ।
___ आह - किं स्वमनीषिकयैतदुच्यते ? आहोस्विदस्त्यस्य किश्चिदुपनिबन्धनमार्णमपि ? इति । 'अस्ति' इत्युच्यते, उपनिबन्धनमस्य -दुविहा पण्णवणा पण्णत्ता जीवपण्णवणा अजीवपण्णवणा चेति ।
अथवा 'किमिदं भंते! लोएत्ति पवुञ्चति ? गोयमा ! जीवा चेव अजीवा चेव, एवं रयणप्पभा 20जाव ईसीपब्भारा समयावलियादि ।
इति विध्युभयारस्तृतीयो नयचक्रस्य ॥
१ “से किं तं पन्नवणा ? पन्नवणा दुविहा पन्नत्ता, तं जहा-जीवपन्नवणा य अजीवपन्नवणा य ।" इति प्रज्ञा. पनासूत्रे पाठः॥ २ अर्थोक्तानां भा० । अथोक्तानां य० ॥ ३ तदै प्र० ॥ ४ ( व्यक्ति ? ) ॥ ५एवास्य भा० ॥ ६ दुविध भा० ॥ ७ भा० वि० विना पनत्ता॥ ८ किमिदं लोएत्ति पवुच्चइ गोअमा य० ॥ ९ ईसि भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org