________________
ॐ अहम्
अथ चतुर्थो विधिनियमारः। नन्वेवं त्वदुक्ता एवोपपत्तयः सर्वप्राणीश्वरत्वं साधयन्ति, सुखाद्यात्मसंवेद्यलक्षणत्वात् कर्मणः सुखाद्यदृष्टाणूनामपि च कर्मत्वात् कर्मप्रवर्तनाभ्युपगमात्
नन्वेवमित्यादि । पूर्ववदस्मिन् दर्शने न परितुष्यंत उत्थानमित्यभिसम्बन्धः । ननु इत्यनुज्ञापने, नेनु त्वदुक्ता एवोपपत्तयः प्रत्येकं सर्वप्राणीश्वरत्वं साधयन्ति, बाह्याध्यात्मिकसुखदुःखमोहमात्रत्वा- 5 जगतः सदसवेद्यमोहान्तरायभेदानां सुखादित्रयविपाकफलत्वानतिवृत्तेस्तदात्मसंवेद्यलक्षणत्वात् कर्मणः, सुखादिसंवेदनेनैव हि तत्कारणभूतं कर्म स्वकार्येण फलेन लक्ष्यतेऽनुमीयते सामान्यतोदृष्टानुमानेन देशान्तर- २४०-१ प्राप्त्या इव आदित्यगतिः । अतः कारणे कार्यस्य सत्त्वात् कार्ये कारणोपचारात् सुखादयः कर्म, अन्नप्राणत्ववत् । अदृष्टं धर्माधर्माख्यं परिष्टमेव कर्मेति, आत्मापि कर्म, कथम् ? तच्चादृष्टमात्मनो रागादिकर्मविपाकपरिणत्यवस्थस्य प्रयोगपरिणामात् कर्मतामापन्नम् । पुनरपि सुखाद् राँगादि, ततः पुनः कर्म, ततः सुखादि 10 फलम् । तच्च जीवपरिणामात्मसात्कृतकार्मणयोग्यपरिमाणपरमाणुसमूह एवात्मस्थमेकीभूतं चात्मना, यथोक्तम्
योगैः सकृत् स्वयोगाद् मूर्तः सन् बाह्यमर्थमादत्ते ।
आत्तस्य चानुभवनं बन्धं प्रति स च ततोऽनन्यः ॥ [ ] तच्च संवेद्यम् , कर्तुः संवेदनात् । ततः संवेद्यलक्षणत्वात् कर्मणः सर्वेश्वरतेति सम्भन्त्स्यते । कर्म 15 हि प्रतिप्राणि नियतकर्तृकं स्वविपाकसुखादित्वेन संवेय॑म् , तेनाणूनामेव कर्मत्वपरिणामापन्नानामात्मैकीभावेन वेदनं संवेदनम् , तेन च पुरुषेण तेषां तथा प्रयोजनात् कर्तृत्वम् , अतः सुखाद्यदृष्टाणूनामपि च कर्मत्वादित्याह । प्राक् प्रतिपादितं हि द्वयणुकत्र्यणुकादिसंयोगैः पृथिव्युदकव्रीह्यकुरादिपरिवृत्तिरूपेणात्मनस्तेषां चैकत्वं सर्वसर्वात्मकत्वं च । तस्मात् कर्मकारणां जगत्प्रवृत्तिं साधयन्ति त्वदुक्ता एवोपपत्तयः । इसश्च कर्मपूर्वकं जगत् , कर्मप्रवर्तनाभ्युपगमात् सर्वप्राणिनाम् , कर्मवशादेव हि प्राणिनः शुभाशुभ- 20 जातिकुलरूपाद्युत्कर्षापकर्षाः । यथोक्तम् -
१प्यता प्र० ॥ २ नन्व त्वं प्र० ॥ ३ रागादि फलं फलादि ततः पुनः कर्म य० ॥ ४ वात्मना प्र० ॥ ५ सत्वाह्यमर्थ भा० । सत्वाद्यमर्थ य० ॥ ६ °द्यं तेनाणू प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org