________________
10 २४०-२
३३६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [चतुर्थे विधिनियमारे सर्वप्राणिनां कर्तृत्वात् कर्तुरेव भवितृत्वाभ्युपगमात् तस्यैव भवितुश्च प्रयोजनात् सर्वेश्वरता।
ईश्वरात्तु कर्मणः प्रवर्तनं किं सतः, असतः ? तद्यद्यभूतस्य ततोऽद्वैतं तस्यापि तदात्मकत्वात् । भूतस्य चेत् प्रागपि तदस्ति, तच्च ईश्वरात्मैव तथाभूतेस्तथाप्रवृत्ते5स्तदापत्तेः, तथापि सुतरामद्वैतम् तदात्मकत्वादेव । अथ यस्मै प्रवर्त्यते यथा तस्मात तहि तत् तथाभूतं तद्वशात् तथेश्वरप्रवृत्तः, ततस्तस्य प्रवर्तने स एवेश्वरः।
स्वकर्मयुक्त एवायं सर्वोऽप्युत्पद्यते नरः।
स तथा क्रियते तेन न यथा स्वयमिच्छति ॥ [ ] यथाहारः काले परिणतिविशेषक्रमवशात्
सुखं पथ्योऽपथ्योऽसुखमिह विधत्ते तनुभृताम् । तथा धर्माधर्माविति विगतशङ्कामपि कथां
कथं श्रोतुं 'नेया विषयविषवेगक्षतधियः?॥ [ ] किश्चान्यत् , कर्तृत्वात् 'प्राणिनाम्' इति वर्तते । मा भूवन्नकृताभ्यागमकृतप्रणाशकञन्तरफलसङ्क्रान्त्यादयो दोषा इति सदसदाचाराः प्राणिन एव कर्तारो भोक्तारश्चाभ्युपगन्तव्याः, अन्यथा हिताहित15 प्राप्तिपरिहारार्थानां शास्त्राणामानर्थक्यप्रसङ्गात् । ततः कर्तुरेव भवितृत्वाभ्युपगमात् । कः कर्ता ? यः स्वतत्रः । यः स्वतत्रो भविताऽपि स एव । स्यान्मतम् - नन्वीश्वरः प्रयोक्तृत्वात् कर्तेत्युक्तम् , नेत्युच्यते, तस्यैव भवितुश्च प्रयोजनात् , सर्वः प्राणी प्रत्येकं भविता प्रयोजयति आत्मना आत्मानं स्वकृतकर्मविपाकात्मकरागद्वेषभयगौरवादिधर्मचोदितः । यथोक्तम् -
प्रयत्न एवापरजन्मजोऽयं सूर्यादयः श्राद्धजनप्रवादाः।
___ उत्पश्यतामेव हि दैवसिद्धिमुत्साहिनं श्रीर्भजते मनुष्यम् ॥ [ ] इति । तस्मात् तन्वादिप्रधानाण्वादिषु सत्स्वपि प्रवर्येषु तेषामेव कर्मसाद्भूतानां प्राणिनां भवितृत्वात् तत्तदापत्तेः सर्वप्राणिनां स्वातच्यात् कर्मवशप्रेरितकार्यकारणभावेन सततभवनात् तथाप्रवर्तकस्यैकैकस्य सर्वात्मकत्वात् सर्वेश्वरता इति साधूक्तम् ।
इदानीं त्वदिष्टेश्वरकारणत्वे तु दोषा उच्यन्ते - ईश्वरात् त्वित्यादि । इदं चिन्त्यम् - ईश्वरात् 25 कर्मणः प्रवर्तनं किं सतः, असतः ? किं चातः ? तद्यद्यभूतस्य कर्मण ईश्वरः प्रवर्तकः ततश्चाद्वैतं पुरुषादिवादवत् प्राप्तं तस्यापि तदात्मकत्वात् कर्मणोऽपीश्वरात्मकत्वादीश्वरस्यैव कर्मत्वेनोत्पत्तेः । भूतस्य
चेत् , अथ भूतस्य कर्मण ईश्वरात् प्रवृत्तिस्तत एतत् प्राप्तम् - प्रागपि तत् कर्मास्ति, कारणे कार्यस्य ११., सत्त्वात् । तच्चेश्वरात्मैव, तनुकरणादिभाव्यवत् तथाभूतेस्तथाप्रवृत्तेस्तत्तदापत्तेरियादिभिर्युक्तिभिः, २४१.१
तथापि सुतरामद्वैतं तदात्मकत्वादेव पुरुषावस्थावदीश्वरभाव्यतदात्मकाण्वादिभवनवद् वा । अथ यस्मै 30 प्रवर्त्यते यथा । अथाचक्षीथाः - न तत् कर्मेश्वरात्मकम् , किं तर्हि ? यस्मै प्राणिने शुभमशुभं वा नेरनारकतिर्यगमरविचित्रभेदरूपेण येन येन प्रकारेण प्रवर्त्यते तेनेश्वरेण तत्तत्प्राण्यात्मकं तदिति । अत्रोच्यते - तस्मात् तर्हि तत् तथाभूतम् , प्रत्येकं प्राणिनः कारणात् तस्मात् तस्मात् तथा तथा भूतमित्यर्थः,
१ नेमा प्र० ॥ २ कः स्व प्र० ॥ ३ कर्मत्वेनोपपत्तेः य० ॥ ४°दियुक्तिभिः भा० ॥ ५नरकतिर्यप्र०॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org