________________
ईश्वरनिरासः ]
द्वादशारं नयचक्रम्
३३७
अथ तत्कृतमपि पुरुषकारराजप्रसादवदीश्वरापेक्षं प्रवर्तते, कृततां प्रति तावत् खातच्यं सिद्धं तस्यैव, तत्कृतं हि कर्मैव ईश्वरप्रसादमुत्पादयति । द्रव्यादिपञ्चकापेक्ष सेवादिक्रियाफलप्रत्यक्षवत् ।
त्वदभिमतेश्वरस्तु यदि खतन्त्रः कर्मानपेक्षश्च प्रवर्तयति ततः प्रतिपुरुषनियामककर्माभावेऽनुपपन्नस्थानविग्रहेन्द्रियोपभोगाभ्युदय प्रत्यवायापवर्गादिविशेषमिदं 5 जगत् स्यात्, तुल्यकारणत्वात्, पटतान्तवत्ववत् ।
तद्वशात् तथेश्वरप्रवृत्तेः, ततस्तस्य प्रवर्तने स एवेश्वरः, कृतं त्वदिष्टमीश्वराख्यमात्मवशेन तथा प्रवर्तयतस्तस्य तस्य प्राणिन ईश्वरत्वम्, नेश्वरस्य तथा प्रवर्त्यत्वात् कर्मकरवत् ।
अथ तत्कृतमपि पुरुषकारराजप्रसादेवदीश्वरापेक्षं प्रवर्तते । अथ मतम् - प्राणिभिः कृतमपि कर्म ईश्वरकृतमेव, ईश्वरवशात् प्रवर्तमानत्वात् । तद्यथा - द्वयोः पुरुषयोस्तुल्यपुरुषकारयोरपि राजा 10 एकस्यैव प्रसीदति नेतरस्येति फलं राजवशेन दृष्टुं न पुरुषकर्मवशेन तथेश्वरवशात् तत्कर्मप्रवृत्तिरिति । अत्रोच्यते - कृततां प्रति तावत् स्वातन्त्र्यं सिद्धं तस्यैव प्रौणितोषितेश्वरेण प्राण्यनुष्ठेयकर्मप्रत्ययप्रसादोत्पत्तेः, तत्र च राज्ञो निमित्तमात्रत्वात् । पुरुषकृतकर्मजन्यप्रसादराजवदेव ईश्वरस्याप्यन्यतरपुरुषकृतकर्मप्रत्ययप्रसादोत्पादनात् कर्मस्वातन्त्र्यम्, तत्कृतं हि कर्मैवेश्वरप्रसादमुत्पादयति अन्यतरेण कृतं नेतरेणेत्यर्थः, २४१२ अन्यतरपुरुष कृतकर्मप्रत्ययस्येश्वरप्रसादस्य तेनोत्साद्यत्वात् तस्मात् पुरुषकर्मापेक्षत्वादीश्वरप्रवृत्तेः कर्मप्राधान्यं 15 प्रवृत्तौ फले चेति । स्यान्मतम् - राजवदेव कर्मणः प्रवृत्तौ तत्फलदाने 'चेश्वरोऽपेक्ष्यत्वात् प्रधानं कारणमिति । एतच्च न, यस्माद् द्रव्यादिपञ्चकेत्यादि यावत् प्रत्यक्षवत् । द्रव्यं क्षेत्रं कालं भावं भवं चापेक्ष्य हि कर्मणां प्रवृत्तिः कृतानां च फलं प्रत्यक्षत उपलभ्यते । स एव पुरुषः कर्ता द्रव्यं दाता देयं वा द्रव्यं वस्त्रसुवर्णादि । क्षेत्रं ग्रामनगरारण्यरणभूम्यादि यत्र तत् प्राप्यते फलम् । कालः कस्मिंश्चित् काले दिवा
पूर्वाह्ने सद्यचिराद्वेति । भावः 'प्रसन्नः कुपितः' इत्यादि । भवो हस्तिमहामात्रयोः शरीरानु - 20 रूपाहाराभरणादिदानमिति । अत्र प्रयोगः - परत्रापि प्राणिकृतफलं प्रतिनियतद्रव्याद्यपेक्षम्, सुखादिक्रियायाः फलत्वात्, द्रव्यादिपञ्चकापेक्षसेवादिफलवत् । तस्माद् द्रव्यादिपञ्चकापेक्षमपि कर्म फलदाने स्वतत्रप्राणिनियतेः प्रधानम् । नेश्वरं च कर्मापेक्षते, परतत्रत्वात् तस्येति ।
त्वदभिमतेश्वरस्त्वित्यादि । अस्तु तावदीश्वरस्य स्वातत्र्यं कर्मानपेक्षा च तस्य जगदुत्पादनार्थं प्रधानादि प्रवर्तयतः, प्राणिनां कर्माकारणत्वे तदनपेक्षायां च दोष उच्यते - तद्यथा ततः प्रतिपुरुषेत्यादि, 25 पुरुषं पुरुषं प्रति द्रव्यादिपञ्चकत्वेन नियामकं नियतं यदि कर्म न स्यात् ईश्वर एवाविशिष्टो हेतुः स्यात ईश्वराख्यस्य कारणस्याविशिष्टत्वादविशेषः स्यात् । कस्य ? देव मानुष-तैर्यग्योनाख्यप्राणिगणस्य । कीदृग् विशेष इति चेत्, उच्यते - स्थानविग्रहेन्द्रियोपभोगलक्षणो विशेषो न स्यात् । कस्मात् ? तद्विशेषहेतो
१ क्षतं य० । त्तं भा० ॥ २० | दादीश्व य० ॥ ३ प्राणिनोषितेश्वरेण प्र० । अत्र 'प्राणिनो विनेश्वरेण' इत्यपि पाठः स्यात् ॥ ४ वेश्व प्र० ॥ ५ ( इत्यादिः ? ) ॥ ६ स्वतंत्र । प्राणि भा० । ( स्वतन्त्रं प्राणि ? ) ॥ ७ प्र प्रतिषु नास्ति ॥ ८ कर्मकारणत्वे य० । कारणत्वे भा० ॥ नय० ४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org