________________
न्यायागमानुसारिणीवृत्यलङ्कृतम् [चतुर्थे विधिनियमारे .. अनपेक्षा च किं कर्मणः सतः, असतः ? यद्यसत एव, किम् ? क्रियाविलोपः। उक्तं च वः शास्त्रे - योग साधयिष्यन् निद्रातन्द्राप्रमादालस्यरहितश्च स्यात् [ ] इत्यादि । कर्माभावे च प्राणिनां सदा मुक्तत्वात् तन्वादिसृष्टिरीश्वरस्यानर्थिका । ततश्च भाव्यभावकभेदाभावाद् द्वैतकल्पनानिर्मूलता । अथ तु विद्यमानावेव धर्माधर्मो नापेक्षते स ततोऽकृताभ्यागमकृतप्रणाशी दोषौ स्याताम् , आक्षीणोदितकर्माशयबन्धमोक्षाभ्याम् ।
रीश्वरस्य समानत्वात् । स तु विशेषो द्रव्य-क्षेत्र-काल-भाव-भवापेक्षनियतेः प्रतिपुरुषं च नियामके कर्मणि २४२.१ तत्पश्चकापेक्षविपाके सति विशिष्टे स्यात् । दृष्टश्च सोऽस्मदभीष्टप्रतिनियतद्रव्यादिविपाककर्मप्राणिगणेश्वरत्वे
सति युज्यते - केषाश्चिदभ्युदयः केषाश्चित् प्रत्यवायः केषाश्चिदपवर्ग इति । अत्र प्रयोगः - अनुपपन्न10 स्थानविग्रहेन्द्रियोपभोगाभ्युदयप्रत्यवायापवर्गादिविशेषमिदं जगत् स्यात् , तुल्यकारणत्वात् ,
पटतान्तवत्ववत् , यथा पटस्तन्तुकारणत्वाविशेषात् तान्तवः न मार्तिकः सौवर्णो वेति जोत्याकृतिवर्णाद्यविशिष्टस्तथेदं जगत् स्यात्, न तु भवति । तस्मादयुक्तम् । अथवा प्रतिनियतद्रव्याद्यपेक्षविपाकाँनेकेश्वरकारणपूर्वकमेवेदं जगत्, प्रतिविशिष्टजात्याकृतिवर्णादिमत्त्वात् , घटपटरथादिवत् । तस्मात् कर्मापेक्षमीश्वरत्वं
सर्वप्राणिनामिति । 15 अभ्युपेत्यापि कर्मानपेक्षा तत्र दोषं ब्रूमः - अनपेक्षा चेत्यादि । किमियमीश्वरस्य धर्माधर्मलक्षणस्य
कर्मणोऽनपेक्षा सतः ? असतः। किश्चातः ? यद्यसत एव धर्माधर्मयोरसतोरेवानपेक्षा, किमिति प्रश्नः, ततः किमिति चेत् , उच्यते-क्रियाविलोपः, असतोर्हि तयोः खपुष्पखरविषाणयोरिव कापेक्षा ? ततश्च हिताहितप्राप्तिपरिहारार्थाः सर्वाः क्रिया विलुप्येरन् , इष्यन्ते च ताः, यस्मादुक्तं च वः शास्त्रे-योगं
साधयिष्यन्नित्यादि गतार्थं यावद् निद्रातन्द्राप्रमादालस्यरहितश्च स्यादित्यादि इत्याचारविधायि20 ग्रन्थस्मारणम् । किञ्चान्यत् , कर्माभावे चेत्यादि यावद् निर्मूलता, अकर्मत्वात् प्राणिनः सदा मुक्ताः
स्युः । ततश्च तन्विन्द्रियविषयसम्बन्धिनो न भवन्ति । ततश्च तन्वादिसृष्टिरीश्वरस्यानर्थिका । ततश्च २४२२ भाव्यभावकभेदाभावः । तस्माद् भाव्यभावकभेदाभावादीश्वरकर्मप्रधानाण्वादिद्वैतकल्पनानिर्मूलता।
एवं तावदसतः कर्मणोऽनपेक्षा न युक्ता । अथ तु विद्यमानावेव धर्माधर्मावभ्युदयप्रत्यवायनिःश्रेयसक्रियायां नापेक्षते स ईश्वरः स्वतन्त्रत्वात् प्रयोजनाभावाच्च तयोः विद्वद्वयाख्यानादिक्रियासु बलीवर्दानपेक्षण25 वदिति मन्यसे ततोऽकृताभ्यागमकृतप्रणाशी दोषो स्याताम् । कथम् ? यथासङ्ख्यमाक्षीणोदितकर्माशयबन्धमोक्षाभ्याम् । यावत्क्षीणकर्मणोऽपि बन्धाभ्युदयप्रत्यवायसम्बन्धी अकृताभ्यागमः स्यात् , कुतः ? धर्माधर्मनिरपेक्षत्वात् स्वभावपुरुषादिवादिमतवत् । उदितात्यन्ताशुभकर्माशयस्य नारकादेरपि मुक्त्यभ्युदयसम्बन्धी कृतप्रणाशः स्यात् धर्माधर्मनिरपेक्षत्वात् पुरुषस्वभावादिवादिमतवदेव, अनिष्टं चैतत् । एवं तावदीश्वरस्य कर्मानपेक्षा अनिष्टापत्तेरयुक्ता ।
१ "उदयखयखओवसमोवसमा जं च कम्मुणो भणिया। दवं खित्तं कालं भवं च भावं च संपप्प ॥ ५७५॥" इति विशेषावश्यकभाष्ये ॥ २ जातिः पटत्वम् , आकृतिः संस्थानम्, वर्णों नीलादिः ॥ ३ केनेके य० ॥ ४ दिरित्याचार प्र०॥ ५“यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः।१।१।२।"-वै० सू०। “अधर्मोऽप्यात्मगुणः कर्तुरहितप्रत्यवायहेतुः ।" इति प्रशस्तपादभाष्ये ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org