________________
ईश्वरवादनिरसनम्] द्वादशारं नयचक्रम्
३३९ __ अथ कर्मापेक्षः प्रवर्तते ततस्तान्येव कर्माणि ईश्वराणि, तेषां तस्यापि तथा भावयितृत्वात् । न स तानि तथा भावयति, तथा भाव्यमानत्वात्, अनापन्नस्यासत्त्वात् खरविषाणवत्, अखतत्रत्वाच्छब्दादिवत् । भवति कर्ता खतनः, तथा प्रवर्तनवृत्तत्वात् , तन्तुपटवत् ।
ईश्वरस्यापि च कर्मणि वृत्तेः सर्व एव पुरुषः सन्निहिततद्विधशक्तिः प्रतिविशिष्टबुद्धिप्रमाणीकृतक्रियः स्वतन्त्रः तथाप्रवृत्त्यापत्तेः आ ईश्वरात् प्रवर्तयितृत्वात्
अथैवंविधानिष्टापत्तिव्यावृत्त्यर्थ कर्मापेक्षः प्रवर्तते इति मन्यसे ततस्तान्येव कर्माणि कर्तणि स्वतत्राणि भवितणि ईश्वराणि । कस्माद्धेतोः ? तेषां तस्यापि तथा भावयितृत्वात् , यस्मात् तमपीश्वरं तेन तेन प्रकारेण भवन्तं भावयन्ति तान्येव कर्माणि, न स तानि कर्माणि तथा भावयति, कुतः ? तथा भाव्यमानत्वात् प्रधानेन शब्दादिवदिति वक्ष्यमाणदृष्टान्तत्वात् । यथा च पृथिव्युदकादीन् व्रीहिरेव 10 तथा भावयति पृथिव्याद्यपेक्षोऽपि तथापत्तेः, न पृथिव्यादयस्तथानापत्तेः; एवं कर्माण्येवेश्वराणि तथा भावयितृत्वात् , न त्वदिष्टेश्वरस्तथा भाव्यमानत्वादिति । स्यान्मतम् -पृथिव्युदकादीन्यपि भावयन्ति एव व्रीहिं व्रीहित्वेनानापन्नान्यपीति । एतच्चायुक्तम् , तेषामसत्त्वात् , असत्त्वं च अनापन्नस्यासत्त्वात् खर- २४३-१ विषाणवदिति सन्निधिभवनदूषणे प्रक्रान्तमेव न्यायं दर्शयति । अस्वतत्रत्वाच्छब्दादिवदिति एष दृष्टान्तः सर्वत्र प्रधानकारणत्वसाधर्म्यणोपात्तः कापिलान् प्रति, यथा प्रधानस्वातव्यात् तत्कारणत्वं गमयति शब्दादि 15 आरातीयकारणत्वाभावं चास्वातच्यात् तेषामिति नाव्यक्तमिति व्यक्तमित्येव वा प्रधानता भवतीति यथा स्वयैवोक्तं तथैवेश्वरोऽस्वतत्रत्वात् कर्मापेक्षत्वादकारणं तान्येव कारणानीति गमयति ताभिरेव त्वदुक्ताभिरुपपत्तिभिः । अतो यदुक्तं त्वंदुक्ता एवोपपत्तयः सर्वप्राणीश्वरतां साधयन्तीति तत् साधु । तद्भावयन्नाह - भवति कर्तेत्यादि प्राग्व्याख्यातार्थान्येव भवत्येकार्थपदानि यावत् तन्तुपटवदिति । यथा तन्तव एव पदनिष्पादनेन भवन्तस्तथाप्रवर्तनवृत्तत्वात् पटकारणानि तथा पुरुषा एव कर्तार इति ।
20 ईश्वरस्यापि चेत्यादि तासामेवोपपत्तीनामितोमुखतां भावयति अनेनापि ग्रन्थेन । यथा त्वया प्रागुपपादितं ब्रुवता पूर्वपूर्वशक्ततारतम्येन सन्निहिततद्विधशक्तिर्विशिष्टवुद्धिरिति तथेहापि ताभिरेवोपपत्तिभिस्तैरेव च तन्त्वंश्वादिभिर्दृष्टान्तैः कर्मणि वृत्तेः कर्मनिष्ठत्वात् सृष्टयतिशयप्रकर्षस्य कर्मणां पुरुषत्वात् सर्व एव पुरुषः सन्निहिततँद्विधशक्तिः प्रतिविशिष्टबुद्धिप्रमाणीकृतक्रियः, प्रतिविशिष्टबुद्धिना तेनैश्वरेणान्यैश्च शास्त्रकारैर्विश्वदृश्वभिरपि प्रमाणीकृतास्तक्रियास्तक्रियाफलपरिज्ञानार्थत्वाच्छास्त्रकारप्रभृतीनां 25 सिद्धशास्त्राणामनतिशङ्कयत्वाच्च । स च स्वतन्त्रः, तथाप्रवृत्त्यापत्तेः तेन प्रकारेण कर्मिप्राणिप्रवृत्ति- २४३-२ वदीश्वरस्यापि प्रवृत्त्यापत्तेः, एश्वरात् प्रवर्तयितृत्वादिति, आ ईश्वरात् यावदीश्वरस्तावत् प्रवर्तयितृत्वा
१ दृश्यतां पृ. ३२५ पं० ३ ॥ २ तथा चा प्र० ॥ ३ वीहिवीहित्वेनमनाप प्र० ॥ ४ नाव्यक्तमित्यव्यक्तस्येव वा भा० । नाध्यक्तमिव व्यक्तस्येव वा य० । अत्र 'न व्यक्तमित्यव्यक्तमित्येव वा' इत्यपि पाठः स्यात् । अथवा 'नाव्यक्तमित्येव व्यक्तमित्येव वा' इत्यपि पाठः स्यात् ॥ ५ दृश्यतां पृ० ३३५ पं० २॥ ६त्येकोकार्थ' भा० । 'त्येकधिकार्थ य०॥ ७ तद्विविध भा० । दृश्यतां पृ० ३२६ पं० १, टि० ५॥ ८याफल य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org