________________
३४०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [चतुर्थे विधिनियमारे कारणम्, शक्तिमत्प्रवृत्त्यप्रवृत्तिदर्शनात् पत्रादिवत् , यावदे[वमे]वास्य सर्वत्वात् सर्वमूर्तिता । अपि च उत्कर्षापकर्षदर्शनात् प्रवृत्त्यनुभवफल...''पुरुषाहतेऽप्रवृत्तेरेव उत्कर्षापकर्षो न निबीजेश्वरकामचारेरणात्।
कर्मापेक्षत्वेऽपि नेश्वरवैयर्थ्यम् , तदभावे प्रवृत्त्यभावात्, दार्वाद्यपेक्षरथ5 कारवदिति चेत्, न, इतरत्रापि तुल्यत्वात् । तद्यथा-ईश्वरापेक्षत्वेऽपि न कर्मवैयर्थ्यम्, तत एव, रथकारापेक्षरथदारुवत् । प्रवर्तयितृत्वाच्चेश्वरस्य तथा प्रवर्तकं कर्म, कर्मणः पुरुषः, इति पुरुष एवेश्वरः। एवं प्रतिघातप्रसङ्गोऽपीश्वरस्य, सापेक्षप्रवृत्तित्वात् , रथकारवत् । यथा रथकारे उपादानोपकरणासामर्थ्यवैकल्ययोः
दीश्वरस्य प्रवर्त्यत्वात् कारणानि सर्वपुरुषाः । शक्तिमत्प्रवृत्तीत्यादि, ईश्वरस्यापि तेषामेव शक्तिमतां पुरु10 षाणां शक्तिसाकल्यसैन्निध्यसन्निध्योः प्रवृत्त्यप्रवृत्तिदर्शनादिति तदेवोपपत्तिजातं स्मारयति यावत् पत्रादिवदिति, आदिग्रहणाद् रजोवत् प्रवृत्तिवदित्यादि, पूर्ववदेव ग्रन्थं चातिदिशति-यावदेवमेवास्य सर्वत्वात् सर्वमूर्तिता, 'एवमेव चास्य क्षित्याद्यष्टमूर्तितोच्यते' इत्येतस्मादवघेरारातीयो ग्रन्थः सर्वो द्रष्टव्यस्ताभिरेवोपपत्तिभिः सर्वप्राणीश्वरत्वे तद्वदेवेति । पुनरपि चोत्कर्षांपकर्षदर्शनादित्यादिरीश्वरसर्गसाधनार्थों
ग्रन्थः प्रवृत्त्यनुभवफलेत्यादिस्तद्वदेव यावत् पुरुषाहतेऽप्रवृत्तरेव उत्कर्षापकर्षों न निर्बीजेश्वरकाम15 चारेरणादिति कर्मकारणत्वार्थो गतार्थः । तस्मात् कर्मापेक्षत्वात् सर्वसर्वात्मकत्वात् सर्वेश्वरतेति ।
__कर्मापेक्षत्वे इत्यादि यावद् रथकारवदिति चेत् । स्यान्मतम् – कर्मापेक्षत्वेऽपि न व्यर्थमीश्वरकारणत्वम् , तदभावे प्रवृत्त्यभावात् । यत्र यदभावे प्रवृत्त्यभावः प्रवर्तकस्य तत्रेश्वरस्याप्यवैयर्थ्यं दृष्टम् , यथा रथकारप्रवृत्तौ स्थार्थं दार्वाद्यपेक्षणमिति चेन्मन्यसे, तन्न, इतरत्रापि तुल्यत्वात् । तत् कथमिति
चेत्, प्रयोगत एव दयते विपर्ययसिद्धिः, तद्यथा-ईश्वरापेक्षत्वेऽपि न कर्मवैयर्थ्यम् , तत एव 20 हेतोः, रथकारापेक्षरथदारुवदिति विरुद्धैकान्तिकः ।
तदुपसंहृत्याह-प्रवर्तयितृत्वाच्चेश्वरस्येत्यादि यावत् पुरुष एवेश्वर इति । प्रवर्तयिता हीश्वरः, २४४-१ दासस्य स्वामिवत् । तच्च प्रवर्तयितृत्वं कर्मणः सिद्धमुक्तविधिना प्रवर्त्यत्वं चेश्वरस्य, तथा प्रवर्तकं कर्म,
कर्मणः पुरुषः प्रवर्तत इति प्रकृतत्वाद् गम्यते, इतिशब्दो हेत्वर्थे, तस्मात् पुरुष एवेश्वरः सर्व इति । एवं कर्मेश्वरतापि तु यथैवं तथोत्तरत्र भावयिष्यते । पुरुषस्य तावत् सर्वस्येश्वरत्वमुक्तमिति । एवं प्रतिघात26 प्रसङ्गोऽपीत्यादि । किश्चान्यत् , प्रतिहन्यते च त्वदभिमतेश्वरः सापेक्षप्रवृत्तित्वाद् रथकारवत् । अस्य साधनस्य व्याख्या- यथा रथकार इत्यादि, उपादानं दारु, उपकरणानि वास्यादीनि, तेषामसामर्थ्य वैगुण्यं सतामेव वैकल्यं त्वन्यतमाभाव एव, तत्र प्रतिघातो 'दृष्टः' इति वाक्यशेषः । तथेत्यादि दाल
१ दृश्यतां पृ० ३२८ पं० १॥ २ दृश्यतां पृ० ३२८ पं० ३॥ ३°सन्निध्योः प्र प्र०॥ ४ दृश्यतां पृ० ३२७ पं० २ ॥ ५ चादिशति प्र०॥ ६ मादवेरारा प्र०॥ ७ दृप्रवृ प्र०॥ ८°कारत्ववदिति य० ॥ ९ प्यवैषम्यं प्र०॥ १० रथार्थदार्वा पा० २० ही० ॥ ११ (प्रवर्तक इति ? )॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org