________________
ईश्वरवाद निरसनम् ]
प्रतिघातस्तथा अपचितकुशलमनुजिघृक्षतः उपचितकुशलं चोपजिघांसतस्तस्य यद्यप्रतिघातः स्यात् स्यात् स्वातन्त्र्यम्, न तु भवति, पुरुषकृतकर्मप्रत्ययेन ईश्वरप्रवृत्तिप्रतिघातदर्शनात् ।
द्वादशारं नयचक्रम्
यत्तूच्यते-सर्गादी अप्रतिहतस्वशक्तिवशादेव शरीरादीन्युत्पाद्य प्रतिबुद्धानां प्राणिनां धर्माधर्ममर्यादामुपदिशति, मध्यकाले च तेषां स्वमर्यादानुष्ठानानुरूपेण 5 फलेन इष्टेनानिष्टेन वा अनुग्रहं करोति, अंयमनुग्रह एव तेषां तदृणमोक्षणवत् मोक्षमार्गोपसेविनश्व सायोज्यं गमयति, अन्तकाले च शरीरेन्द्रियभूतवत् कुशलाकुशले संहृत्य प्रलयक्षपायां स्वापयति, यदपि चाकाङ्क्षयते तस्य सर्वज्ञत्वं सर्वकारि
३४१
न्तिकम्, सापेक्षप्रवृत्तित्वसाधर्म्यानुगमेनोपनयनं रथकारे कार्यम्, वैधर्म्येण तु दर्शयति - अपचितकुशलमनुजिघृक्षत इत्यादिना । पुरुषमपचितशुभकर्माणमनुग्रहीतुमिच्छतस्तद्विपरीतं चोपहन्तुमिच्छतस्तस्येश्वरस्य 10 यद्यप्रतिघातः स्यात् स्यात् स्वातन्त्र्यम्, न तु भवति, अपेक्ष्यस्य कर्मणः स्वकृत कर्मवशस्य प्रत्ययेन तद्वशेन ईश्वरस्य प्रवृत्तिप्रतिघातदर्शनात् । न चेदेवमिष्यते, शुभकर्माणं दुःखेनेतरं च सुखेन योजयेत् । तथा च ‘अकृताभ्यागमकृतप्रणाशौ स्याताम्' इत्युक्तम्, तच्च नेष्टम् । तस्मात् पुरुषकर्मप्रत्ययेन ईश्वरप्रवृत्तिप्रतिघातोऽस्ति प्रवृत्तिप्रतिघाताच्च नैश्वर्यं तस्य प्रतिघात्यत्वात् पृथग्जनवदित्यनीश्वरः स इति ।
यत्तूच्यत इत्यादि यावत् प्रलयक्षपायां स्वापयतीति । कालभेदेन सापेक्षनिरपेक्ष प्रवृत्तिपक्षयोर- 15 भ्युपगमादुभयथापि सिद्धेः प्रवृत्तिप्रतिघातासम्भवाददोषः । तद्यथा - सर्गादौ धर्माधर्मविकलानां शरीरेन्द्रियविषयोत्पादने निरपेक्षोऽप्रतिह्तस्वशक्तिवशादेव शरीरौदीन्युत्पादयति, तांश्चोत्पाद्य बुद्धानां सुप्तोत्थि - २४४-२ तानां धर्माधर्ममर्यादामुपदिशति 'तपोदानयज्ञादि कुरुत, मा कार्ष्ट हिंसानृतस्तेया [ गम्या ] गमनादीनि' इति, तयोश्च धर्माधर्मयोः सीमाच्छेदेन व्यवस्थां मर्यादामुपदेशेन व्यवस्थापयति । मध्यकाले च तेषां प्राणिनां यथास्वं धर्माधर्ममर्यादामनुतिष्ठतामनुष्ठानानुरूपेण फलेनेष्टेन अनिष्टेन वा विषयोपभोगलक्षणेनानुग्रहं 20 करोति यदा तदा सापेक्षोऽप्रतिहतस्वशक्तिवशादेव । स्यान्मतम् - धर्मानुष्ठानफलोपभोगेन इष्टेनानुग्रहो युज्यते, कथमधर्मानुष्ठानफलोपभोगेनानिष्ठेन युक्तः ? इत्यत्रोच्यते - अयमनुग्रह एव तेषां तदृणमोक्षणादिति । ये पुनस्तदुपदिष्ट मोक्षमार्गप्रस्थितास्तांश्च मोक्षमार्गोपसेविनः सायोज्यं गमयति । कोऽसौ मोक्षमार्गः ? माहेश्वरो योगविधिः । तानात्मना सह युङ्क्ते इति सयुक्, तद्भावः सायोज्यं तेषामीश्वरसाद्भावः, गमयति नयति । एतद् मध्ये सापेक्षमैश्वर्यम् । पुनरप्यन्तकाले च शरीरेन्द्रियभूतवत् यथा 25 शरीरेन्द्रियाणि भूताख्यांश्च विषयानुपसंहरति तथा कुशलाकुशले तेषां धर्माधर्मावपि संहृत्य तान् पुरुषान् सर्गाहनि संसृतवतस्तेन धर्माधर्मफलेनेष्टानिष्ोपभोगात्मकेन दिवसव्यायामपरिश्रमाभिभूतान् बालकान् पुत्रकानिवं पिता सर्वपुरुषान् संसारहेतुभूतधर्माधर्मानुपसंहृत्य प्रलयक्षपायां स्वपयतीत्यन्तेऽपि निरपेक्षोऽप्रति
Jain Education International
"
१ दृश्यतां पृ० ३४५ पं० २४ ॥ २ दृश्यतां पृ० ३४३ पं० १७ ॥ ३ प्रवृत्तिघात प्र० ॥ ४ दृश्यतां पृ० ३३८ पं० ५ ॥ ५ सापपत भा० । सायपती य० । दृश्यतां पृ० ३४४ पं० १४ ॥ ६ हतः प्र० ॥ ७ ( दीनुत्पा' ? ) ॥ ८ हिंसां मा कार्षु य० ॥ ९ ( धर्माधर्मावुपसंहृत्य ? ) ॥ १० सापयती प्र० । दृश्यतां पृ० ३४४ पं० १४ ॥
For Private & Personal Use Only
www.jainelibrary.org