________________
३४२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [चतुर्थे विधिनियमारे स्वात् तदपि नैव, अस्यानर्थकार्थप्रवृत्तबालादिप्रवृत्तिवदज्ञक्रियासाधाद् धर्माधर्मोपदेशप्रवृत्तेरनर्थकार्थविषयत्वात् । येस्याभावे यस्याभावो यस्य च भावे यस्य ध्रुवो भावस्तत् कारणम् , इतरत् कार्यम् । न च धर्माद्यभावे शरीरादेरभावः, सर्गादौ शरीरादिनिर्वृत्यभ्युपगमात् । न च धर्मादिभावे ध्रुवः शरीरादेर्भावः, अदत्त5 फलकुशलाकुशलसंहारादन्तकाले।
यथा चोपदेशेऽनभिज्ञत्वं तस्य तथा प्राणिनामप्यनुग्रहक्रियाया अपि यदा
हतस्वातव्यः स एवेष्टः । तस्मादुभयथापि अपेक्ष्यानपेक्ष्य च तदैश्वर्यसिद्धेरदोष एव दोषाभिमत्या त्वयोद्भावित इति परपक्षः।
अत्र वयं ब्रूमः - तत्कारित्वात् तज्ज्ञत्वमिति यत् सर्वज्ञत्वमाकाङ्कयते तदपि नैव । कर्मणामेव तन्निरपेक्ष 10 प्रवृत्तौ तस्य प्रतिघातादनैश्वर्यं सृष्टप्राणिसंसारकाले सर्गाद्यन्तयोश्च अकृताभ्यागमकृतप्रणाशादिदोषास्तदवस्था २४., एवेत्यपरिहृतदोषत्वाद् न किञ्चिदेतत् । अन्योऽपि च दोषः -यदपि चाकायते तस्य सर्वज्ञत्वं
सर्वकारित्वात् करणस्य ज्ञानाविनाभावात् सर्वं चेत् करोत्यवश्यं सर्वमसौ वेत्तीति सर्वकारित्वात् सर्वज्ञ इति, तदपि नैवोपपद्यते, अस्यानर्थकार्थप्रवृत्तबालादिप्रवृत्तिवदज्ञक्रियासाधादज्ञोऽसौ बालवद
समीक्षितप्रवृत्तित्वादित्येतदनया कल्पनयास्माकं त्वया प्रत्यक्षीक्रियते, किं कारणम् ? धर्माधर्मोपदेशप्रवृत्ते15 रनर्थकार्थविषयत्वात् , अनर्थको धर्माधर्मावर्थो ह्यस्य धर्माधर्ममर्यादोपदेशस्य । न च तयोर्धर्माधर्मयोः
शरीरादिकारणत्वम् , विनापि धर्माधर्ममर्यादया सर्गादौ प्रभुसृष्टेः शरीरादिनिर्वृत्त्यभ्युपगमात्, धर्माधर्ममर्यादायां सत्यामेव च प्रलयकाले शरीराद्यभावाभ्युपगमाञ्चेश्वरसामर्थ्यादेव । तस्मात् तयोर्नास्ति कारणता, कारणलक्षणायोगात् । किं तत् कारणलक्षणमिति चेत्, उच्यते - यस्याभावे इत्यादि गतार्थ यावदितरत्
कार्यमिति । कथं तदद्योग इति चेत् , उच्यते-न च धर्माद्यभाव इत्यादिना ग्रन्थेन तयोः कारणाभिमत20 योरभावेऽपि शरीरादेः कार्यस्य भावं भावेऽपि चाभावमुपदेशसाफल्यानभिज्ञत्वं च दर्शयति यावददत्तफलकुशलाकुशलसंहारादन्तकाले इति गतार्थत्वाद् न विवियन्तेऽक्षराणि ।
किश्चान्यत् , यथा चोपदेश इत्यादि यावत् क्रियाया अपि अनभिज्ञत्वमिति वर्तते । न केवलमुपदेशानभिज्ञत्वमेव तस्य, किं तर्हि ? प्राणिनामनुग्रह क्रियानभिज्ञतापि इति तदतिदिशति । तत् कथं
१ "सर्वकर्तृत्वसिद्धौ च सर्वज्ञत्वमयत्नतः । सिद्धमस्य यतः कर्ता कार्यरूपादिवेदकः ॥ ५४ ॥ अथ सर्वज्ञत्वं कथं तस्य सिद्धं येनासौ निःश्रेयसाभ्युदयकामानां भक्तिविषयता यायादित्याह--सर्वकर्तृत्वसिद्धी चेत्यादि । तथा चाहः प्रशस्तमति. प्रभृतयः - 'सकलभुवनहेतुत्वादेवास्य सर्वज्ञत्वं सिद्धम्, कर्तुः कार्योपादानोपकरणप्रयोजनसम्प्रदानपरिज्ञानात् । इह हि यो यस्य कर्ता भवति स तस्योपादानादीनि जानीते, यथा कुशलः कुम्भादीनां कर्ता तदुपादानं मृत्पिण्डमुपकरणानि च चक्रादीनि प्रयोजनमुदकाहरणादि कुटुम्बिनं च सम्प्रदानं जानीत इत्येतत् प्रसिद्धम् , तथेश्वरः सकलभुवनानां कर्ता स तदुपादानानि परमाण्वादिलक्षणानि तदुपकरणानि धर्माधर्मदिकालादीनि व्यवहारोपकरणानि सामान्यविशेषसमवायलक्षणानि सम्प्रदानसंज्ञाकांश्च पुरुषान् जानीते' इति । अतः सिद्धमस्य सर्वज्ञत्वमिति ।" इति कमलशीलरचितायां तत्त्वसङ्ग्रहपञ्जिकायाम् , पृ० ४३-४४ ॥२ दृश्यतां पृ० ३४५ पं० १९ ॥३°षः तद प्र०॥४शानाभावात् प्र०॥ ५त्येवश्यं प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org