________________
ईश्वरनिरासः] द्वादशारं नयचक्रम्
३४३ तदेदं व्यामूल्यैव .... किम् .... 'उपभोगविभाजनानुग्रहक्रियया अतिगरीयस्या ? इति अत्यन्तपरवशत्वमेवैश्वर्यमुच्यते । अनुग्रहोऽपि विपर्ययेणोच्यते, दुःखहेतुदुःखात्मकत्वाभ्याम् , विषकृतभोजनक्लेशनवत् । तत्सायोज्यगमनेऽप्येवम् ।
एवं च तत् साध्वेव यत्त्वाशङ्कयते त्वया 'आद्यन्तवद् मध्येऽपि ईश्वरप्राधान्यादीश्वरवशादेव प्रवृत्तौ फलसङ्करप्रसङ्गः, तत्प्रसक्तौ क्रियाविलोपः, ततश्च सर्वनिर्मोक्षः सर्वानिर्मोक्षो वा [ ] इति ।
भाव्यते इति चेत्, उच्यते यदा तदेदं व्यामूल्यैवेत्यादिर्भावनाग्रन्थः यावदुपभोगविभाजनानुग्रह-२४५-२ क्रिययाऽतिगरीयस्या किमिति वर्तते ? तस्मिन् हि काले प्राणिनामन्धलकवत् प्रवृत्तेरीश्वरस्यैव तेषां शरीराद्युत्पादयामि, धर्माधर्ममर्यादा प्रणयामि, तत्र प्रवर्तयामि, तत्फलैरनुबध्नामि, तान् प्राणिनः फलानुरूपमिष्टमनिष्टं चोपभोगं विभज्यानुगृह्णामि' इत्येवमादिका यानुग्रहक्रिया तयानुग्रह क्रियया क्लिश्यमानस्यानेक-10 पुरुषस्त्रीनपुंसकजनसाधारणस्येव भृतकस्यौतिक्लेशः । इति हेत्वर्थे, तस्मादतिक्लेशत्वादत्यन्तपरवशत्वमेवैश्वर्य शीतलिकापर्यायशब्दाभिधेयेलूतावदुच्यते इति ।
किश्चान्यत् , अनुग्रहोऽपि विपर्ययेणोच्यते अननुग्रह एव सन् 'अनुग्रहः' इति । किं कारणम् ? दुःखहेतुदुःखात्मकत्वाभ्याम् , दुःखहेतुत्वादिष्टोपभोगस्य हिंसाद्यात्मनोऽर्जन-रक्षण-क्षय-सङ्गदोषे दुःखात्मकत्वाच्च अनिष्टोपभोगस्य, दुःखात्मकत्वाच्चाननुग्रह एवासौ । दृष्टान्तः - विषकृतभोजनक्लेशनवत्, 15 यथा कश्चित् क्रूरमूर्खनृपतिः स्ववशान् भृत्यान् विषमिश्रमाहारं भोजयन् 'अनुगृह्णामि वः' इति ब्रूयात् तथा त्वदभिमतेश्वरोऽपीति । यच्चोक्तं 'दुःखमपि तदृणमोक्षणवदनुग्रह एव' इति, एतदप्ययुक्तम् , संसारमोचकव्याधचण्डालादिमारितसत्त्वानुग्रहप्रसङ्गात् सत्त्वनिकायकलिकलुषकृतात्मोपनिपातनेन अज्ञाबोधे सत्त्वानुग्रहवदज्ञानप्रसङ्गाच्च । तत्सायोज्यगमनेऽप्येवम्, ईश्वरेण किल सायोज्यं मोक्षः, स्वात्मना सायोज्यं गमयन्नप्यसौ प्राणिगणमतिक्लेशभाजनमेव करोति सृष्टसंसारक्लिष्टेश्वरत्वस्योक्तलक्षणस्यामोक्षशब्दाभिधेयत्वादल-20 मैश्वर्येण मोक्षेण च तादृशा सदा सर्वपुरुषव्यापारोद्वहनायासात्मना । तस्माद् वरमात्माधीनयथेष्टचेष्टं २४६.१ दौर्गत्यमपीति ।
एवं च तद् यत्त्वाशङ्कयते त्वया आद्यन्तवदित्यादिना ग्रन्थेन 'विनेश्वरेण किलैते दोषाः' इतीष्टास्ते सहापीश्वरेण तथैवैव भवन्तीति तदर्शयन्नाह -साध्वेवेयादि गतार्थं हेतुहेतुमद्भावप्रतिपादनक्रमेण यावत् तत्प्रसक्ती क्रियाविलोपः । कुतः ? ईश्वरप्राधान्यादुक्तानन्तरदोषाचति धर्माधर्मक्रियाः प्राणिनां न 25 स्युः फलाभावादीश्वरवशादेव आद्यन्तमध्येषु फलसङ्करात् । ततश्च सर्वप्राणिनां निर्मोक्षः निःशेषमोक्षस्तदशादेव सर्वानिर्मोक्षो वा 'प्रोक्त इति ।
१ तदेवं व्यामु य० । तवेदं व्यामू भा० ॥ २ क्रिया यानुग्रह भा० । क्रिया याऽनुग्रह य० ॥ ३ स्यापिक्लेशः प्र० ॥ ४ यल्लता प्र० । “लूता तु रोगे पिपीलिकोर्णनाभयोः ।” इति हेमचन्द्रसूरयः ॥ ५ भृत्यान्न प्र०॥ ६ दृश्यतां पृ. ३४१५०६॥ ७चाण्डाला य०॥ ८तनेनाशाबाधे य० ॥ ९कृष्टसं प्र० । दृश्यता पृ० ३४२ पं० ११। (क्लिष्टसं? )॥ १०स्य मोक्ष इत्यपि पाठोऽत्र स्यात् ॥ ११ साद्यवे य०॥ १२ दृश्यतां पृ. ३३८ पं० १॥ १३ अत्र प्रसक्त इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org