________________
३४४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [चतुर्थे विधिनियमारे यत्तु सर्वशास्त्रक्रियाविलोपपरिहारार्थ कर्माद्युपसर्जनतया ईश्वरप्राधान्यकारण्ये प्रोक्ते 'आदौ स एव स्वशक्तित एव साक्षाद् व्याप्रियते शरीराद्युत्पादने धर्माधर्ममर्यादां चोपदिशति, तदनु ध्यानात् पुण्यमुत्पाद्य धर्माधर्ममर्यादायाः
परिपालकान् ब्रह्मादीनाधिकारिकान् विनियुङ्क्ते, अन्ते च धर्माधर्मी संहृत्य 5शरीरादिवत् कुशलाकुशलाशयकलङ्कशुद्धं खापयति' । इदमन्यथैवोद्वाह्यते
ईश्वरकर्मणोः प्रधानोपसर्जनभावाभ्युपगमाद् द्वैतम्, भाव्यते त्वन्यथा 'स एव स्वशक्तित एव' इत्यवधारणादद्वैतार्थभावनात् साक्षादेवाप्रयोजनेन कस्यचित् । एवंनियमनायेयमपि भावना- तदनुध्यानात् पुण्यमुत्पाद्य इति । प्रत्युपसंहियते तु द्वैताद्वैते द्वे
अपि त्यक्त्वा । अद्वैतस्य त्यागस्तावद् धर्माधर्ममयोदास्थापनवचनेन । मयादा नाम 10 अनतिक्रमस्थानम् , सुखदुःखप्रवृत्तिसीमा । ततश्च सर्गादौ स्थानाद्यात्मके सुखदुःखेऽपि न स्याताम् , अनियतविषयत्वात् , प्रलयवत् । अन्ते च स्याताम् , अनियत
यत्तु सर्वशास्त्रेत्यादि । एतद्दोषपरिहारार्थ कर्माद्युपसर्जनतया ईश्वरप्राधान्यकारण्ये प्रोक्ते । कथम् ? इति तदू भावयत्युत्तरेण ग्रन्थेन - आदौ स एव स्वशक्तित एवेत्यादिना यावच्छरीरादिवत् कुशलाकुशलाशयकलङ्कशुद्धं स्वापयतीति गतार्थः पूर्वपक्षः । धर्माधर्ममर्यादायाः परिपालकान् ब्रह्मादीनाधिकारिकान् विनियुङ्क्ते इति विशेषः । अत्रोत्तरमाहाचार्यः - इदमन्यथैवोद्राह्यते इत्यादि । अन्यथा तावत् प्रतिज्ञायते ईश्वरकर्मणोः प्रधानोपसर्जनभावाभ्युपगमाद् द्वैतम् , भाव्यते तु साध्यहेतुव्याख्यानं क्रियते अन्यथा । कथमिति चेत् , स एव स्वशक्तित एवान्यनिरपेक्ष इत्यवधारणादद्वैतार्थभावनात् , अदृष्टादीनां तच्छक्तीनां च स्वतो व्यतिरिक्तानां निरासेन साादेवाप्रयोजनेन कस्यचित् कॅश्चिदप्यन्यमप्रयोजयन् साक्षात् स्वशक्तित एव इत्यवधारयता चाद्वैतमेव भाव्यते भवता । पुनरप्याह - 20 एवंनियमनायेति, अद्वैतनियमनायेयमपि भावना । कतमा सा भावना इति चेत् , तदनु ध्यानात्
पुण्यमुत्पाद्य इत्येषाप्यद्वैतभावनैवेति । एवं तावत् प्रतिज्ञातं द्वैतम् , अद्वैतं भावितमित्युक्तम् । .२ प्रत्युपसंहियते तु द्वैताद्वैते द्वे अपि त्यक्त्वेति प्रतिज्ञातभाविते द्वैताद्वैते अपि त्यक्त्वा । तत्रा
द्वैतस्य त्यागस्तावद् धर्माधर्ममर्यादास्थापनवचनेन कृत इति वाक्यशेषः । का मर्यादा ? उच्यते-- मर्यादा नाम अनतिक्रमस्थानमिति मर्यादालक्षणमाह । विषयतस्तु सुखदुःखप्रवृत्तिसीमा, इयति विषये सुखमियति दुःखमिति धर्माधर्मयोः सीमनि स्वके स्वके व्यवस्थापनम् , धर्मस्य सुखप्रवृत्तिच्छेदेन अधर्मस्य दुःखप्रवृत्तिच्छेदेन 'अयमस्मादन्यः, अयमितरस्मादन्यः' इति सीमाविभागः । ततः किमिति चेत् , ततश्च सर्गादौ स्थानादीत्यादीति, स्थानविग्रहेन्द्रियविषयाः स्थानादयः, तदात्मके सुखदुःखेऽपि न स्याताम् । कस्मात् ? अनियतविषयत्वात् , अनियतौ हि विषयौ तदा सुखदुःखयोः अविद्यमानस्थानादित्वादविद्यभानधर्माधर्मत्वाच्च । दृष्टान्तः-प्रलयवत् , यथा प्रलये धर्माधर्माभावादेवानियतविषये सुखदुःखे, ततश्चा80 सती, तद्वत् सर्गादावपि स्यातामिति । किञ्चान्यत् , अन्ते च स्याताम् 'सुखदुःखे' इति वर्तते । कुतः ?
१ दृश्यतां पं० ८॥ २ स्थाप' प्र० ॥ ३ इति शेषः य० ॥ ४ दिवा प्र० ॥ ५ किंचिद प्र० ॥ ६ धर्माभावा प्र० ॥
२४६-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org