________________
ईश्वरनिराकरणम्]
द्वादशारं नयचक्रम् । विषयत्वाद नियतविषयत्वाद्वा, मध्यवत् । मध्ये वा न स्याताम्, अन्तवत् । ___ अथोच्येत-अत एव न सुखादिप्रवर्तनात्मिका धर्माधर्ममर्यादा, किं तर्हि ? धर्मोऽयमधर्मोऽयमिति । एतदपि तुल्यं पूर्वेण, असत्त्वात् । धारणाद्धानाद्वा धर्म इत्यर्थस्याभावे कथमसौ धर्मः, तद्विपर्ययो वा कथमधर्मः ?..
___ अथ तु तस्य रुचेरेव सुखं दुःखं वा ततो धर्माधर्ममर्यादावचनमनर्थकम् , 5 सदैव ईश्वरशक्तिमात्रवशादेव यथा तथा यस्य कस्यचित् सिद्धेः, आद्यन्तवत् ।
अनियतविषयत्वात् , विषयानियमोऽपि च रूपादिपञ्चकत्वाद्यभावादुपसंहरणकाले , मध्यकालवत् । अथवा नियतविषयवत्त्वात् , व्यवस्थापितधर्माधर्ममर्यादत्वात् सुखदुःखे तदा नियतविषये , तस्मात् तदापि २४७-१ स्यातां मध्यमकालवत् सृष्टयुत्तरकालवदित्यर्थः । तद्विपर्ययेण वा साधनम् - मध्ये वा न स्यातां सुखदुःखे नियत विषयत्वादिति वर्तते , अन्तवदिति । .
. 10 ___ अथोच्येतेत्यादि यावद्धर्मोऽय[मधर्मोऽय ]मिति । स्यान्मतम् - अत एवेश्वरस्यैव कारणत्वाद् न सुखादिप्रवर्तनात्मिका धर्माधर्ममर्यादा तत्समर्थनासमर्थेत्यर्थः, ईश्वरस्यैव सुखदुःखयोः प्रवर्तकत्वात् । यदि सा न प्रवर्तयति सुखदुःखे धर्माधर्ममर्यादा किमर्थमसौ तां व्यवस्थापयतीति चेत् , उच्यते, स्वरूपसंज्ञाव्यवस्थापनमसौ तयोर्लोकव्यवहारार्थं करोतीत्यत आह - किं तर्हि ? अयं धर्मोऽयमधर्म इत्येतावदुपदेशेनेति । अत्राचार्य उत्तरमाह - एतदपि तुल्यं पूर्वेण, असत्त्वात् , 'सर्गादावन्तवन्न स्याताम-15 नियतविषयत्वात्, अन्ते च स्यातां नियतविषयत्वाद्वा मध्यवत्, मध्ये वा न स्यातामन्तवदितीदमेव दोषजालं प्राप्तम् । किं कारणम् ? धारणाद्धानाद्वा धर्म इति निरुक्तेर्यदि मर्यादां धारयति प्राणिनां सुखे .. चैतान् धत्ते ततो धर्म इत्येतस्यार्थस्याभावे कथमसौ धर्म उच्यते ? तद्विपर्ययो वा कथमधर्म इति तद्विपरीतार्थाभावे ? तस्मात् सुखस्थानादिधारणाद्धर्मः, सुखकारणं ह्यव्यभिचारि तदिष्यते, यस्याभावे यस्याभावो यस्य च भावे यस्य ध्रुवो भावस्तत् कारणमितरत् कार्यमिति कारणस्य धर्मस्य कार्यस्य च सुखस्या- 20 व्यभिचारात् । एवमधर्मेऽपि व्याख्या विपरीतार्था कार्या । तस्मादयुक्तम्-संज्ञाकरणमात्रेण मर्यादेति ।
अथ त्वित्यादि । स्यान्मतम् - तस्येश्वरस्य रुचेरेवेच्छातः सुखं दुःखं वा न धारणधान- २४७-२ प्रवृत्त्यात्मकत्वाद्धर्मस्यान्यस्य वा कस्यचिदिति । अत्रोच्यते-धर्माधर्ममर्यादावचनमनर्थकम् , यदुक्तं प्रतिबुद्धानां प्राणिनां धर्माधर्ममर्यादामुपदिश्योत्तरकालं स्वमर्यादानुष्ठानानुरूप्येण इत्यादि । तत् सर्वमनर्थक संवृत्तम् । तत्साधनार्थं हेतुमाह सदृष्टान्तम् - सदैवेत्यादि यावद् यस्य कस्यचित् सिद्धेरा-25 द्यन्तवदिति । सर्गस्यादौ मध्येऽवसाने च सदैव सर्वकालमीश्वरशक्तिमात्रवशादेवान्यस्य कारणस्याभावेऽपि यथा तथा येन वा तेन वा प्रकारेण सुखस्य दुःखस्य वेष्टानिष्टशरीरादेरनियमेन यस्य कस्यचित् मारकाहिंसकस्य वा सिद्धर्धर्माधर्माकारणत्वम् । तदकारणत्वादाद्यन्तवत् प्रथमावसानकालयोरिव तन्मर्यादावचनमनर्थकमिति । एवं तावदद्वैतत्यागः ।
१°वत्वात् य० । अत्र 'नियतविषयत्वात्' इत्यपि पाठः स्यात् , दृश्यता पं० १६ ॥ २ दृश्यतां पृ० ३४४ पं० १०॥ ३ तस्यैव ( वे ? ) श्वरस्य य० ॥ ४ धर्मा य० ॥ ५ स्यातस्य वाक्यस्यवदिति प्र० ॥ ६ दृश्यतां पृ० ३४१ पं०४॥ ७°नानुप्येण भा० । नानुष्येण य० । अत्र 'नानुरूपेण इत्यपि पाठः स्यात् । दृश्यतां पृ० ३४१ पं० ५॥८स्य हिंस य० ॥
नय०४४ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org