________________
३४६
न्यायागमानुसारिणीवृत्यलङ्कृतम् [चतुर्थे विधिनियमारे तथा द्वैतमपि त्यक्तं साक्षाद्व्यापारवचनात् । साक्षाद्व्यापारो वैश्वर्यम्, तस्मात् तदव्याहतवृत्तेः किं धर्मादिना, किमाधिकारिकैः ? अथ तैर्विना शक्तियाहन्यते तस्य तर्हि व्याहतशक्तित्वात्त्वेवमनीश्वरता इतरवत् ।
ननु प्रधानोपसर्जनद्वैतप्रतिज्ञानात् तत्संवादेन भावनार्थ सर्गादौ साक्षाद्या5 पार उच्यते उपसर्जनेन विनापि प्रधानस्य प्रवृत्तिसद्भावात् चित्राचार्यस्येव शिष्येण विनापि तथाऽदृष्टाद्यभावेऽपीश्वरस्य । न, आदिकरस्य कर्तृत्वात् । अव्यज्यमानप्रकारव्यक्तिरादिः, आदानात्, आदित्योदयादित्ववत् । प्रयोजनपरमार्थत्वाद् भवितृत्वस्य ।
न केवलमद्वैतत्याग एव, किं तर्हि ? तथा द्वैतमपि त्यक्तम् । कुतः ? साक्षायापारवचनादि10 त्यादि यावत् किमाधिकारिकैरिति । साक्षाव्यापारो यैश्वर्यम्, तद् व्याचष्टे-तस्मात् तंदव्याहतवृत्तेः तस्य सर्वैः प्रकारैः सर्वकालं सर्वदेशे वाऽव्याहता वृत्तिरस्य, अतस्तदव्याहतवृत्तित्वात् किं धर्मादिना ? आदिग्रहणादधर्मेण किम् ? स्थानविग्रहेन्द्रियविषयैर्वा प्राणिनां सुखदुःखाश्रयैः प्राणिभिर्वा किं क्रियते ? न किञ्चिदित्यभिप्रायः । किमाधिकारिकैः ब्रह्ममनुविष्ण्वादिभिर्धर्माधर्ममर्यादापालनार्थं विनियुज्यमानैवेति ।
अथ मन्यसे तैर्विना शक्तिया॑हन्यते तस्येश्वरस्य ततस्तस्य व्याहतशक्तित्वात् त्वेवमनीश्वरता 15 कार्यान्तराशक्तेः श्रमाद्वा इतरवदिति पृथग्जनवदित्यर्थः । २४८-१ ननु प्रधानोपसर्जनेत्यादि यावत् तथाऽदृष्टाद्यभावेऽपीश्वरस्येति । आह-द्वैतमेवोद्राहितं
भावितं !त्युपसंहृतं च, नान्यथोद्बाहभावनोपसंहाराः । कथम् ? प्रधानमुपसर्जनं च द्वैतं प्रतिज्ञातम् , तस्यैवार्थस्य संवादेनेश्वरः प्रधानं न कर्मेत्येतद्भावनार्थ सर्गस्यादौ स्वशक्तितः स एव साक्षाद् व्याप्रियते इत्युच्यते । कस्मात् ? उपसर्जनेन विनापि प्रधानस्य प्रवृत्तिसद्भावात् चित्राचार्यस्येव शिष्येण 20 विनापीति । यथा शिष्यमप्रधानं ग्राहयित्वा चित्रकर्मीग्राहयित्वा वा प्रायेण तेन विना सह वा चित्रकर्मणि चित्रकराचार्यः प्रवर्तत एव स्वप्राधान्यात् सन्निध्यसन्निध्योरपि शिष्यस्य प्रवर्तकत्वादेवमीश्वरोऽप्यदृष्टादिसन्निध्यसन्निध्योः प्रवर्तते प्रधानत्वादिति भाव्यत्वादुद्ाहितद्वैतानुरूपभावनोपसंहारात्मकत्वाद् न कश्चिदोष इति ।
एतच्च न, आदिकरस्य कर्तृत्वात् । आदि करोत्यादिकरः, स एव च कर्ता, तस्यैव कर्तृत्वात् । 25 कोऽसावादिरिति चेत्, उच्यते- अव्यज्यमानप्रकारव्यक्तिरादिः, सत एवार्थस्याव्यक्तस्य केनचित् प्रकारेण व्यक्तिरादिः । कुतः ? आदानादिति 'आदानमादिः' इत्यक्षरार्थनिरुक्तिमाह हेतुं दृष्टान्तं च
आदित्योदयादित्ववदिति, यथा आदित्यस्योदयमध्याह्नास्तमयत्वप्रकारेण दिवसविभागानां विद्यमानानां व्यक्तिरेवं तत्र । प्रयोजनपरमार्थत्वाद् भवितृत्वस्य, यः प्रयोजयति परमार्थतः स कर्ता भविता
१ तद्यावृत्तेः प्र. ॥ २णाधर्मेण प्र०॥ ३ प्रत्युसंहृतं प्र० ॥ ४°न उपप्र० ॥ ५ दृश्यतां पृ. ३४४ पं० २॥ ६ ग्राहयित्वा वा प्राणेयं तेन प्र०॥ ७°दिति भाव्यत्वादिति भाव्यत्वा प्र० ॥ ८(करोतीत्या ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org