________________
आदिकरस्य कर्तृत्वप्रतिपादनम्] द्वादशारं नयचक्रम् ।
રૂ૪૭ आदिकरत्वं च यथा व्रीही सम्भाव्यते, अव्रीहेमदादे/हित्वेन आदिकरत्वात् । तथा प्राक् पृथिव्यादीनामप्यादिकरत्वं पश्चादपि तथा, तदादित्वादू बीहे. तथाभिव्यक्तेः तत्प्रयुक्तत्वात् । कस्मात् पृथिव्येव न भूतो व्रीहिः १ को वा ब्रवीति पृथिवी न भूत उदकादिश्च व्रीहिरिति व्रीह्यादि वा पृथिव्यादि न भूतमिति, तत्प्रयुक्तत्वात् ? इतश्चेतश्च तदात्मकत्वात् तदव्यतिरिक्तत्वात् तत् तदेव ।
भूकृयोः सर्वधात्वर्थत्वात् , न प्रयोज्यः, इत्यस्मात् कारणाद् य आदिकरः स कर्ता, यश्च कर्ता स भवति, भूकृञोः सर्वधात्वर्थव्यापित्वात् । एतदुक्तं भवति-यतः प्रकारान्तरेणाभिव्यञ्जयन् भावान्तरस्यादिकरत्वाद् २४८-२ भवति वस्तु तत एकैकस्य सर्वत्वम् , न सर्वस्यैकत्वं परस्परापेक्षाभिव्यञ्जनेनादिकरत्वादिति ।
अस्मिंश्चार्थे व्यापकं दृष्टान्तमाह स्फुटीकरणार्थम् - आदिकरत्वं च यथा व्रीहौ सम्भाव्यत इति । तद्व्याख्या - अव्रीहेमंदादे/हित्वेनादिकरत्वादिति, मृत्सलिलवाताकाशानामव्रीहीणां व्रीहिप्रकारेणा-10 भिव्यक्तिं कुर्वन् व्रीहिरादिकरः, एतमर्थं हेतुत्वेन व्यापारयति सिद्धं कृत्वा पञ्चम्या ब्रीहित्वेनादिकरत्वादिति । तथा प्रागित्यादि, एवं च कृत्वा ब्रीहित्वात् प्रागपि पृथिव्यब्वाय्वाकाशानामप्यादिकरत्वं पश्चादपि तेन प्रकारेण तथा व्रीहिवदेव, तदादित्वाद् व्रीहेः, ते आदिः पृथिव्यादयो व्रीहेः प्राक् पश्चाचेति तेषामादिकरत्वम् तेन प्रकारेणाभिव्यक्तः। किञ्चान्यत् , तत्प्रयुक्तत्वाद् व्रीहेः, ते ह्यस्य प्रयोतारः, यो यस्य प्रयोक्ता स तस्य कर्ता यथा आदित्योदयादित्वमित्यत आह - तत्प्रयुक्तो व्रीहिः। 15
कस्मात् पृथिव्येव न भूतो व्रीहिः, पृथिव्येव उदकमेव वायुरेव वा आकाशैमेव वा, तत्प्रयुक्त- . त्वात् आदिकरत्वादादित्योदयादित्ववत् ? इति । अत्रोच्यते - को वा ब्रवीति-पृथिवी न भूत उदकादिश्च व्रीहिरिति तत्प्रयुक्तत्वात् व्रीह्यादि वा पृथिव्यादि न भूतमिति तत्प्रयुक्तत्वात् ? व्रीहिरपि पृथिव्यब्वाय्वाकाशादि भवति, पृथिव्युदकवाय्वाकाशाद्यपि च व्रीहिमाषाम्रजम्ब्वादि भवति, तत्कृताहारोऽपि पृथिव्यादि व्रीह्यादिः पृथिव्याद्यपि तत्कृताहारः, तत्कृताहारशरीरेन्द्रियबुद्ध्यादि तत्कृतमनुष्यतिर्यङ्नारक- 20 देवादि च, तत्कृताहारव्रीहिपृथिव्यादि च तत्कृताहारशरीरेन्द्रियबुद्धिमनुष्यादि सर्वं परस्परतः सर्वात्मकं भवति, २४९-१ तत्प्रयुक्तत्वात् तथाभिव्यक्तस्तदादिकरत्वादित्यादिहेतुभिः । कियद्वोदाह्रियते ? न्यायस्यास्य व्यापित्वात् सर्व तदुदाहरणमेव । दिमात्रप्रदर्शनार्थं । तद्व्यापित्वप्रदर्शनार्थं । चाह - इतश्चेतश्चेति, यदि व्रीहितो व्रीहेरादिकरत्वम् अथ पृथिव्यादितः पृथिव्यादेरादिकरत्वमिति तान्येवोदाहरणानि । एवं तत्कृताहारशरीरेन्द्रियादिष्वपि द्रष्टव्यम् , सर्वस्यैकैकस्य सर्वात्मकत्वात् । तत आह - तदात्मकत्वात् तदव्यतिरिक्तत्वात् तत् 25 तदेवेति तस्य तस्य प्रकारस्य हेतुत्वं दृष्टान्तत्वं चेति ।
१ अयन् भवान्त भा० । अयनवान्त य० । २ नादिति तथा प्र० ॥ ३°मित्यक्तः आह प्र० ॥ ४ (पृथिव्यायेव ? ) ॥ ५°मेवा तत्प्र य० । °मेव तत्प्र भा० ॥ ६ तत्तत्प्र भा० ॥ ७°रत्वादिहेतुभिः प्र०॥ ८ ॥ एतच्चिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org