________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ चतुर्थे विधिनियमारे
पुरुषकर्मस्वयेवमेव । पुरुषः कर्मयोग्यानां पुद्गलानां कर्मत्वेन आदिकरः, तथाविधोपयोगगतेः प्रयोजनपरमार्थत्वाद् भवितृत्वस्य । तदपि च कर्म आदिकरम्, बाह्यमपि घटादि आदिकरम् ।
૩૮
एवं दृष्टान्तभूतं प्रस्तुतन्यायप्रसाधितं सर्वसर्वात्मकवादं प्रथयित्वा दाष्टन्तिकं पुरुषकर्मवादमीश्वर1. 5 कारण निराकरणायाह - पुरुषकर्मस्वप्येवमेवेत्यादि । पुरुषः कर्ता कर्मयोग्यानां पुद्गलानां कर्मत्वेन आदिकरः । ' के कर्मयोग्याः पुद्गलाः ? उच्यते - परमाणुवर्गणा अग्रहणवर्गणा, अग्रहणवर्गणा द्विप्रदेशवर्गणा, एवं दशप्रदेशादिसङ्ख्येयप्रदेशवर्गणाः । समानजातीयानामेकशो बुद्ध्यावस्थापितानां पिण्डो वर्गणा, कुचिकर्ण का भी रसवर्ण गोपिण्डवत् । अनन्तप्रदेशवर्गणा अपि काश्चिद् ग्रहणयोग्याः काचिदग्रहणयोग्याः । ग्रहणयोग्यायोग्यत्वं चातिस्थूलसूक्ष्मायोग्यत्वात् स्वेदेनेव परमाणुशर्कराणां, योग्यत्वाच्च मध्यमपरिमाणानाम् । 10 तत्र या ग्रहणयोग्याः पुद्गलतो वर्गणाः तीच मानेन सिद्धानामनन्ततमभागः अभव्यसिद्धीनामनन्तगुणाः । एष तावदौदारिकयोग्यस्य जघन्यस्य विधिः । तदुपर्येकपरमाणौ प्रक्षिप्ते द्वितीयाप्यौदारिकयोग्या एवमेकैक२४९-२ वृद्धान्यनन्तानन्तानि स्थानानि औदारिककारणत्वेन ग्रहणयोग्यानि । जघन्यादुत्कर्षस्थानमसङ्ख्येयगुणम्, यस्मात् परम्परोपनिधया प्रथमस्थानादारभ्यानन्तस्थानेषु तेषु तेषु द्विगुणता भवति तस्मादसङ्ख्यगुणं सङ्ख्येयगुणं वा, अनन्तरोपनिधया तु रूपाधिकमेव । तस्मिन्नुत्कृष्टौदारिकयोग्यद्रव्ये रूपे प्रक्षिप्ते जघन्यं वैक्रिय15 शरीरस्याग्रहणयोग्यम् । एवं रूपाधिकवृद्ध्या तान्यप्यनन्तानन्तानि स्थानानि पूर्ववत्, जघन्यादुत्कृष्टमसोयगुणम्, को गुणकारः ? श्रेण्यसङ्ख्यतमभागः । तेषामग्रहणानामुपरि वैक्रियस्य जघन्यं ग्रहणयोग्यम् । तान्यपि
१ कर्मयोग्याः पुलाः उच्यते भा० । कर्मयोग्याः पुद्गला उच्यन्ते य० ॥ २ " कुइयण्णगोविसेसोवलक्खणोवम्मओ विणेयाणं । दव्वाइवग्गणाहिं पोग्गलकार्यं पयंसेति ॥ ६३२ ॥ आह- किमर्थं पुनरेता वर्गणाः प्ररूप्यन्ते ? उच्यते - कुचिकर्णस्य गोमण्डलाधिपतेर्गावस्तासां परस्परं विशेषस्य यदुपलक्षणं परिज्ञानं तदौपम्यात् तद्दृष्टान्ताद् विनेयानामसंमोहार्थं द्रव्यादिवर्गणाभिः, आदिशब्दात् क्षेत्रवर्गणाभिः कालवर्गणाभिः भाववर्गणाभिश्च समस्तमपि पुद्गलास्तिकायं विभज्य तीर्थंकर गणधरादयः प्रदर्शयन्ति इति गाथाक्षरार्थः । अथ भावार्थ उच्यते - इह भरतक्षेत्रे मगधजनपदे प्रभूतगोमण्डलखामी कुचिकर्णी नाम गृहपतिरासीत् । स च तासां गवामतिबहुत्वात् सहस्रादिसङ्ख्या परिमितानां पृथक् पृथगनुपालनार्थं प्रभूतान् गोपालांश्चक्रे । ते च तासु परस्परं मीलितासु गोषु आत्मीया आत्मीयाः सम्यगजानन्तः सन्तो नित्यं कलहमकार्षुः । तांश्च तथान्योन्यं विवदमानानुपलभ्यासौ तेषामव्यामोहार्थं कलहव्यवच्छित्तये शुक्लकृष्ण रक्त कर्बुरादिभेदभिन्नानां गवां प्रतिगोपालं सजातीयगोसमुदायरूपा भिन्ना वर्गणा व्यवस्थापितवानिति एष दृष्टान्तः । अथोपनय उच्यते - इह गोमण्डलप्रभुकल्पस्तीर्थकरो गोपतुल्येभ्यः स्वशिष्येभ्यो गोसमूहसमानं पुद्गलास्तिकायं तदसंमोहार्थं परमाण्वादिवर्गणादिविभागेन निरूपितवानिति । ” इति श्रीमलधारिहेमचन्द्रसूरिविरचितायां विशेषावश्यकभाष्यटीकायाम्, पृ० ३२८ । “ग्रामः सुघोषो नामाभून्मध्ये मगधनीवृतः । कुचिकर्णाभिधानश्च ग्रामणीस्तत्र विश्रुतः ॥ १ ॥ गवां शतसहस्राणि तस्य संजज्ञिरे क्रमात् । बिन्दुना बिन्दुना हन्त म्रियते हि सरोवरम् ॥ २ ॥ गोपालानां पालनाय सोऽर्पयामास गास्ततः । भव्या मम न ते भव्या इत्ययुध्यन्त ते बहिः ॥ ३ ॥ कुचिकर्णो विभज्यैता आर्पयत् कस्यचित् सिताः । कृष्णाः कस्यापि कस्यापि रक्ताः पीताश्च कस्यचित् ॥ ४ ॥ पृथक् पृथगरण्येषु गोकुलानि न्यवेशयत् । भुञ्जानो दधिपयसी सोऽवसत् तेषु च क्रमात् ॥ ५॥ अन्वहं वर्धयामास गोष्ठे गोष्ठे स गोधनम् । अतृप्तो दधिपयसोः सुराया इव दुर्मदः ॥ ६ ॥ तस्याभवदथाऊर्ध्वद्रसम् । प्रदीपनान्तः पतितस्येव दाहो महानभूत् ॥ ७ ॥ हा धेनवो हा नवतर्णकाश्च हा शाकराः वः क कदा च लप्स्ये । स गोधनैरेवमतृप्त एव मृत्वाथ तिर्यग्गतिमाससाद ॥ ८ ॥” इति कलिकालसर्वज्ञहेमचन्द्रसूरिविरचितायां स्वोपज्ञयोगशास्त्रवृत्तौ २।११२ ॥ ३ खेदोरेव प्र० ॥ ४ तश्च प्र० ॥ ५ औदारिककारत्वेन प्र० । अत्र औदारिकशरीरत्वेन इत्यपि पाठः स्यात् ॥ ६ स्थानेषु तेषु द्वि° य० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org