________________
पुरुषकर्मणोरन्योन्यादिकरत्ववर्णनम् ] द्वादशारं नयचक्रम् ।
३४९
स्थानानि पूर्ववदनन्तानन्तानि । पुनराहारकाग्रहणानि, तथा तदुपरि तद्ब्रहणयोग्यानि तथैव । औदारिकशरीरयोग्येभ्यो वैक्रियशरीरयोग्यान्यसङ्ख्येयगुणानि, ततोऽसङ्ख्ये यगुणान्याहारकयोग्यानि, तावदसङ्ख्ये यगुणानि ग्रहणाग्रहणानि पूर्वस्मात् पूर्वस्मात् । तदुपर्याहारकोत्कृष्ट रूपे प्रक्षिप्ते जघन्यमग्रहणं तैजसस्य, जघन्यादुत्कृष्टमनन्तगुणम्, ,को गुणकारः ? अभव्येभ्योऽनन्तगुणः सिद्धानामनन्ततमभागः । तदुपरि रूपाधिके तैजसशरीरयोग्यं [ जघन्यम् ] । जघन्यादुत्कृष्टमनन्तगुणम्, को गुणकारः ? सिद्धानामनन्ततमभागोऽभव्येभ्योऽनन्त- 5 गुणः । अनेन विधिनोत्तरेषां भाषाप्राणापानमनः कर्मयोग्यानामग्रहणान्तरितानां ग्राह्याणामुत्तरोत्तरानन्तगुणमानेयाः । अन्तरं तु ग्राह्याणां जघन्यादुत्कृष्टो विशेषाधिकः सर्वत्र, को विशेषः ? तस्यैवानन्तभागः । अग्राह्याणां तु जघन्यादुत्कृष्टोऽनन्तगुणः, को गुणकारः ? सिद्धानामनन्ततमभागः अभव्येभ्योऽनन्तगुणः । एवं - २५० - १ विधैः पुद्गलैः सर्वत्र लोकेऽगाढगाढनिचिते कर्मतया परिणमय्य तद्योग्यान् कायवाङ्मनः कर्मलक्षणानां त्रयाणां योगानां काययोगेन गृह्णाति तेनैव कोर्मणशरीरतया परिणमयति पुरुषः स्ववीर्येण योगाख्येन, वाङ् - 10 मनः प्राणापानतया परिणमय्य काययोगेनैव वाङ्मनः प्राणापानतयालम्ब्य विसृजति । यथोक्तम्—
'जोगेहि तदणुरुवं परिणमयति गेण्हितूण पंचतणू ।
]
पाउग्गे वालंबति भासाणमणत्तणे खंधे ॥ [ कर्मप्र० गा० १७] मैंनसा वाचा कायेन वापि युक्तस्य वीर्यपरिणामः । जीवस्यात्मनि यः खलु स योगसंज्ञो जिनैर्दृष्टः ॥ [ तेजोयोगाद् यद्वद् रक्तत्वादिर्घटस्य परिणामः । जीवकरणप्रयोगे वीर्यमपि तथात्मपरिणामः ॥ [ कि कारणम् ? तथाविधोपयोगगतेः, बन्धनयोग्यपरिणामापन्नपुद्गलद्रव्यग्रहणपरिणतकृतप्रयोगपरिणामापत्तेः पुरुषस्येत्यर्थः । यथोक्तम्
] इति ।
तथा
ऊष्मगुणः सन् दीपः स्नेहं वर्त्या यथा समादत्ते । आदाय शरीरतया परिणमयति चापि तं स्नेहम् ॥ [
J
१ वगाढनिचिते डे० लीं० २० हीं ० | 'वगाढं (ढे ? ) गाढनिचिते वि० ॥ २ कर्मणाश पा०डे० लीं० ॥ ३ वाङ्मनसप्राणा ं प्र० ॥ ४ जोगेहिं य० ॥ ५ तुलना - " जोगणुरूवं जीवा परिणामेंतीह गेण्हिऊं दलिय । भासाणुप्पाणमणोचियं च अवलंबए दव्वं ॥ [ पञ्चसं० ६ । १३ ] | स्वकीययोगानुरूपं कर्मदलमिह अस्मिल्लोके निरन्तरं व्यवस्थितं स्वप्रदेशैः गृहीत्वा जीवाः परिणमयन्ति स्वप्रदेशैरे की कुर्वन्ति, यथा मृत्परमाणवः पयांसि तद्गताः पूपकपरमाणवो घृताद्यात्मनि स्थापयन्तीत्यर्थः । भाषानपानमनस उचितं च द्रव्यजातं वर्गणारूपमवलम्बयन्ति योगानुरूपमेव, किमुक्तं भवति ? भाषायोग्यं द्रव्यमवलम्ब्य जीवः प्रदेशैस्ततो भाषां विसृजति, यथा मन्दशक्तिः करेण यष्टिमवलम्ब्य भ्रमति, नयां वा अलाब्वादि गृहीत्वा तरति, कूपाद्वा रज्जमवलम्ब्य समुत्तरति । एवमानपानमपि तत्पुद्गलावष्टम्भतो जीवः प्रदेशैः स्वयोगानुरूपं विसृजति, मनोयोग्यानि द्रव्याण्यवलम्ब्य स्वप्रदेशैस्ततः स्वशक्त्यनुरूपं चिन्तयतीति गाथार्थः ।" इति चन्द्रमहर्षिविरचितायां खोपज्ञपञ्चसङ्ग्रहवृत्तौ ॥ ६ " आह च - 'माणसा वयसा कारण वा वि जुत्तस्स वीरियपरिणामो । जीवस्स अप्पणि जो स जोगसन्नो जिणक्खाओ ॥ १ ॥ ओजोगेण जहा रत्तत्ताई घडस्स परिणामो । जीवकरणप्पओए वीरियमवि तहप्पपरिणामो ॥ २ ॥ इति । मनसा करणेन युक्तस्य जीवस्य योगो वीर्यपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोगः, एवं वाग्योगोऽपि, एवं काययोगोऽपि ।" इति अभयदेवसूरिविरचितायां स्थानाङ्गसूत्रटीकायाम् ३ । १ । १२४ ॥ ७ कारिकेयं समुद्धृता सिद्धसेनसूरिविरचितायां तत्त्वार्थ सूत्रटीकायाम्, अ० ७, पृ० ७० ॥ ८ संदीपः प्र० ॥ ९ वापि प्र० ॥
...
Jain Education International
For Private & Personal Use Only
15
20
www.jainelibrary.org