Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 479
________________ ३६२ न्यायागमानुसारिणीवृत्त्यलङ्कतम् [चतुर्थे विधिनियमारे ___ यदपि च रूपादि तदप्यात्मन एव तत्त्वम् , उपयोगात्मकत्वात् तदव्यतिरेकलभ्यरूपत्वात्, मत्यादिवत् । रूपादीनां देशकालादिभेदेन अगृह्यमाणत्वाद परिणयमतीत्यादिना यावदनादित्वमेकत्वमिति परिणाम्यपरिणामकयोरनियतदेशकालभावादिरूपतां दर्शयति तथाभवनसामोद् गतिजात्यादिना पुद्गलानिति, उपयोगलक्षण आत्मा गतिजातिशरीरा5ङ्गोपाङ्गाद्यनुभवनोपयोगात्मतया तान् पुद्गलान् परिणमयतीति आत्मनः परिणामकत्वं तेषां परिणाम्यत्वम् । पुद्गलाश्चात्मानं मिथ्यादर्शनादित्वेनेति मिथ्यादर्शनाविरतिप्रमादकषाययोगसुखदुःखोदयक्षयोपशमादिभावेन परिणमयन्ति, तद्भावेनात्मा परिणम्यते । स च मिथ्यादर्शनोदयादिभावो भवभ्रान्तिहेतुः, तद्वशस्य संसरणात् । एतस्य कर्मकर्मिद्वयस्यान्योन्यपरिणामकत्वादनादित्वमेकत्वमेव, एकत्वशब्देन पर्यायभूतेन तत्त्वं व्याचष्टे संसारस्य कर्मकर्मिसम्बन्धजत्वात् तस्य च सम्बन्धस्यानादित्वात् । यथोक्तम् - पुचि भंते ! अंडए 10 पच्छा कुकुडी ? इत्यादि प्रश्नः । व्याकरणम् - रोहा ! पुंबि पि एते पच्छा वि एते, दो वि एते सासता भावा, अणाणुपुल्सी एसा रोहा! [भगवतीसू० १॥६॥५३] इत्यादि । मिथ्यादर्शनग्रहणं सर्वकर्मबन्धाधारभूतत्वाच्छेषस्यापि सर्वस्य सूचनम् । ___ आह - यदुक्तं त्वया कर्पूरोदकाद्यचेतनानां परिणाम्यपरिणामकभावादेकत्वं चेतनाचेतनयोश्च जीवकर्मणोरिति तद्युक्तम् । किन्तु 'रूपादि उपयोगीभवदात्मा भवति आत्मापि रूपादीभवति तत्परिणामात्' 15 इत्येतन्नोपपद्यते स्वभावाविनाशादिति । अत्रोच्यते - यदपि चेत्यादि यावद् मत्यादिवदिति । यदपि च २५९.२ बहिर्भिन्नं विषयजातमुपयोगनिमित्तभूतं रूपादि तदप्यात्मन एव तत्त्वम् । रूपादितत्त्वमात्मानं च वक्ष्यामः । कुतो रूपाद्यपि आत्मन एव तत्त्वमिति चेत् , उच्यते - उपयोगात्मकत्वात् , मत्यादिचक्षुर्दर्शनादिभेदप्रभेद उपयोग आत्माऽस्य रूपादेविषयस्य सोऽयं तदात्मकः । कथं रूपादेविषयस्योपयोगात्मकत्वमिति चेत्, उच्यते - तदव्यतिरेकलभ्यरूपत्वात् , रूपं रसो गन्ध इत्यादिविषयस्वरूपाकारेणोपयोगेन अव्यतिरिक्त 20 एकीभूत एवोपलभ्यते रूपादिविषयो नान्यथा, अन्यथा विषयस्वरूपानवधारणात् । तस्मात् तदनतिरेक लभ्यरूपत्वात् रूपादिविषय उपयोगात्मकः । यद् यदुपयोगात्मकं तत् तदात्मन एव तत्त्वम् , यथा मत्यादिचक्षुर्दर्शनादिभेद उपयोग इति । | __ स्यान्मतम् - रूपादीनां देशभेदेन युगपदवस्थायिनां रूपं रसो गन्ध इत्यादयः परस्परतो देशभिन्ना इति गृह्यन्ते । तस्य देशस्य परमाणुशो भेदे न रूपं रसो गन्धो वोपलभ्यते, देशसम्बन्धेन तूंपलभ्यमाना 25 भवन्ति । देशतोऽत्यन्तं भेदग्रहे तेषामभवनम् । तथा क्षणभेदे प्रथमक्षणेऽन्यद् रूपं द्वितीयक्षणेऽन्यदिति गृह्यते चेद् न रूपं नाम किञ्चित् स्यात् 'तनिष्ठस्य कालस्य रूपग्रहणाश्रयसम्बन्धाभावादित्यभवनात्मका १°णम्य प्र०॥ २°णमक प्र०॥ ३ पुदिव एते य० । पुपि एते भा० । दृश्यतां पृ० १८६ पं० २१, टि० ६॥ ४ कर्पूरादेकाद्य प्र० ॥ ५ (°त्मीभवति ? )॥ ६ °त्मनं च भा० । (°त्मनश्च ? ) ॥ ७ विकस्य भा० । विकल्प य० ॥ ८°त्मकेणवि चेत् प्र०॥ ९ दिवि य० ॥ १० अन्यथा भा० प्रतौ नास्ति ॥ ११ इतः पूर्व कश्चन पाठोऽत्र त्रुटित इति भाति ॥ १२ गन्धश्चो' य० ॥ १३ रूपल प्र०॥ १४ "त्यन्तभेद भा०॥ १५ तन्निष्टस्य प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662